________________
९२
उदितं भ्रमाद्भ्रमोचितमहितौ महसन्मदेशौ च । मधुरो मोहितमोदितमितो मतामानवद्धितयाताः ॥ २० ॥ यानाद्वर्द्धरतमरामोदितराजित रचित रोचिता रूढम् । रोपचितरमोहितरूपचितलसल्लासलासितालं वसत् ||२१|| लातं लोभासितलीनर्वाद्वनो लूनवर्द्ध च ।
शतशकलशबलशान्ताः स्वकामसार्थी स्वभावसमुदायाः ||२२|| समसीमोदितदृङ्मोदितसितसारोचिताः सभासकलौ । सद्योतिसभाजनसारचितस्वेच्छास्वतन्त्राश्च ॥२३॥ सतत समर्यादससीम सदेशसमानहासिता हारी । हूतं हितश्च हसितं हीनाद्वर्धी हसंश्चापि ॥ २४॥
क्षिप्राग्रं च क्षुद्रव्याप्तं चैव क्षमोदितं क्षान्तम् ।
एते पुरतः शब्दा अन्येऽप्येवंविधा बुधैर्बोध्याः ।।२५।।
Jain Education International
एतैः शब्दैः पदानामन्त्याक्षराणि यथासम्भव त्रोट्यन्ते । यथा -- फलकसल्लक्ष्मीः युद्धकारः फलितद्रुमवत् । नरकान्तस्थितिर्विष्णुः, नृपवत् । शङ्खचिताटोपं विभ्रच्छङखवादकः पुण्यनरवत् । मुद्गाहितो मरुदेश: पुर्णेन्दुवत्, पूर्णेहितवत् । प्रियंगूढविभवं बिभ्रद्वनं, वेश्याजनवत् । परिघनर्वार्द्धस्थितिः पुरप्रतोली, धर्मपरवत् प्रावृट्कालवद्वा । कचरोचिता वेणी, समुद्रवीचीवत् । तापिच्छविराजितो वनोद्देशो, रविवत् । सदागजातिश्रीर्न पो, वनवत् । रसज्ञानवर्धस्थितिद्विरसनाधिपो रसिकवत् । शृङ्गाटोपचितो वीरवर्गो, गिरिवत् । सुरतरतः श्रियं बिभ्रद् वेश्यावर्गः, स्वर्गवत् । स्वस्थामोदितश्रीः सुरेन्द्रो, मल्लवत् । कलदान्तस्थितिः स्वर्णालङकारकारी, दक्षवत् । सुधामोदितश्रीः स्वर्गो, रविवत् । उपायनवसल्लक्ष्मीर्द्वधा नृपः । कच्छपरचित श्रीर्जलाशयो, ग्रामवत् । अधिक फल सत्स्थितिर्वसन्तः, सुस्वामिसेवावत् । केशवरोचितश्रीः द्वारकापुरी, सुकेशीवत् । करभासितो मरुदेशो, रविवत् । कलमहसल्लक्ष्मीः शरत्कालः सुपुण्यवत् । वलयतः स्थिति बिभ्रत् नारीप्रकोष्ठो, मल्लवत् । तिमिरोचितश्रीः कुहूः, समुद्रवत् । कुण्डलसल्लक्ष्मीः कपोलपाली, सुधावत् । मानवसत्स्थितिः मर्त्यलोको, मानिवत् । गिरिशतः श्रियं बिभ्रत् कैलासः, पृथ्वीवत् । मानसमोदितश्रीः श्रीदपुरीप्रवेशो, मानिवत् । कलहसितस्थितिः नारदः, कामिवत् । वलक्षमोदितश्रीः हिमाद्रिः, शान्तवत् ।
एवमन्यरोप सामान्यशब्दैः श्लेषः साध्यः-
अपूर्वश्चाद्वितीयश्च मध्यमोऽनन्त इत्यपि । aarat मात्राधिकश्चातिक्रान्ताद्वलितक्रमः ॥ २६ ॥ केवलोऽथान्तरत्यन्तादिभ्यश्च पुरतो गुरुः । श्लेषमुत्पादयेदेतैः शद्वैरुपपदस्थितैः ।। २७ ।।
काव्यकल्पलतावृत्तिः
क्रमेणोदाहरणानि -
अपूर्वत्रिदशाभोग:, पक्षे दशाभोगः । सुमनः गीर्वाण वृन्दारक विबुध अमृत दानव मीमांसा पिनाक कुमार केशव कन्दर्प कमल कन्दल कमठ इत्यादिशब्दनामादी अपूर्वशब्दः प्रयोज्यः ।
१. कारयिता - ला-वृ २ ।
For Private & Personal Use Only
www.jainelibrary.org