________________
काव्यकल्पलतावृत्तिः
मालवदेशो वृद्धपुरुषवत् । लसितो मनोज्ञो यो गुड ईक्षरसक्वाथस्तेन रम्य: । पक्षे लकारेण सितो बद्धः, सहित इत्यर्थः, यो गुडः लगुडः, दण्डस्तेन रम्य: तथा । शकलकटयुक्तः कश्चित् पुरुष: शाकटिकवत् । शकलश्चासौ कटश्च शकलकटस्तेन युक्तः । पक्षे शकटयुक्तः । तथा सततगोत्रस्थिति: पृथ्वी कुटम्बवत् । सततं गोत्रस्थिति: पर्वतस्थिति, यंत्र सा तथा । पक्षे सकारेण तता विस्तीर्णा, वस्तुतः सहिता, गोत्रस्थितियत्र तत् तथा। सगोत्रस्थितिः स्वजनस्थितिः तथा । पुरो हसितपटयुक्त: उद्घोषकपुरुषवत् । पुरोऽग्रे हसितोऽर्थात् शोभितो यः पटस्तेन युक्तः । पक्षे पुरोऽग्रे हकारेण सितो बद्धो यः पट: पुरुषः पटहस्तेन यत: तया । क्षमोदिनपस्थिति: धनकृत तपस्विवत् । क्षमायां उदिता पणस्थितिर्यस्य स तथा । पक्षे क्षकारेण मोदितानि पणानि क्षपणानि तपांसि, तेषां स्थितिर्यस्य स तथा । कोपपद इत्यादिषु-क उपपदे यस्य स कोपपदः । कोपः १. टोपः २. रोपः ३. लोपः ४. कूप: ५. भूप: ६. यूपः ७. उरूप: ८. इत्यादि ज्ञेयम् ।
का. क. अथ वर्णाकर्षणेन श्लेषप्रकारान्तरमाह--
अकार्कागाग्य्याग्राद्यार्घार्चािाचिरच्छाजाब्जाः :
अज्ञाटाद्याट्टाण्यण्वत्राय॑तोऽत्यथार्थोऽथो ।।४०।। अक अर्क अग अग्य अग्र अघ अर्घ अर्ध्य अर्चा अर्घ्य अचि: अच्छ अज अब्ज अज्ञ अट अद्य अट्ट अणि अण अत्र अति अत: अति अथ अर्थ अथो।
अदोऽदिरब्दोऽधोऽ ध्वाध्यनोऽन्वन्या अपाप्यवि ।
अर्वावाभ्यभ्राम्यम् अमार्यायेऽयमय्यया: ॥४१ ।। अदः अद्रि अब्दः अधः अर्ध अध्व अधि अन: अनु अन्य अप अपि अवि अर्व अव अभि अभ्र अमी अम अमा अर्या अये अयं अयि अयः ।
अरमरु र रेर्यरास्त्राल्पाल्यलमश्वाश्रवोऽश्रिरसौ।
अश्रास्वहो अहरहमायक्ष्यक्षा विवजितविहीनौ ।।४२।। ____ अरं अरु: अरे अरि अर अस्त्र अल्प अलि अलं अश्व अश्रु अश्रि असौ अश्र असु अहो अहः अहं अहं अहिः अक्षि अक्ष।
अखिलान्यूनाजस्थानन्ताभीक्ष्ण्याधिकापरापाराः । अतुलानेकानल्पाशेषासक्तानघामदादभ्राः ॥४३।। अहहामरासुराद्या इत्यकारादयो हि ये ।
योजयेत् तान् यथौचित्यं वर्णाकर्षणहेतवे ।।४४।। एते ह्यन्येऽपि यक्षरास्त्र्यक्षराश्चतुरक्षरा: वा अकारादयः शब्दानामादौ वर्णाकर्षणाय प्रयोज्याः । श्लेषो भवति यथा--अककमलशाली, पक्षे मलशाली । अच्छच्छगणशाली, पक्षे गणशाली । अलङकेशयुक्तः, पक्षे केशयुक्त: इत्यादिशब्दा ज्ञेयाः ।
ककी कुकूखखुगगौघोचचाचिचयस्तथा । जातातीस्थिददादूधधीननीपापपोपुपूः ।।४५।। स्फस्फावावीबवेवैभभाभारोशूशसा ससू ।। सीहहाहीक्षक्षाक्षीक्षौ एतेषां रहितः पुरः ।।४६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org