SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः का क. एवमन्यस्वरान्तैरपि सामान्यशब्दैः श्लेषः । यथा-सदारोपचितो युवा, धनर्धरवत् । बहुधान्यपुष्टश्रियान्विता शरद् वसन्तवत् । अग्रतोरणशोभं देवगृहं, सुभटवत् । अथान्त्याक्षरत्रोटनायान्त्यप्रयोज्याः सामान्यशब्दा यथा-- कुलसत्करोचितकसत्कान्ताः कामात् क्रमादुदिताः । कूटोपचितखरोचितखचितागतगाहितौ गुरूढश्च ॥७॥ गूढोगीतं घटोपचितं घोरीकृतश्च घनवर्डी । छविराजितछविलासिप्रमुखाः छलसच्छटोपचितौ ॥८।। जाग्रगततोलसज्जातिज्ञातिज्ञानवधिनो ज्ञानम् ।।९।। टोपतिरोहिततनुतस्तारोचिततानुवर्धि तु वराः स्युः । तान्तस्ततस्तुतश्च स्थपुटस्थामोदितस्थिरचित्तश्च ॥१०॥ स्थास्थितवधिकरोचितदान्ताश्चामोदितो दूरात् । धनवर्दीधरोचितधवलो धामोदितो धुरीणश्च ॥११।। धीरोचितो धनव्यासङ गोऽनवसन्नवद्धि नव्याप्ताः । नामोदितनियमोदितनिचितनिभासितनिकायनिहिताश्च ।।१२।। निकरनिवहौ च नियमो निचयन्तो न्यूनवद्धिनो न्यस्तम् । प्रवरप्रमुखप्रकरप्रकामभारोचितप्रधानाः स्युः ।।१३।। प्रबलप्रकटप्रसभप्रभावपूतप्रभूतपिहिताः स्युः । पुरतः प्रियमोदितकप्राग्रप्रामोदितप्रकाराः स्युः ।।१४।। प्राग्रहरपीनवद्धिप्रस्तावप्रांशवः प्रकाशश्च । प्रविभासितः परोचितपिनद्धपरिवद्धिपरिचितस्फीताः ।।१५।। स्फारोचितश्च फलसद्वितानबलसद्वरोचितवलक्षाः । वामोदितो विरोचितद्धिवसद्वासनाव्याप्ताः ॥१६॥ विपरीतविप्रकृष्टवरचिताश्च वाततोऽव्यवहिताः स्युः । विलसितविकसद्विचरद्विभ्राजिभ्रा सिकासिसमाः ॥१७।। विसरविमानवितर्का विशाल विभ्रमविनोदविकटाः स्युः । विक्रमविकल्पविस्मयवीतव्यूढ वजव्यूहाः ॥१८।। भासितभारोचितभानवद्धिभीमोदिता भ्रान्तिः । भासितभूरिकृतभावबद्धभूयोगतो भरचितश्च ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy