________________
८८
काव्यकल्पलतावृत्तिः
।।३.१॥
अथ श्लेषसिद्धिप्रतानः का. क. तत्र पूर्वं श्लेषव्युत्पादनं यथा--
वर्णाकारक्रियाधाराधेयसम्बन्धिबन्धवः । द्विट्पत्नीप्रियसम्पकिस्वामितुल्यगुणादयः ।।१।। एषां स्यान्नामभिः श्लेषो नानाथै र्वर्ण्यवस्तुनि ।
भङ गश्लेषोऽधिककसन् मुख्यैः पूर्वाग्रगैः पुनः ॥२॥ वर्ण्यवस्तनां वादिनाम्नां मध्याद्यद्यन्नाम दव्यर्थं त्र्यर्थ नानार्थं वा भवेत, तेन नाम्ना श्लेष: कार्यः । यथाधवलार्जुनगोप्रभृतयः शब्दाः । भङ्गश्लेषस्तु वर्ण्यवर्णादिनाम्नः पूर्वगतैरधिकादिभिरग्रगतः कसदादिभि: सामान्यशब्दैरर्थे मिलिते यथासम्भवं कार्यः । यथा--कमलशब्दस्य मल इति अग्रेतनाक्षरार्थे मिलति पूर्वाक्षरः कः त्रोटयते । यथा---'अधिकमलशाली' । अधिकशब्द: सामान्यः । तथा करकशब्दस्य कर इति पूर्वाक्षरार्थे मिलिते उत्तराक्षरः कः कोट्यते । यथा--'करकसल्लक्ष्मीः ' । कसच्छब्द: सामान्यः ।
पूर्व पूर्वाक्षराणां त्रोटनाय पूर्वप्रयोज्या: सामान्यशब्दा यथा--
अधिकस्वकस्वकी यकसश्रीकाः सुखसुगौ पुरोगश्च । ज्ञेयाः समानद्योच्चा सदा च स्वस्थाः सदाच्छसज्जौ च ।।३।। तज्ज्ञाभिज्ञसुखज्ञाः शोभितविभ्राजितादय: स्वस्थाः । सुखदं तदं शोभाबद्धं सौन्दर्यप्रभृतितो बद्धम् ।।४।। सम्पन्नसुशोभिनलोलुपसम्पन्न वसगौरवमहाभाः । बहुशोभनसदाशुभबहुभाः परमसमानया मनोहृद्यम् ।।५।। पीवरसुरुचिरमधुरा मञ्जुलपृथलौ स्वभावतः शश्वत् ।
सुमुख दशः समहासः ससमग्रहपरमहौ च बहुलक्ष: ॥६॥ एतैः शब्दैः पदानां पूर्वाक्षराणि त्रोट्यन्ते। यथा-सश्रीकपालिस्थिति: कैलासः, सरोवत् । स्वकङ्गकाभोगः शशी, रावणवत् । सुखरोचित: कुलालः, सुकृतिवत् । सुखलीनस्तुरगः, सुकृतिवत् । सुखद्योतस्तपात्ययो, नृपवत् । उच्चामरश्री: नृपतिः, इन्द्रवत् । सदाच्छगणराजितं गोस्थानं, रुद्रस्थानवत् । सज्ज वीरगणं बिभ्रत् वनं, नपवत् । अभिज्ञातिस्थिति: कुलीनो, विदग्धगोष्ठीवत् । शोभितरङ्गान्वितो जलधिः, नटवत् । स्वस्थपुटताशाली शैलमार्गो, मृदङ्गवत् । सुखदानस्थिति: वदान्यः, शाकटिकवत् । स्वस्थामराजितं मघोनः सदनवत् नृपबलम् । सुशोभनगरस्थितिः सुनृपः, शिवकण्ठवत् । लोलपवनस्थिति: सागरतरङ्गो, गिरिवत् । सम्पन्नवसुधाभोग: पार्थिवः, सुरवत् । बहुशोभवनान्वितं पुरं, गिरिवत् । महाभवनान्वितं पुरं, गिरिवत् । परमहेलाशाली द्वेधापि कामकः । मनोहृद्योधस्थिति: युद्धभूमिः धेनुवत् । सुरुचिरमणीरमणीयः १. सश्रीकपालिस्थिति, ...पाठस्वीकारश्चात्र मकरन्दानुसारी, अर्थबोधकश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org