________________
९३
काव्यकल्पलतावृत्तिः
अद्वितीयकपालिश्रीः, पक्षे कलिश्रीः । अमर दानव स्वयम्भू आराम पिनाक वृषाङक कमल भास्कर इत्यादिशब्दानामादौ अद्वितीयाऽमध्यमशब्दौ प्रयोज्यौ ।
अनन्तदानवश्री:, पक्षे दानश्रीः । दैवत असुर प्रजापति भारती मदन नन्दक इत्यादिशब्दनामादौ अनन्तशब्दः प्रयोज्यः ।
अमात्रकालस्थितिः, पक्षे कलस्थितिः । जार वार स्फार दार भार चार हार इत्यादिशब्दानामादौ अमात्रशब्द: प्रयोज्यः ।
मात्राधिककेवलज्ञानं, पक्षे केवलज्ञानम्। कृपण कमल कल वल भर हर इत्यादिशब्दानामादौ मात्राधिकशब्द: प्रयोज्यः।
अतिक्रान्तक्रमभारतीस्थितिः, पक्षे तीरभास्थितिः । वलितक्रमपोतवैभव:, पक्षे तपोवैभवः। हर नन्दक वाल मार कर्तन सहभावि राजा भार्गव धारा लङका रसा दिवा दीना नीलिमा राक्षसा रुत चार पुत्र शाप भान पात्र रद कपि छाग वलभी इत्यादिशब्दानामादौ अतिक्रान्तक्रमवलितक्रमशब्दौ प्रयोज्यौ। केवलकोरकस्थितिः, पक्षे करकस्थितिः । कम्बल कोमल दाव प्रमोद इत्यादिशब्दानामादौ अन्तर्गुरुशब्द: प्रयोज्यः ।
अन्तगु [गुं] रुकमलस्थितिः, पक्षे कमलास्थितिः। पद्म राम वाल वाम इत्यादिशब्दानामादौ अन्तगु [[ ] रु शब्दः प्रयोज्यः ।
आदिगुरुबलस्थितिः, पक्षे बालस्थितिः। चर कल दह हर वर इत्यादिशब्दानामादौ आदिगुरुशब्दः प्रयोज्यः ।
म. टी. एवमन्यस्वरान्तः सामान्यशब्दैर्यथा--सदारोपचितो यवा धनुर्धरवत्। सह दारैर्वर्तते यः स: सदारः, सदारश्चासावुपचितश्च सदारोपचितः । धनुर्धरपक्षे सदारोपैर्बाणैश्चितो व्याप्तस्तथा । बहुधान्यपुष्टश्रियान्विता शरत वसन्तवत् ।
यैः पूष्टा श्री,स्तयान्विता यक्ता । वसन्तपक्षे बहधा ये अन्यपूष्टाः कोकिलास्तेषां श्रीस्तयान्वितः तथा । अग्रतोरणशोभं देवगहं सुभटवत, अग्रं प्रधानं यत् तोरणं तेन शोभा यस्य तत तथा। सुभटपक्षे अग्रत: प्रथमतो रणशोभा यस्य स तथेति।
अथान्त्याक्षरत्रोटनायान्त्यप्रयोज्या सामान्यशब्दा यथा-कूलसदिति । कामशब्दात क्रमशब्दाच्च उदितशब्दो योज्यते। यथा--कामोदितः, क्रमोदितः। छविराजीति-छविशब्दात् राजिलासिशब्दौ योज्यौ। प्रमुखग्रहणात् द्योतिशोभिभासिप्रमुखाश्च योज्या: । जाग्रगेति जाशब्दात् ततः लसत्शब्दौ योज्यौ। यथा-जातत: जालसत् । अत्र ततो इति-प्रथमान्तोऽनुकरणशब्दो ज्ञेयः छन्दोबन्धानुलोम्यात् । ततश्च लसच्चेति समाहारद्वन्द्वः, पश्चाद् जाग्रगपदेन सह कर्मधारयो, जकाराग्रगौ, ततो लसच्छब्दावित्यर्थः । स्थाशब्दात् स्थिशब्दात् यथाक्रमं न बद्धिकरोचितशब्दौ योज्यौ, यथा स्थानवद्धिकः, स्थिरोचितः । दुरशब्दान्मोदितो यथा दूरामोदितः। विभ्राजि भ्रासि कासि समा इति-विभ्राजि, विभ्रासि, विकासि, विराजि, विलासि, विभासि, प्रमुखा ज्ञेयाः। भानवर्दीति-भानेन दीप्त्या वर्धीपक्षे भापूर्वपदात् नवद्धिशब्दो योज्यः । एवं प्रागग्रे च भाव्यं । भ्रमशब्दादुदितशब्दो योज्यः । यथा-भ्रमोदितं । रशब्दात यानशब्दात वर्णीशब्दो योज्यो यथा-यानबर्दी। तशब्दादाशब्दाच्च मोदितशब्दो योज्यते। यथा रमोदितः तमोदितः रामोदितः । यद्वा रावर्णात् परौ मोदितजितशब्दौ योज्यौ। तेन रामोदितराजितशब्दौ स्यातामिति ज्ञेयं । सससी शब्देभ्यः क्रमेण मोदितदग मोदितशब्दा योज्याः । यथा समोदितः, सदृग् सीमोदितः । हीनशब्दात् वद्धिशब्दो योज्यः । यथा हीनवर्सी।
एतेषामुदाहरणानि यथा-फलकसल्लक्ष्मीः युद्धकारः, फलितद्रमवत् । सती विद्यमाना चासौ लक्ष्मीश्च सल्लक्ष्मी: । फलकस्य खेटकस्य सल्लक्ष्मीर्यस्य स तथा। द्रुमपक्षे फलेन कसन्ती शोभमाना लक्ष्मीर्यस्य स तथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org