________________
१७०
[काव्यानुशासनम् क्वचिद् गुणो यथा
आशु लचितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्टया। रक्तवैणिकहताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ॥३१२।।
[शिशुपाल० १०.६४] अत्र कूजितस्य पक्षिषु प्रसिद्धत्वेऽपि कामशास्त्रे प्रसिद्धत्वाद्गुणः । यथा वा उपमायाम्
पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ । अथ नागयूथमलिनानि जगत् परितस्तमांसि परितस्तरिरे ॥३१३।।
[शिशुपाल० ९.१८] अत्र नागयूथेन धर्मिणा साम्यं तमसो वक्तुमभिमतं कवेर्न तद्धर्मेण मलिनत्वमात्रेण, मृगपतौ पतिते तस्यैव निष्प्रतिपक्षतया स्वेच्छाविहारोपपत्तेः । न तद्वन्मलिनानां तमसां, पतङ्गस्य मृगपतिरूपणावैयर्थ्यप्रसङ्गात् । न च तत्साम्यं सुन्दरहारिसदृशसुभगसन्निभादिशब्दा इव मलिनादिशब्दाः शक्नुवन्ति वक्तुमित्यवाचकत्वम् । यथा वा उत्प्रेक्षायाम्- .
उद्ययौ दीर्घिकागभन्मुकुलं मेचकोत्पलम् । नारीलोचनचातुर्यशङ्कासंकुचितं यथा ॥३१४॥
१०
अत्र ध्रुवेवादिशब्दवद्यथाशब्दः संभावनं प्रतिपादयितुं नोत्सहत इत्यवाचकः । यथा वार्थान्तरन्यासे
किमपेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः ।। । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥३१५॥
[किरातार्जुनीय २.२१] अत्र महीयस इत्येकवचनं न सामान्यरूपमर्थं व्यक्तमभिधातुं क्षमत इत्यवाचकत्वम् । बहुवचनस्यैव वीप्सासमानफलस्य स्फुटत्वेन तदभिव्यक्तिक्षमत्वात् । यथा
यावदर्थपदां वाचमेवमादाय माधवः । / विरराम महीयांसः प्रकृत्या मितभाषिणः ॥३१६॥
[शिशुपाल० २.१३] सर्वादिशब्दोपादाने त्वेकवचनस्यापि न दोषः, यथा
छायामपास्य महतीमपि वर्तमानामागामिनी जगृहिरे जनतास्तरूणाम् । सर्वो हि नोपनतमप्यपचीयमानं वर्द्धिष्णुमाश्रयमनागतमभ्युपैति ॥३१७॥
[शिशुपाल० ५.१४]
२५
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org