SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः ये महीना राजानस्तेषां कीर्ति, लण्टाका शक्तिर्यस्य स तथा । यद्वा अहीनं यथा स्यात् तथेति क्रियाविशेषणं । अहीन: शेषनाग, तस्य कीतिर्बलवत्त्वख्याति, स्तस्या लुण्टाका शक्तिर्यस्य स तथा । पुनः कथम्भूतः ? अपसादगुरुप्रसादः, अपगतः सादो विषादो विभ्रंशो वा यस्मात् सोपसादः । अविश्रान्तः अविनष्टो वा गरोद्रोणाचार्यस्य प्रसादो यस्य स तथा । कि कुर्वन् ? गौररुचं श्वेतकान्तिम् । ननु कृष्णां श्यामां कीर्ति मनसि चित्ते स्मरन् ध्यायन् । अथ च पक्षे गौररुचं गौराडी, कृष्णा द्रौपदी, न स्मरन् कीर्त्यर्थमेव वेध्यं प्रपातयति, न द्रौपद्यर्थमिति भावः । राधावेधसाधनावसरेऽर्जुनस्य विप्रवेषभतो , द्रोणाचार्येणेदं वाक्यमुक्तम् ॥छ। इतिश्री तपागच्छाधिनायक पातसाहि श्री अकब्बरप्रतिबोधदायक श्री शत्रुञ्जयतीर्थादिकरमुक्तिकारकभट्टारक श्री हीरविजयसूरीश्वरशिष्यपण्डित श्री शुभविजयगणिविरचिते काव्यकल्पलतावृत्तिमकरन्दे शब्दसिद्धिप्रतानप्राप्तलाक्षणिकस्तबकोद्योतकश्चतुर्थः प्रसर: समाप्तस्तत्समाप्तौ च समाप्तोऽयं शब्दसिद्धिप्रतानो द्वितीयः ।।छ।। का. क. इति श्रीजिनदत्तसुरिशिष्यकविपण्डितश्रीमदमरविरचितायां कविशिक्षावृत्तौ शब्दसिद्धिप्रताने लाक्षणिकः स्तबकश्चतुर्थः । सम्पूर्णश्चायं शब्दसिद्धिप्रतानो द्वितीयः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy