________________
कान्यकल्पलतावृत्तिः
९५
उदिता प्रकटिता, श्रीर्यस्य स तथा। उपायनवसल्लक्ष्मीधाऽपि नप: उपाय नवा उपायनैर्वा सती विद्यमाना लक्ष्मीर्यस्य स तथा । पक्षे उपायने प्राभते वसन्ती लक्ष्मीर्यस्य स तथा । कच्छपरचितश्रीर्जलाशयो ग्रामवत् । कच्छपाः कर्मास्तैः रचिता श्रीयंत्र स तथा । ग्रामपक्षे कच्छा: सजलप्रदेशास्तैः, परा प्रकृष्टा चिता श्रीयंत्र स तथा । अधिकफलसंस्थितिर्वसन्तः सुस्वामिसेवावत् । कफमधिलक्ष्यीकृत्याधिकर्फ तेन लसत् स्थितिर्यस्य स तथा । वसन्ते कफस्याधिक्यात् पक्षे अधिकफलेन सत् स्थितिर्यस्यां सा तथा । केशवरोचित श्रीरकापुरी सुकेशी स्त्रीवत्, केशवेन कृष्णेन रोचिता शोभिता श्रीर्यस्यां सा तथा । पक्षे केशैः कचैर्वरा प्रधाना, उचिता योग्या, श्रीर्यस्याः सा तथा । करभासितो मरुदेश आभीरो वा रविवत् । करभैरासितः शसयोरैक्याद् व्याप्त: । पक्षे करभे आसित उपविष्टः करभासितः । रविपक्षे करैः किरण सितः शोभितस्तथा । कलमहसल्लक्ष्मी: शरत्सुपुण्यवत् । कलमा: शालय,स्तैर्हसन्ती लक्ष्मी: शोभा, यस्याः सा तथा । सुपुण्यपक्षे कलेन मनोजेन, महेनोत्सवेन, सल्लक्ष्मीर्यस्य स तथा । वलयत: स्थिति बिभ्रन्नारीप्रकोष्ठो मल्लवत् । वलयतः कङकणानां स्थिति बिभ्रत् । मल्लपक्षे बले नयता बद्धाया, स्थितिस्तां तथा। तिमिरोचितश्री: अमावास्या समुद्रवत् तिमिरैरुचिता योग्या, श्रीर्यस्याः सा तथा। पक्षे तिमिभिर्मत्स्यैः रोचिता श्रीर्यस्य स तथा । कुण्डलसल्लक्ष्मी री कपोलपाली वा सुधावत् । उभयत्रापि कुण्डलाभ्यां कर्णाभरणाभ्यां सती लक्ष्मीर्यस्याः सा तथा । सुधापक्षे कुण्डेषु पातालकुण्डेषु, लसन्ती लक्ष्मीर्यस्याः सा तथा । मानवसत्स्थितिर्मनुष्यलोको मानिवत् । मानवानां सती प्रधाना स्थितियस्मिन् स तथा । मानिपक्षे मानेऽभिमाने वसन्ती स्थितिर्यस्य स तथा । गिरिशतःश्रियं बिभ्रत् कैलास: पृथ्वीवत्। ईश्वरत: श्रियं शोभाम् । पृथ्वीपक्षे गिरिशतानां पर्वतशतानां श्री: शोभा तां बिभ्रत तथा । मानसमोदित श्रीहंसो मानिवत्, मानसेन देवसरसामोदिता हर्षिता श्रीर्यस्य स तथा। मानिपक्षे मानस्य समा समस्ता, उदयवती श्रीर्यस्य स तथा । कलहसितस्थिति रदः कामिवत् । कलहे सिता बद्धा स्थितिर्येन स तथा । कामिपक्षे कलं मनोज्ञं हसितं तस्य स्थितिर्यस्य स तथा । वलक्षमोदितश्रीहिमाद्रिश्चन्द्रो वा शान्तवत् । द्वेधाऽपि वलक्षण धवलवर्णेन, मोदिता श्रीर्यस्य स तथा । शान्तनरपक्षे बवयोरैक्यात बलं च क्षमा च ताभ्यां उदितश्रीर्यस्य स लक्षमोदितश्रीरिति । अपूर्वश्चैत्यस्योदाहरणानि वृत्तावेव विवृतान्यतोऽत्र न लिखितानीति । का. क. अथ वर्णाक्षेपेण श्लेषप्रकारान्तरमाह--
क्रमतौऽपूर्वोञ्चित आचिता सितावाहितोहितोरूढाः । उद्योतिकान्तकासितकामोदितकुलसितः कसंश्चापि ।।२८।। उदितं क्रमाच्च कूटोपचितं खचितं सुखं पुरोगचितम् । गाहितगुरूढगूढघनवद्धिघोरीकृता ज्ञेयाः ।।२९।। घाटोपचितोच्चरोचितचक्राञ्चितकरोचिताश्चान्तम् । छविराजिमुखाच्छलसत् सज्जं जालोचितश्च जातियुतः ॥३०।। ज्ञानाद्वर्धी टोपचिततिरोहिततानवद्धिनो बोध्याः , तारोचितस्थिरोचितस्थिरोहितस्थानवद्धिनो ज्ञेयाः ।।३१।। स्थामोचितदूरोचितदान्ता धीरोचितश्च धनवर्धी । धामोदितो धरोचितनव्याप्तनिचितनवद्धि नियताश्च ।।३२।। निहितनिबद्धपरोचितपिहितपिनद्धप्रभासितप्रमुखाः । प्रान्तप्रकटप्रवरप्रमोदिताः पीनवर्ली च ॥३३॥ पूरोचितप्रमोदितप्राग्रप्रभासिताः स्फूटोपचितम् । स्फारोचितश्च फलसबलसद्वामोदिता वसद्व्याप्ती ।।३४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org