SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २२० [काव्यानुशासनम् अनेकस्यासकृदावृत्तिर्यथा सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकुन्द्रुहि । शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥४३७।। [सुभाषितावलौ (१७०८) भट्टबाणस्य] अत्र 'रुधि' इत्यादेः । १०५) तात्पर्यमात्रभेदिनो नाम्नः पदस्य वा लाटानाम् ॥२॥ शब्दार्थयोरभेदेऽपि अन्वयमात्रभेदिनो नाम्नः पदस्य वा एकस्यानेकस्य वा सकृदसकृच्चावृत्तिाटानां १० संबन्धी लाटजनवल्लभोऽनुप्रासः । तत्रैकस्य नाम्नः सकृदावृत्तिर्यथा स एष भुवनत्रयप्रथितसंयमः शङ्करो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयञ् जयति जातहासः स्मरः ॥४३८।। २० अत्र करेति नाम्नः । असकृद् यथा दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ।।४३९।। [रघु० ८.२९] अत्र दशेति नाम्नः । अनेकस्य सकृद् यथा 'जयति क्षुण्णतिमिरः' (पृ. १४२) ॥४४०॥ इति । असकृद् यथा वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसंकाश काशा: काशाभा भान्ति तासां नवपुलिनगताः स्त्रीनदीहंस हंसाः । हंसाभाम्भोदमुक्तस्फुरदमलवपुर्मेदिनीचन्द्र चन्द्र श्चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां काल कालः ॥४४१।। __ [व्यक्तिविवेक, द्वितीय विमर्शाउद्धृतः, पौनरुक्तस्य विवेचने (पृ. ३३३ आ.रे.द्वि)] २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy