SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः अन्येऽपि लक्षणाशब्दा लिख्यन्ते । यथा-लुण्टाक जल्पाक गृहयालु स्पृहयालु घस्मर मेदुर भङगुर छिदुर विदुर । जागरूक वावदूक विकस्वर प्रमद्वर सत्वर जित्वर गत्वर कम्प्र उन्मदिष्ण वैतण्डिकमायिक तुन्दिल तुन्दिक पिचण्डिल पिचण्डिक तुण्डिल तुण्डिक शुभंयुः दन्तुल जङघाल दंष्ट्राल भजाल पांसूल प्रज्ञाल प्रज्ञिल रजस्वल फेनिल वाचाल वाचाट मुखर पडिकल इत्यादयः । विद्वन्नाम चौर महोत्साह उद्धत कोपन वैरङ्गिक कर्मशूर अलङकर्मिण कर्मठ धृष्ट सज्जन बन्धुगोत्रादीनां नामानि । एवंप्रकारा: शब्दा: लक्षणासाधका यथौचित्यं प्रयोज्याः । यथा विप्रोऽप्ययं द्रुतमहीनमहीनकीर्ति लुण्टाकशक्तिरपसादगुरुप्रसादः । वेध्यं प्रपातयति पश्यत रे नरेन्द्राः! कीर्ति स्मरन्मनसि गौररुचं न कृष्णाम् । म. टी. अथ लक्षणार्हशब्दानाह द्विरिति द्विशब्दादिभ्यः पुनः शब्दं यावदुक्तिशब्द: सम्बध्यते । यथा-द्विरुक्ति: १, अन्योक्ति: २, पर्यायोक्तिः ३, वक्रोक्तिः ४, पुनरुक्तिरिति ५. । अनुवादेति अनुशब्दो वादादिषु त्रिषु सम्बध्यते यथा-अनुवादः १. अनुप्रासः २. अनुकृति: इति ३. । प्रतिबिम्बेति प्रतिशब्दो बिम्बशब्दाभ्यां योज्यस्तेन प्रतिबिम्बं प्रतिशब्दश्चेति । प्रतीतिप्रतिशब्दौ वेशीशब्द यावत् सम्बध्यते यथा- प्रतिवीरः १, प्रतिमल्ल: २, प्रतिनायकः ३, प्रतिकविः ४, प्रतिवेशीति । प्राणाज्य: असम्मत: सांयुगीनो रणे साधुः, जिताहवो जितकाशी । अध्यक्षः स्वामी, ग्रामाध्यक्ष इत्यादिषु । लय: कालविशेषः; मज्जनशब्दो नान्त: सर्वाभिसारः सवौं घः सर्वसंहननं समाः; प्रपातस्त्वभ्यवस्कन्दः अन्तद्विराच्छादनं पुरोभागी दोषकदृग्। किट्टः मलः, निघसो भुक्तशेषक: फलाभुक्तसमुज्झिते अइठि इति प्रसिद्धिः । शाखापुरं उपपुरं करणी कादृश्यं कलान्तरं । वृद्धिः ब्याज इति प्रसिद्धिः । अश्नुतेऽत्राम्बुक्लीबलिङ्गः। अवहित्था आकारगोपनं स्त्रीक्लीबलिङ्गः । उपत्यका पर्वताऽधोभूमिः । वैहासिको विदूषकः, प्राकृतो नीचः, यद्वदो यथा तथा। जल्पाक अधमों, ग्राहक: देणियात इति प्रसिद्धिः । इत्याद्या लाक्षणिकशब्दाः । उपमानोदाहरणं यथा-इन्दुरिति प्रसिद्धम्पमानं, तेन वक्त्रस्योपमानमिन्दुः । स च वीप्सासदनं लाक्षणिकत्वात् । सदृशः कस्य ? मुखस्य द्वितीयरूपमित्यर्थः । पङकजाली उपकथा, सदृशीकयोः पादयोः दृष्टान्त इत्यर्थः । अलिर्धमरः, स्तुल्यः । कस्याः ? कबर्या वेण्याः । नन निश्चितं कणिकारं कणिकारवक्षकुसुमम् । वणिकासदशी केषां ? शरीर तेजसाम् । वर्णिका वा नीतिप्रसिद्धिः । हस्तिकुम्भद्वयं आभासः प्रतीक: सदृशमित्यर्थः । कयो ? स्तनयोरिति । कन्दर्प धनुर्दण्डः । अत्र दण्डशब्दोऽलङकारार्थः । पाखण्डं तुल्यं भूलतायाः, लताशब्द: शोभार्थः, कपटमित्यर्थः । यस्याः स्त्रियः रूपस्य रतिः कामभार्या । अभिनयनं अभिनयो हस्तादिकृतो नाटकप्रसिद्धः । तुल्यमित्यर्थः । उपमेयोदाहरणं यथाव्याषेध इति अप्रसिद्धमुपमेयम् । तेन हे भूमज गतवयसां भारः । उपमेयं स एव व्याषेधो निषेधः रोधकः । कस्य ? धरणीधरेशितुः हिमाचलस्याथ वा, धरणीधरश्चासौ ईशिता च स तथा, तस्य शेषनागस्येत्यर्थः । यशोभारः । कथम्भूतोऽनध्यायो निषेधः अणोझउ इति प्रसिद्धिः । कस्याः? सुधाया अमृतस्य । पुनः कथम्भूत? अन्तद्विराच्छादनं विधोश्चन्द्रस्य । पुनः कथंभूतः ? निधनं निषेधः, धनदाचलस्य कैलासस्य । पुनः कथम्भूतः ? पिधापिधानं । दुग्धोदसिन्धो: क्षीरसमुद्रस्य । पुन: कथंभूत: ? प्रत्याख्यानं निराकरणं, अमानवद्विपमहादेहधुतेरैरावणमहाशरीरकान्ते: । पुनः कथम्भूतः ? निह्नवोऽपलापः । जाह्नव्या गङ्गायाः । एवंविधः सन हारति हार इवाचरतीति । कासां दिशां? काष्ठानामित्यर्थः । अत्र लाक्षणिक त्वात् सर्वे शब्दा निषेधार्था ज्ञेयाः । मायाऽस्यास्तीति मायिकः । तुंदिः प्रवृद्धा नाभिरस्यास्तीति सिध्यादिपाठाल्ले । तुन्दिलः पिचण्डोऽस्यास्तीति तुण्डादि, पाठादिलेऽपि चण्डिलः प्रवृद्धोदरः । विप्रोऽप्ययमिति-रे नरेन्द्रा यूयं पश्यत विप्रोऽपि अयं प्रत्यक्ष: द्रुतं शीघ्र, वेध्यं लक्ष्यं, प्रपातयति विध्यति।' कथम्भूतः ? अहीनमहीनकीर्तिः लुण्टाकशक्तिः । अहीना महान्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy