________________
काव्यकल्पलतावृत्तिः
पाणिग्रहमहो, रोहणवत् । पृथुलक्षणं गृहं, चन्द्रवत् । स्वभावशरणधुरीणो द्वेधा सुभटः । समहासकलः सज्जनः पूर्णिमेन्दुवत् । परमहसितश्रीः सुकृती, शिववत् ।
म. टी. अथ श्लेषसिद्धिप्रताने अभङ्गभङ्गश्लेषव्युत्पादनप्रकारमाह-- वर्णाकारेति धवलेति । द्व्यर्थं नाम-धवलो बलीवर्द : श्वेतश्च अर्जुनेति ।
त्र्यर्थं नाम -
अर्जुनो वृक्षो भीमबन्धुः श्वेतश्च । नानार्थनामानि च हरिगोप्रभृतीनि । अधिकेति - अधिकमलशाली तडागे दरिद्रवत् । तडागः कथम्भूतः ? अधि सामस्त्येन, कमलैः शालते इत्येवंशीलोऽधिकमलशाली दरिद्रः । कथम्भूतः ? अधिकश्वासौ मलश्चाधिकमलस्तेन शाली करे [ रो]ति करकसल्लक्ष्मीः । पुरुषो घनाघनवत् । कथम्भूतः पुरुषः ? कराभ्यां कसती दीप्यमाना लक्ष्मीर्यस्य स तथा । मेघः कथम्भूतः ? करकैः घनोपलैः सती प्रधाना लक्ष्मीर्यस्य स तथा ।
८९
पूर्वाक्षरत्रोटनाय सामान्यशब्दानाह-
यथेति -- अधिकः १. स्वकः २. स्वकीयकः ३ सश्रीकः ४. सुखः ५. सुगः सुष्ठु गच्छतीति सुगः ६. पुरोग: ७, समानघः ८. उच्चः ९. सदाच: १०. स्वस्था, ११. सदाच्छ: १२. सज्ज : १३. तज्ज्ञ: १४. अभिज्ञः १५. सुखज्ञः १६. शोभित: १७. बि [वि] भ्राजितः १८ । अत्रादिशब्दात् द्योतितभासितराजितप्रमुखा ग्राह्याः । स्वस्थः १९. सुखदं २०. तसुखध्वंसि सुखादिदायकं वा २१. शोभाबद्ध २२. सौन्दर्यप्रभृतितो बद्धं २३ । अत्र सौन्दर्यादित: बद्धशब्दो योज्यते । यथा-सौन्दर्यबद्धं चारुत्वबद्धं वर्यबद्धमित्यादि । सम्पन्न: २४. सुशोभनः २५. लोलान् पातीति लोलप: २६ सम्पन्नवः २७. सुगौरव: २८. महाभा: २९. बहुशोभ: ३०. सदाशुभ: ३१. बहुभाः ३२. परम: ३३. समानया ३४. मनोहृद्यं ३५. पीवर : ३६. सुरुचिरः ३९ मधुरः, ३८. मञ्जुल:, ३९. पृथुल: ४०. स्वभावश: ४१. सुमुखदस ४२. समहास ४३. ससमग्रह ४४ परमह ४५. बहुलक्षा : ४६ इति । उदाहरणानि यथा --
अधिक शब्दोदाहरणं प्राग्दशितम् । सश्रीकशब्दोदाहरणं सूत्रवैचित्र्यात् प्रथमं दर्श्यते । यथा सश्रीकपालिस्थितिः कैलासोऽष्टापदो हरप्रासादो वा सरोवत् । कपालमस्यास्तीति कपालश्रिया युक्तः कपाली श्रीकपाली, तस्य स्थिति:; सहश्रीकालिस्थित्या वर्तते यः स सश्रीकपालिस्थितिः । सरः कथम्भूतं ? पालेः स्थितिः पालिस्थितिः, सश्रीका शोभमाना पालिस्थितिर्यस्य तत् तथा । तथा स्वकलङकाभोगश्चन्द्रो रावणवत् । कथम्भूतश्चन्द्रः ? स्वकलङ्कस्याभोगो विस्तारो यस्य स तथा । रावणः कथम्भूतः ? स्वका चासौ लङका च स्वकलङका, तस्याभोगो यस्य स तथा । तथा सुखरोचितो दुर्जनः कुलालो वा सुकृतिवत् । दुर्जनः कथम्भूतः ? शोभनः खरः सुखरस्तस्य उचितो योग्य: असार बहुजल्पनत्वात्, कुलालपक्षे सुख रेणोचितो योग्यः सुकृती । कथम्भृतः सुखेन रोचितो २ व्याप्तो यः स तथा । तथा सुखलीनो यः सुकृतिवत्, सुशोभनं खलीनं यस्य स तथा; पक्षे सुखेन लीनो व्याप्तः तथा सुखद्योतः अ । तपात्ययः कश्चित्प्रदेशो वा नृपवत् । उभयत्राऽपि सुष्ठु खद्योतो जीवविशेषो यस्मिन् स तथा; पक्षे सुखेन द्योतते इति सुखद्योतः । तथा पुरोगवलस्थितिमहिषो मल्लवत् । पुरोऽग्रे गवलं माहिषं शृङ्गं तस्य स्थितिर्यत्र स तथा । मल्लपक्षे पुरोगा प्रधाना बलस्य स्थितिर्बलस्थितिः । पुरोगा बलस्थितिर्यस्य स तथा । समानघनरसभासितं सरो नृपवत् । समानस्तुल्यश्चासौ घनरसो जलं च, तेन भासितं शोभितं नृपपक्षे समा तुल्या अनघा पापरहिता या नरसभा तस्यामासित उपविष्ट [:] तथा । उच्चामरश्रीनप इन्द्रवत् । उत्प्रावाल्येन चामरश्रीर्यस्य स तथा ; इन्द्रपक्षे उच्चा प्रधाना अमरश्रीर्यस्य स तथा । स्वस्थामराजितं नृपसैन्यं मघोनः सदनवत् । स्वस्य स्थाम बलं, तेन राजितं शोभितं; इन्द्रसदनपक्षे स्वस्था ये अमरा देवास्तैरजितमपराभूतं तथा । सदाच्छगणराजितं हरसमीपं मुनिकुलं वा गोष्ठवत् । सदा निरन्तरमच्छा निर्मला ये गणा ईश्वर१. सुखरोचितो . . शोभनः - इदं पा. म. पुस्तके नास्ति । २. योग्यः.... रोचितो इदमपि पा.म. पुस्तके नास्ति । ३. सुकृति ... सुखद्योतः - इदमपि पा. म. पुस्तके नास्ति ।
J
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org