________________
॥ चतुर्थोऽध्यायः ॥
सगुणौ शब्दार्थों काव्यमित्युक्तम् । गुणानां च रसोत्कर्षहेतुत्वं सामान्यलक्षणं प्रतिपादितम् । इदानीं तद्भेदानाह
९५) माधुर्योजःप्रसादास्त्रयो गुणाः ॥१॥
त्रयो न तु दश पञ्च वा। लक्षणव्यभिचाराद्, उच्यमानगुणेष्वन्तर्भावाद् दोषपरिहारेण स्वीकृतत्वाच्च । गुणा इति रसस्य गुणाः, शब्दार्थऽयोस्तु भक्त्या इत्युक्तमेव ।
तत्र माधुर्यस्य लक्षणमाह९६) द्रुतिहेतुर्माधुर्यं शृङ्गारे ॥२॥
द्रुतिरार्द्रता गलितत्वमिव चेतसः । शृङ्गारेऽर्थात्संभोगे । शृङ्गारस्य च ये हास्यद्भुतादयो रसा अङ्गानि १० तेषामपि माधुर्यं गुणः ।।
९७) शान्तकरुणविप्रलम्भेषु सातिशयम् ॥३॥ सातिशयमिति । अत्यन्तद्रुतिहेतुत्वात् । एतद्यञ्जकानाह९८) तत्र निजान्त्याक्रान्ता अटवर्गा वर्गा ह्रस्वान्तरितौ रणावसमासो
मृदुरचना च ॥४॥ निजेन निजवर्गसम्बन्धिनान्त्येन ङाणनमलक्षणेन शिरस्याक्रान्ता अ-टवर्गाः टठडढरहिता वर्गा ह्रस्वान्तरितौ च रेफणकारौ । असमास इति । समासाभावोऽल्पसमासता वा, मृद्वी च रचना । तत्र माधुर्ये माधुर्यस्य व्यञ्जिकेत्यर्थः । यथा
शिञ्जानम मञ्जीराश्चारुकाञ्चनकाञ्चयः । कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः ॥४२४।। दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते । रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥४२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org