________________
काव्यकल्पलतावृत्तिः
मनोज्ञाश्च ते सन्तश्च तेषु शोभी । तथा पूर्णा काकपिकरवैर्वाटिका गिरितटीवत् । काकाश्च पिकाश्च काकपिका, स्तेषां रवैः शब्दैः, पूर्णा । पक्षे पूर्ण अङको मध्यभागो, यस्यां सा तथाकैः । कपय एव कपिका, स्तेषामारवैः शब्दैः । तथा शुकविभ्राजितान्तरं वनं नृपास्थानवत् । शुकाश्च ते वयश्च शुकवय, स्तैर्भ्राजितं शोभितं, अन्तरं मध्यं यस्य तत् तथा । पक्षे शसयोरैक्यात् सुकविभिः शोभनकविभिर्भ्राजितमन्तरं यस्य तत्तथा । तथा भूयो बकभ्रविभवं यमुनाजलमथवा पक्व धान्यं वनवत् । भूयांसो बका यत्र तत् । तथा रविभवं सूर्यप्रभवं तज्जन्यत्वात् । तथा भूयस्यश्च ता आपश्च भूय आपः । भृयोद्भिरकम्रो विभवः सम्पद् यत्र तत्तथा । पक्षे भूयांसो वा वायवः, तैः कम्रो मनोज्ञो, विभवो यस्मिन् तत् तथा । निरस्तपङकसारङ्गं काननं रेवातटवत् । निरस्तपङका निष्पापाः, सारङ्गा मृगा, यस्मिन् तत्तथा । पक्षे निर्गतपङका निष्कर्दमा, अर्थान्निर्मलाः सारङ्गा गजा यस्मिन् तत्तथा । तथा भेकन्याससमाकुलः कासार: कातरसङ्गामवत् । भेका दर्दुरास्तेषां न्यासो निवेश, स्तेन समाकुलः । पक्षे भेका भीरव, स्तेषां न्यासः स्थापनं, तेन समाकुलः । तथा सदा स्तोकचयप्रीतिः सज्जनो घनवत् सदा निरन्तरं, अस्तोकानां अर्थात्सर्वेषां लोकानां चये समृहे प्रीतिर्यस्य स तथा । पक्षे स्तोकचयश्चात कसमूह, स्तस्य प्रीतिर्यत्र स तथा । तथा सदालिकर्णप्रमोदकृत् उत्तमः अधमवत् ।
सतां पण्डितानां, आलिः श्रेणिस्तस्याः कर्णानां प्रमोदकृत् हर्षकृत् । पक्षे सदा नित्यं, अलिकं कूटं यद् ऋणं तेन प्रमोदं कृन्ततीति सदालिकर्णप्रमोदकृत् । तथा विपुलकपालीहरवत् तटाकभूमिः । विपुलं विस्तीर्ण, कपालं यस्य सा तथा । पक्षे विपुला विस्तीर्णा, पाली सेतु, र्यस्यां सा । तथा अनया दिशा सर्वत्रोदाहरणानि ज्ञेयानीति ।
तथा चक्रतक्रादिशब्दानामग्रे कोशक्रोडप्रभृतयः शब्दा योज्याः । तत्र शुक्रं वीर्य, नक्रं नासिका, कोडो मध्यं, क्रतुः यज्ञः, ऋव्यं मांस, क्लेशः खेदः, क्लमः परिश्रमः क्रमेलकः उष्ट्र, कचं करपत्रके करवत इति प्रसिद्धिः इत्यादि ।
१०१
तथा राकाशङकादिशब्दानामग्रे कासिकायप्रमुखाः शब्दा योज्याः । तत्र राका पूर्णिमा, लङका नगरीविशेषः, कालिका कृष्णादेवी वा, ऊर्मिका मुद्रिका, कृत्तिका नक्षत्रं, उत्कलिका कल्लोलः, ओकलीतिप्रसिद्धिर्वा, काशीर्वाराणसी नगरी । कायः शरीरं, काकुः ध्वनिविशेष:, काञ्ची कटिमेखला, कारा गुप्तगृह, काकोलो विषविशेषः, कापेयं मद्यं, कासर : महिषः काश्यपी भूमिः कासारः सरोवरम |
तथा नाकिपिनाकिप्रमुखशब्दानामग्रे किल किरणाद्याः शब्दा योज्याः । तत्र नाकिनो देवाः पिनाकी ईश्वर:, वानकी वातरोगी, वर्द्धकी सूत्रधारः, श्रीवृक्षकी अश्व:, श्रीवत्सो लाञ्छनं यस्य स श्रीवृक्षकी, प्रचलाकी मेयूरः ।
तथा शुकीपिकीप्रभृतिशब्दानामग्रे कीरकीलादि शब्दा योज्याः । तत्र बन्धुकी कुलटा, वल्लकी वीणा, आमलकी क्रीडाविशेष:, कीला ज्वालाकी, नाशो यमः, कीलालं जलं इत्यादि ।
[तथा] काकुप्रमुखाणामग्रे कुल कुञ्चादिशब्दा योज्याः । तत्र काकुर्ध्वनिविशेषः, रंकुमृगभेदः, न्यंकुर्हरिणः, शंकुः कीलकः, कुशीलवः वारणस्तु कुशीलवः कुरबक : वृक्षः, कुहर: गर्ता, कुवेणी मत्स्यबन्धनी, कुरङ्गो मृगः । म. टी. तथा मुखमखादीनामग्रे खरखानि प्रमुखाः शब्दा योज्याः । तत्र मखो यज्ञः पुंखः बाणपृष्टं, खनिः खाणि इति प्रसिद्धा ।
भुजग अध्वग उत्तरङ्ग कलिङग सारङ्ग । अग्रे-गदा गज गति गद्य अङगद गर्भगद गरल गल गर गजराज गजारोह गङ्गा गण्ड गन्ध आगन्तु गोधा गौर गोसर्ग गौधेय गोधन गाङ्गेय गौरव ।
सुरङगा आपगा निम्नगा । अग्रे--गान गात्र अगाध । भगि भोगि । अग्रे-गिरि । भुजगी । अग्रे-गीति । गुगु प्रियङ्गु । अग्रे -- अगुरु गुरु गुह । आगू । अग्रे - गूढ गृह गृहनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org