________________
९७
काव्यकल्पलतावृत्तिः
म.टी खचितद्योतयतप्रभतिशब्दानां द्वितीयार्थद्योतकशब्दा यथा-खद्योतः १. गजारोह, २. घस्मरः ३. चपलश्री: ४. छगणः ५. जघन: ६. रसज्ञा ७. करट: ८. तारण: ९. स्थपुट: १०. दानवः ११. धवलः १२. नक्षत्रशोभी १३. पवनराजी १४. प्रकटः, १५. स्फुरणः १६. विपक्ष: १७. वामनः १८. भरतः १९. मसूरः २०. यावकोऽलक्तकः २१. रमणी २२. लगुडः २३. शकट: २४. सगोत्रः २५. पटहः २६. क्षपण: २७. । एसेषां दृष्टान्तदाष्र्टानि कयोजना यथाखचितद्योतयतः सूर्यो वर्षाकालवत् । खचितो निबिडो द्योत उद्योतस्तेन युतः । पक्षे खकारेण चिताः व्याप्ताः ये द्योता? खद्योता इत्यर्थः, तैर्युतः । वर्षाकाले हि खद्योता बहवो भवन्तीत्यक्तम् । तथा गाहितजारोहा व्यभिचारिणी स्त्री नपवत. गाहितोऽवगाहितो जारपुरुषस्य ऊहो विचारो, यया सा तथा । पक्षे गकारेणाहितो व्याप्तो जो (यो) गजस्तत्रारोहो यस्य स तथा । तथा घनद्धिस्मरः कामी कुक्षम्भरिवत् । घनं वर्द्धते इत्येवंशीलः स्मरो यस्य स तथा । पक्षे घकारेण न वद्धिस्मरो घस्मरः खाउकण इति प्रसिद्धः । तथा च रोचितपलश्रीः शौतिकः वानरवत । चराणामचिता योग्या पलश्री: मांसश्रीर्यस्य स तथा । पक्षे चकारेण रोचिता सहिता पला चपला श्रीर्यस्य स तथा। तथा छविराजिगण ईश्वरः छगणशब्दवत । छवि: प्रभा, तथा राजी गणो यस्य स तथा । पक्षे छकारेण विराजी गणो यत्र स तथा छगण इत्यर्थः । तथा जालोचितघनः पवनः पथ: स्त्रीजघनशब्दवत, जालैर्जलससमूहै, रुचितो योग्यो, घनो मेघो, यत्र स तथा । पक्षे जकारणालोचितो धनशब्दो यत्र स तथा । तथा पुरो ज्ञानद्धि रसप्रसरः पण्डितः सर्पवत् दुर्जनवद्वा, पुरोऽग्रतो ज्ञानस्य नवद्धि रसप्रसरो यस्य स तथा । पक्षे पुरोऽग्रे ज्ञानशब्देन नवद्धिरस: रसज्ञातस्याः प्रसरो यस्य स तथा । तथाग्रे सदाटोपचितकरथी: सिंहो गजवत् । अग्रे पुरतः, सदा निरन्तरं, आटोपेन व्याप्ता करश्रीर्यस्य स तथा । सिंह फालादानावसरे अग्रहस्तयोराटोपो भवतीति । पक्षे अग्रे सदा टकारेणोपचित: सहितः, कर: करट::, कुम्भस्थलम तय श्रीर्यस्य स तथा । अत्रोदाहरणद्वये अग्रे वर्णप्रक्षेपः कृतः । एवं पुरःप्रभृतिशब्देनान्यत्रापि कर्तव्य इति ध्येयम । तथा तारोचितरणश्री सुभटो यानपात्रवत् । तारा उचिता रणश्रीर्यस्य स तथा । पक्षे ताराशब्देन रोचिता शोभिता, रणधीर्यस्य तत्तथा तारणश्री इत्यर्थः । तथा स्थामोदितपुटो मल्लो गिरिमार्गवत् । स्थाम्ना बलेन, उदितं पुटं अर्थात कक्षापट यस्य स तथा । पक्षे स्थकारणामोदितो युक्तः पुट: स्थपुट: विषमोन्नत इत्यर्थः । तथा दामोदितनवश्री: सश्रीकपुरुषः पाताललोकवत् । दाम्ना स्रजा उदिता नवा श्रीर्यस्य स तथा । पक्ष दा इत्यक्षरेण मोदिता नवश्रीयंत्र स तथा दानवश्रीरित्यर्थः । तथाऽधरोचितबल: सुभट: शडखवत् । धरायां पथिव्यामुचितं योग्य, बलं यस्य स तथा । पक्षे धकारेण रोचितश्चासौ बलश्च धवल: श्वेत इत्यर्थः । तथा न व्याप्तक्षत्रराजां विराजते । रणे गगने च नव्या आप्ता ये क्षत्रा क्षत्रिया. स्तेषाम । राजीपक्षे नकारेण व्याप्ता क्षत्रराजी नक्षत्र राजी इत्यर्थः । तथा परोपचितवनशोभी नगरासन्न प्रदेशो वसलवत । परेषामचितानि योग्यानि वनानि तै: शोभी । पक्षे पकारेण रोचितवनशोभी पवनशोभीत्यर्थः तथा । प्रमोटितकटस्थिति: कट कृत् दक्षवत् । प्रमोदिता कटस्थितिर्यस्य स तथा । पक्षे प्रशब्देन मोदिता कटस्थितिर्यस्य स प्रकटस्थितिरित्यर्थः । तथा स्फूटोपचितरणथी शूरः चक्षुर्वत् । स्फुटा प्रकटा उपचिता पुष्टा रणश्रीर्यस्य स तथा । पक्षे स्फइत्यक्षरस्य टोप आटोपस्तेनोपचिता व्याप्ता, रणधीर्यत्र तत्, स्फुरणधी इत्यर्थः । लोचने हि प्रायशःशुभाशुभसूचकं स्फुरणं भवतीत्यभिप्रायेण दष्टान्तः । तथा व्याप्तपक्षस्थितिः पक्षी दुर्बलनृपवत् ।व्याप्ता पक्षस्थितियस्य स तथा । पक्षे विशब्देन आप्ता प्राप्ता. पक्षस्थिति में तथा विपक्षस्थितिरित्यर्थः । तथा वामोदितमनःस्थिति: शान्तपुरुष: कामी वा त्रिविक्रमविष्णुवत् । वामा मनोज्ञा, उदिता मनस: स्थितिर्यस्य स तथा । अथवा वामायां स्त्रियां उदिता उदयं प्राप्ता, मनस: स्थितिर्यस्य स तथा । अत्र विसर्गलोपः प्राय 'व्यत्यये लग वे' ति सूत्रण (हे.व्या. १.३.५६') । पक्षे वा इत्यक्षरेण मोदिता मन:स्थितिर्वा मनस्थितिरित्यर्थः तथा । भरोचितरतश्री कामको जम्बूद्वीपवत् । भरेण बाहुल्येन, उचिता रता श्रीर्यस्य स तथा । पक्षे भकारेण रोचिता की भरतश्रीयंत्र स तथा । तथा महसत्शरशोभी दिवसो मालवदेशवत् । महेन तेजसा सत्प्रधान: सूरः सूर्यस्तेन शोभी। पक्षे मकारेण हसत मसूरशोभी मसूरशोभीत्यर्थ: । मसूरो हि धान्यविशेषः, स च मालवदेशे भयान् भवतीति तथा । यानद्धिबकस्थितिस्तटाको रमणीचरणवत । यानेन गमनेन वद्धिनो ये बकास्तेषां स्थितिर्यत्र स तथा । पक्षे या इत्यक्षरेण न द्धिवकस्थितिर्यत्र स तथा; या बकस्थितिरलक्तकस्थितिरित्यर्थः । तथा च रचितमणी (णि) भासुरो मुकूटो कामिवत् । रचिताः यां म(णय)स्ताभिर्भासुरः । पक्षे रकारेण चिता व्याप्ता, मणी रमणी, तया भासुरः तथा । लसितगडरम्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org