________________
काव्यकल्पलतावृत्तिः
सप्तगणास्तै राजितं मुनिपक्षे सदा अच्छा गणा गच्छा यतिसमुदायास्तै राजितं ; गोष्ठपक्षे सदाच्छगणै राजितम् । अत्रोनाङमाङ दीर्घाद्वा छ' (हे. व्या. १.३.२८) इति सूत्रेण द्वित्वमिति तथा । सज्जं [ज्ज ? ] वीरगणं बिभ्रद्धनं नृपवत् । सन्तः प्रधानानि जम्बीरा वृक्षास्तेषां गणस्तं दधत् नृपपक्षे सज्जं सज्जीभतं वीरगणं सुभटगणं विभ्रत् तथा । अभिज्ञातिस्थिति: कुलीनो विदग्धगोष्ठीवत् ' अभि सामास्त्येन प्रसिद्धा वा ज्ञातिस्तस्यां स्थितिरवस्थानं यस्य स तथा । विदग्धगोष्ठीपक्षे अभिज्ञाः पण्डितास्तेषु अतिशयेन स्थितिर्यस्याः सा तथा । शोभितरङ्गान्वितो जलधिर्नटवत् । शोभिनो ये तरङ्गाः कल्लोलास्तैरन्वितो युक्त: नटपक्षे शोभितो यो रङ्गो नाट्यस्थानं रङ्गाचार्यो वा तेनान्वितः सहितस्तथा । स्वस्थपुटताशाली पर्वतमार्गे भूमिप्रदेशो वा मृदङ्गवत् । स्वस्य स्थपुटं स्वस्थपुटं, स्वविषमोन्नतं स्थपुटं । विषमोन्नतमिति नाममालावचनात् । स्वस्थपुटस्य भावः स्वस्थपुटता, तथा शाली; मृदङ्गपक्षे स्वस्थौ स्वस्थानस्थौ पुटौ मृदङ्गोभयपार्श्ववति चर्मखण्डौ यस्य स स्वस्थपुट, स्तस्य भावः स्वस्थपुटता, तया शाली तथा । सुखदानस्थितिर्लक्ष्मीवान् दाता वा शाकटिकवत् । सुखेनैव दाने स्थितिरवस्थानं यस्य स तथा; शाकटिकपक्षे अनसि स्थितिरनस्थिति: सुखदानः स्थितिर्यस्य स तथा । अत्रानः पक्षे ‘व्यत्यये लुग् वेति' सूत्रेण (हे. व्या. १.३.५६) विसर्गलोपः । एवमग्रेऽपि ज्ञेयम् । शोभाबद्धबलान्वितो महेश्वरो रथी वा नृपवत् । बवयोरैक्यात् शोभावांश्चासौ धवलो वृषभश्च तेनान्वितः नृपपक्षे शोभया बद्धं यद् बलं सैन्यं तेनान्वितस्तथा । सम्पन्नगरस्थितिः सुशोभनगरस्थितिश्च लक्ष्मीवान्नृपो वा शिवकण्ठवत् । सम्पच्च नगरं च तयोः स्थितिर्यस्य स तथा शिवकण्ठपक्षे सम्पन्नागरस्थितिर्यस्य स तथा नृपपक्षे सु अतिशयेन शोभा यस्य तच्च तन्नगरं च, तस्मिन् स्थितिर्यस्य स तथा । शिवकण्ठपक्षे सुशोभना वाऽसौ गरस्थितिविषस्थितिर्यस्य स तथा । लोलपवनस्थितिर्गवाक्षः । सागरतरङ्गोत्रो वा गिरिवत् । उभयत्रापि लोला चपला पवनस्थितिर्यस्मिन् स तथा; गिरिपक्षे लोलान् चपलान् नरान् पाति रक्षतीति लोलपं, तच्च तद्धनं च तस्य । स्थितिर्यत्र स तथा । सम्पन्नवसुधाभोगः पार्थिवः सुरवत्, सम्पन्ना चासौ वसुधा च तस्याभोगो यस्य स तथा; सुरपक्षे सम्पच्च न वसुधा च ते तयोर्भोगो यस्य स तथा । सुगौरवान्वितं नगरं गृहवत् द्वेधापि महत्त्वान्वितं । तथा बहुशो भवनान्वितं नगरं गिरिवत् । बहुशोऽत्यर्थं गृहान्वितं ; गिरिपक्षे बहवी शोभा यस्य तद्द्बहुशोभं तच्च तद्धनं च तेनान्वितो युक्तस्तथा । महाभवनान्वितं नगरं गिरिवत् । महान्ति च तानि भवनानि गृहाणि च तैरन्वितैः; गिरिपक्षे महती भा कान्तिर्यस्य तन्महाभं, तच्च तद्धनं च तेनान्वितो, युक्तस्तथा । परमहेलाशाली द्वेधाऽपि कामुकः, परमा प्रकृष्टा चासौ हेला लीला च तया शाली, परा प्रकृष्टा महेला स्त्री तथा शाली तथा । मनोहृद्योधस्थितिः सङ्ग्रामो धेनुवत् । मनोहृत् मनोज्ञा योधस्थितिर्यत्र स तथा । क्षे मनसि हृद्या मनोहृद्या, मनोहरा ऊधस्थितिर्यस्याः सा तथा । सुरुचिरमणीरमणीयो राजा भोगी वा रोहणवत् । उभयत्रापि सुरुचयो या रमण्यस्ताभिः रमणीयो: मनोहरो; रोहणपक्षे सुरुचिरा मनोज्ञा या [ये ? ] मणयस्ताभिः (तै: ? ) रमणीयस्तथा । पृथुलक्षणं गृहं चन्द्रवत् । पृथुला क्षणा उत्सवा यत्र तत् तथा । चन्द्रपक्षे पृथु विस्तीर्ण लक्षणं चिन्हं यस्मिन् स तथा । स्वभावशरणधुरीणो द्वेधाऽपि सुभटः स्वभावेन स्वस्वभावेन शरणे । धुरीणो धुर्यो मुख्य इत्यर्थः । पक्षे स्वभावकान्तिर्बलमिति यावत् तस्यावशं यद्रणं तत्र धुरीणस्तथा । स महासकलः सज्जनः पूर्णिमेन्दुवत् सज्जनः । कथम्भूतः ? सह महसा उत्सवेन वर्तते यः स समहाः, सह कलाभिर्वर्तते यः स सकलः, स महासकलश्चेति पदद्वयं । अत्र 'नानुस्वारविसर्गौ च चित्रभङ्गाय सम्मताविति, (वा. १.१०) वचनात् सन्नापि विसर्गो न श्लेषभङ्गकृत् । इन्दुपक्षे स महासः समस्तहासस्तद्वत्कलो मनोज्ञो निर्दोषत्वात् तथा । परमहसितश्रीः सुकृती शिववत् । परः प्रकृष्टो यो मह उत्सव : तत्र सिता बद्धा, श्रीर्येन स तथा । अथवा परमा प्रकृष्टा हसितश्रीः हास्यस्य श्रीर्यस्य स तथा । शिवपक्षे परमा प्रकृष्टा हसितश्रीरगृहास्यश्रीर्यस्येति तथा । बहुलक्षपणं कुर्कुटयोधनं जैनदर्शनवत् । बहुलक्षणो क्षपणो यत्र तत्तथा । जैनदर्शनपक्षे बहुलानि क्षपणानि तपांसि यत्र तत्तथा । किञ्चात्र स्वकीयकसुगेत्यादि शब्दश्लेषादर्शने महाभबहुशोभयोर्वैपरीत्यव्याख्याने च सम्यग् निदानं न ज्ञायत इति ।
९०
१. 'सुखादिदायकं वा' इदं पा.म. पुस्तके नास्ति । २. विद्वद्गोष्ठी' - सं. म. २
३. 'स्वस्थपुटस्य भावः इदं पा.म. पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org