________________
९६
विपरीतविकट सम्पन्न वा विभासितवरोचितव्यूढाः । विप्रोत्कृष्टोद्भासितभारोचितभानवद्धिभूव्याप्ताः ||३५|| भासितभ्रामोदितमोहित महसन् मानवद्धनो ज्ञेयाः । यानाद्वर्धी रोचितरचितौ प रोचितरूढरूपचिताः ||३६|| रामोदितलसितल सल्लाभाश्रितलूनर्वाद्धनो ज्ञेयाः ।
र्धी शु[]भाजित श[स] कलशुभासिताः सुशोभश्च ||३७|| सहसत समोहितसारोचितसीमोदिताश्च सद्योती । सबलं हासितही नावद्धक्षिप्राग्रकक्षमोदितकाः ||३८|| शब्दैरेभिरपूर्वाद्यैः पूर्वभागप्रयोजितैः ।
श्लेषाय शब्दमध्येषु निक्षिपेद्वर्णमण्डली ||३९||
यथा - अपूर्वसुरस्थितिः, पक्षे असुरस्थितिः । अंचितगजयुतः, पक्षे अङगजः । आचितखेटकशोभी, पक्षे आखेटकः । उद्योतिपरागपूर्ण, पक्षे उपरागः । कामोदितसरः स्थितिः, पक्षे कासारः । एवं सर्वत्र । खचितद्योतयुतः । गाहितजारोहः । घनवधिस्मरः । वरोचितपलश्रीः । छविराजिगणः । जालोचितघनः । पुरोज्ञानवद्धिरसप्रसरः । अग्रेसदाटोपचितकरश्रीः । चारोचितरणश्रीः । स्थामोदितपुटः । दामोदितनवश्रीः । धरोचितवलः । नव्याप्त क्षत्र राजी । परोचितवनशोभी । प्रमोदित कर स्थितिः । स्फुटोपचितरणश्रीः | व्याप्तपक्षस्थितिः । वामोदितमनःस्थितिः । भारोचितरतश्रीः । महसत्सूरशोभी । यानवद्धबकस्थितिः । रचितमणी [णि] भासुरः । लसितगुडरम्य: । शकलकटयुक्तः । सततगोत्रस्थितिः । पुरोह सितपटयुक्तः । क्षमोदितपणस्थितिः ।
काव्यकल्पलता वृत्तिः
एतेषां वर्णानामग्रे रहितशब्द: प्रयोज्यः । करहित - कीरहितेत्यादि । एतैः शब्दैर्वर्णा आकृष्यन्ते । करहितकमलशाली, पक्षे मलशाली | कीरहितबन्धुकीयुतः, पक्षे बन्धुयुतः, इत्यादि ज्ञेयम् ।
एवं वर्णाक्षेपकशब्दा अन्येऽप्यूह्याः । यथा - कोपपद टोपपद रोपपद लोपपद कूपपद भूपपद यूपपद रूपपद ।
तथा कराजिरकान्तारादिशब्दानामग्रे ऽजितशब्दः प्रयोज्यः । यथा - कराजिताद्याः ।
कविछवि रविप्रमुखाः, तथा नवी - अटवीमुख्याः, विकारान्तवीकारान्तादिशब्दानामग्रे आप्तशब्दः प्रयोज्यः । यथाछव्याप्तनीव्याप्ताद्याः ।
तथा अवर्णोपलक्षितरेफान्त शब्दानामग्रे उपचित उपयुक्तशब्दौ प्रयोज्यौ । यथा- जलोपयुक्तः, करोपचितः, करोपयुक्तः जरोपचितः, जरोपयुक्तः ।
म. टी. अथ वर्गक्षेपेण श्लेषप्रकारान्तरशब्दा यथाक्रमत इति ।
Jain Education International
उदितिमिति - क्रमशब्दादुदितशब्दो योज्यते । यथाक्रमोदितं मुखशब्दग्रहणाच्छविद्योतिछविशोभिप्रभृतयः शब्दा ग्राह्याः । सत्प्रधानोजो यत्र तत्सज्जं ज्ञानात् । वर्द्धशब्दो यथा ज्ञानवर्दी यानात् वर्द्धशब्दो यथा यानवद्ध; लीनात् वर्द्धशब्दो यथा लीनवद्ध; हीनात् वद्धशब्दो यथा हीनवद्ध | उदाहरणानि यथा - अपूर्वसुरस्थितिः स्वर्ग: पातलवत् । अपूर्वा प्रधाना सुरस्थितिर्यत्र स तथा । पातालपक्षे अकार: पूर्वः प्रथमो यस्थां सा तथा । अपूर्वा सुरस्थितिरेतावताऽसुरस्थितिर्यत्र स तथा । अञ्चितगजयुतो राजाऽपि नृपवत्, अञ्चितगजेन युतः । पितृपक्षे अंकारेण चितो व्याप्तो गजः अङ्गजस्तेन युतस्तथा । आचितखेटकशोभी सुभटो नृपवत्, आचितखेटकेन शोभी । नृपपक्षे आकारेण चितो व्याप्तः, आखेटकस्तेन, शोभी तथा । उद्योतिपरागपूर्णः कमलौघो राहुग्रस्तसूर्यवत् । उद्योतिना परागेण पूर्णः । सूर्यपक्षे उकारेण द्योतिपरागः । उपरागः ग्रहणं, तेन पूर्णस्तथा । कामोदितसरः स्थितिर्देशो महिषीसमुदायवत् । काममत्यर्थमुदिता कामोदिता, सरसः स्थितिः सरःस्थिति, कामोदिता सरः स्थितिर्यत्र स तथा | महिषीसमुदायपक्षे काशब्देन मोदितः सरः शब्दः कासरो महिषस्तस्य स्थितिर्यत्र स तथा ।
खेटकः
For Private & Personal Use Only
www.jainelibrary.org