________________
काव्यकल्पलतावृत्तिः
नरकान्तस्थितिर्विष्णुर्न पवत् । नरकनामा दैत्यस्तस्यान्तः क्षयो नरकान्तस्तत्र स्थितिर्यस्य स तथा । नृपपक्षे नराः पुरुषास्तेषु कान्ता मनोज्ञा स्थितिर्यस्य स तथा । अथवा 'नानस्वारविसर्गौ च चित्रभङ्गाय सम्मता' विति ( वा. १.२० ) वचनात् रङकस्यान्तर्मध्यं तत्र स्थितिरवस्थानं यस्य स तथा एवंविधो न भवति । अथवा नरकस्यान्तर्मध्यं तत्र स्थितिरवस्थानं यस्य स तथा राज्यं नरकान्तमिति वचनात् । शङ्खचिताटोपं बिभ्रत् हरिः पुण्यनरवत् । शङ्खो जलजस्तेन चितो व्याप्त, आटोपो रचना, तम् । पुण्यनरपक्षे शं सुखं, खानीन्द्रियाणि तैः चिताटोपं तथा । मुद्गाहितो मरुदेश: पूर्णवाञ्छितवत् । मुद्गो धान्यविशेषस्तेनाहितो व्याप्तः । अथवा मुद्गा नामासमन्तात् हितो हितकृत्; पूर्णवाञ्छितपक्षे मुत् हर्षस्तया गाहितो व्याप्तस्तथा । प्रियं गूढ विभवं बिभ्रत्वनं वेश्याजनवत् । प्रियङ्ग ु वृक्षस्तस्य ऊढो धृतो, यो विभवस्तम् । पक्षे गूढः प्रच्छन्नो विभवो यस्य स तथा । तन्द्रव्याढ्यं प्रियं विभ्रदित्यर्थः । परमोरगीतस्थिति विभ्रन्नागलोको वर्षाकालवत् । परमाः प्रकृष्टा या उरग्यस्ताभिरिता व्याप्ता या स्थितिस्तां; वर्षापक्षे पराः प्रकृष्टा येऽभ्र ष्टामयुरास्तेषां गीतस्थिति तथा । महाघाटोपचितः उष्ट्रः पापिवत् । महतो घाटा काटिका च दुर्घाटा कृकाटिका इति वचनात् । तथा उपचितो व्याप्तः । पापिपक्षे महच्च तदघं च महाघं महत्पापं, तस्याटोपस्तेन चितो व्याप्त, स्तथा । महाघोरीकृतस्थितिर्निशाचरः पापिवत् । महाघोरीकृता बीभत्सीकृता, स्थितिर्येन स तथा । पापपक्षे महाघस्य ऊरीकृता अङ्गीकृता, स्थितिर्येन स तथा । गोतादिघोरीकृत पर्यन्तोदाहरणान्यनुक्तान्यप्यत्र लिखितानीति । तथा परिघनर्वाद्धस्थितिर्नगरप्रतोलीधर्मपरवत्, परिघोऽर्गला, स एवं न वद्विस्तस्याः स्थितिर्यस्याः सा तथा । धर्मपरपक्षे परि समन्तात्, घना निबिडा, वर्द्धिनी स्थितिर्मर्यादा, यस्य स तथा । तथा सम्पन्नवचान्तः स्थितिः पुस्तकौघ आकाशवत्सम्पन्ना प्राप्ता वचायावज इति प्रसिद्धायाः पुस्तकरक्षाकारित्वात् अन्तर्मध्ये स्थितिर्यत्र स तथा । आकाशपक्षे सम्पदा नवः सम्पन्नवो यः चन्द्रस्तस्यान्तर्मध्ये स्थितिर्यत्र स तथा । तथा कचरोचिता स्त्रीवेणी वा समुद्रवीचीवत् । उभयत्रापि कचैः केशैः रोचिता शोभिता । वीचीपक्षे कचरैः जलचरैः जन्तुभिरुचिता योग्या तथा । सश्रीकचक्रान्तः स्थितिशाली नारी मृर्द्धा कासारवत् । सश्रियः श्रीसहिताः कचाः सश्रीकचाः, सश्रीकचैः कान्ता व्याप्ता, स्थितिस्तया शाली । कासारपक्षे सश्रीका ये चक्राः चक्रवाकास्तेषामन्तः स्थितिस्तया शाली तथा । राजितरुचिरोचितश्रीर्वनोद्देशो रविवत् । राजिनश्च ते तरवश्च तैः चिरं उचिता योग्या, श्रीर्यस्य स तथा । रविपक्षे राजिता या रुचिस्तया रोचिता श्रीर्यस्य स तथा । तापिच्छविराजितो वनप्रदेशो रविवत् । तापिच्छास्तमालनामानो वृक्षास्तैविराजितः । रविपक्षे तापिनीच्छविः कान्तिस्तया राजितः शोभितः तथा । सदा पिच्छ्लसत्स्थितिर्मयूरो दुर्जनवत् । सदा पिच्छैर्लसन्ती स्थितिर्यस्य स तथा । दुर्जनपक्षे सदाऽपि निरन्तरमपिच्छले सद्विद्यमाना स्थितिर्यस्य स तथा । तथा गिरिजाततश्रियान्वितो रुद्रः पृथ्वीवत् । गिरिजाया: पार्वत्याः, तता विस्तीर्णा, श्रीस्तयान्वितः । पृथ्वीपक्षे गिरिजा ततः पर्वतसमूहतः श्रियान्विता । अत्र शकारद्वित्वादिकं वक्ष्यमाणरीत्या ज्ञेयम् । तथा महाजालसत्तमोऽजापालो धवलगृहवत् महाजाभिर्लसत्तमः । धवलगृहक्षे महाजालैर्महागवाक्षैः सत्तमोऽतिशयेन प्रधान इत्यादि तथा । सदागजातिश्रीर्न पो वनवत् । गजा हस्तिन, स्तेषां अतिप्रचुरा श्रीर्यस्य स तथा । वनपक्षे सदा अगजात्या वृक्षजात्या, श्रीर्यस्य तत् तथा । रसज्ञानवद्धिस्थितिर्नागराजो रसिकवत् । रसज्ञा: जिह्वास्तासां नवा ऋद्धिर्नवद्धि:, रसज्ञानवर्द्धः स्थितिर्यस्य स तथा । रसिकपक्षे रसाः शृङ्गारादयस्तेषां ज्ञानेन वर्द्धिनी स्थितिर्यस्य स तथा । शृङ्गाटोपचितो जलप्रदेशो वीरवर्गो वा गिरिवत् । शृङ्गाटं जलोद्भवं फलं सीघोडां इति प्रसिद्धं, तनोपचितो व्याप्तः तथा । शृङ्गमुक्तर्ष, आटोपः ताभ्यां चितो व्याप्तः । गिरिपक्षे शृङ्गाणां शिखराणामाटोपो रचनाविशेषस्तेन चितो व्याप्तः । तथा सुरततश्रियं विभ्रत् वेश्याजनः स्वर्गवत् । सुरतं सम्भोग, स्तस्मात् श्रियं लक्ष्मी विभ्रत् । स्वर्गपक्षे सुराणां देवानां ततां विस्तीर्णां श्रियं । अत्र प्रथमपक्षे 'शषसे शषसं वैति', सुत्रेण (हे. व्या. १.३.६) रकारस्य शकारत्वं; द्वितीयपक्षे 'अदीर्घाद्विरामैकव्यञ्जने' इति सूत्रेण (हे.व्या. १.३.३२ ) शकारस्य द्वित्वं । एवमग्रेऽपि ज्ञेयम् । तथा स्वस्थामोदित श्रीरिन्द्रपुरी मल्लवत् । स्वस्थानां देवानां आमोदिता श्रीलक्ष्मीर्यस्यां सा तथा । मल्लपक्षे स्वस्य स्थाम स्वस्थाम निजवलं, तेनोदिता श्रीर्यस्य स तथा । कलादान्तस्थितिः स्वर्णालङकारकारयिता दक्षवत् । कला [लां] आदत्त इति कलादः स्वर्णकार, स्तस्यान्ते पार्श्वे, स्थितिर्यस्य स तथा । दक्षनरपक्षे कलाभिर्दान्ता शान्ता स्थितिर्यस्य सः । तथा सुधामोदितश्रीः स्वर्गो रविवत् । सुधाऽमृतं तेन मोदिता हर्षिता, श्रीर्यस्य स तथा । रविपक्षे सुशोभनं धाम तेजस्तेन,
९४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org