SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ २८० १० [काव्यानुशासनम् अत्रैकस्य युगपदनेकवृत्तित्वायोगेऽपि योग उक्तः । एवंविधे च सर्वत्र विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते । तां विना प्रायेणालङ्करणत्वायोगादिति न सामान्यमीलितैकावलीनिदर्शनाविशेषाद्यलङ्कारोपन्यासः श्रेयान् । १२३) विवक्षितस्य निषेध इवोपमानस्याक्षेपश्चाक्षेपः ॥११॥ __ विशेषविवक्षयेत्यनुवर्तते । वक्तुमिष्टस्य प्राकरणिकत्वात् प्रधानस्याशक्यवक्तव्यत्वमतिसिद्धत्वं वा ५ विशेष वक्तुं निषेध इव न तु निषेध एव निषेधमुखेन विशेष एव तात्पर्यादित्येक आक्षेपः । उपमानस्य च य आक्षेपस्तिरस्कारः सोऽन्यः । निषेधो यथा अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः । इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते ॥५८३॥ [भामह २.६९] अयं वक्ष्यमाणमरणविषयो निषेधात्माक्षेपः । उक्तविषयोऽपि यथा ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः /कपूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः ।। अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर व्यापाराय भवन्ति हन्त किमनेनोक्तेन न ब्रूमहे ॥५८४।। [का.प्र.१०.४७३] उपमानाक्षेपो यथा तस्यास्तन्मुखमस्ति सौम्य सुभगं किं पार्वणेनेन्दुना - सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे हा धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥५८५।। [ यथा वा २५ गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भग्ने । - सन्तीदृशानि दिशि सुरःसु ननु नीलनलिनानि ॥५८६॥ [रुद्रट ८.७८] अत्र लोचनयुगलस्योपमानीकृतस्याक्षेपः । यथा वा अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः । - ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥५८७॥ [का.प्र.१०.५५७] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy