________________
४४
मध्यस्य गौरवं पश्यन्तौ श्याममुखतां जग्मतुः
-
पीनापि जघनमण्डली पीनतामभजत । सततमात्मनाधः कृतस्य श्लथत्वमासेदुषो दयितनिर्दया श्लेषसुखरसस्य च स्मरन्तौ शुचेत्र स्तनौ । प्रवृद्धयोश्च काममनयोः स्वेन रूपेण भारमुद्वोदुमक्षमेव क्षामतां मुमोच मध्यलक्ष्मीः । अनपत्यतादर्शनदुःखतप्तां निर्वापयितुमिव बन्धुतामायताः प्रसतुः पदन्यासेषु निःश्वासाः । प्रतिदिवसमुपचीयमानगर्भा च सा सकललोकाश्चर्यकारिणोऽभिलाषविभ्रमानभृत । तथा हि 5 - वासभवनाङ्गणभ्रमिषु खिन्ना, शरत्प्रसन्ने मानससरः पयसि ससखीजना स्नातुमियेष । मध्यन्दिननिदाघजनिताऽऽयलका पल्लवितकल्पपादपलताकुलेषु कुलगिरिनितम्बारामेषु रन्तुमभिलाष । विबुधवृन्दपरिवृता शाश्वतेषु सागरान्तरद्वीप सिद्धायतनेषु सान्ध्यमारन्धमप्सरोभिः प्रेक्षानृत्यमीक्षितुमाकाङ्क्षत् । अग्रतः प्रपञ्चितविचित्राख्यानकेन अव्यवचसा कथकनारीजनेन विविधं विनोद्यमानापि दीव्यकथासु कर्ण ददौ । विधृतविकोशपुष्करे न तथा निजकरे 10 यथा सुभटनिकरे दृष्टिमनयत् । अपास्तरणपरिकरं प्रकामगुणवन्तमपि भृत्यलोकं पर्यङ्कमिव सावज्ञमैक्षत । सर्वदिग्व्यापिना पत्युरपि प्रतापेन समतप्यत । प्रह्वीकृताशेषभूभुजा गुरुजनस्यापि गौरवेण ग्लानिमगमत् । अप्रणयिनापि प्रार्थिता सर्वस्वमदित | कृतापकारेऽपि करुणापरा प्राणिनिवहे बभूव । पूर्णेषु च क्रमेण किञ्चित्सातिरेकेषु नवसु मासेषु सारतिथिवारकरणाश्रितेऽतिश्रेयस्यहनि पुण्ये मुहूर्ते यथास्वमुच्च स्थानस्थितैः कौतुकादिव शुभग्रहैरव - 15 लोकिते विशुद्धे लग्ने, लग्नचारुतादर्शनजातपरितोषायामिवोर्ध्व मुख्यां होरायामप्रत एव जातेन सहितमखिलप्रजाप्रमोदेनाद्वितीयरूपमजनयत् तनयम् ॥
विधनपाला
४७) उत्पन्नमात्र एव च कार्यान्तरनियन्त्रितोऽप्यननु पालितपरस्परः सरसपदन्यासरणितनूपुरैः पुत्रजन्म स्वयमाख्यातुमुत्सुकैरिव पुरः पुरोभवद्भिः पादपल्लवैः प्रकटितसंभ्रमः पूर्णपात्रग्रहणाय भूमिपालाभिमुखमचलत् सकञ्चुकिकिरातकुः कल्मूकवामनो- 20 ऽनेकशतसंख्यः शुद्धान्तवारस्त्रीजनः । प्रमुदितपौरजनजयारावपीवरः प्रतिभवनमाहतानामसंख्यकाहलाशङ्खझल्लरीमुरजपटहानामनुसृतः पटीयसा झात्कृतेन वादित्राणामाह्वयन्निव नर्तनाय व्योम्नि वैमानिकवधूवृन्दमाकारयन्निव महोत्सवालोकनाय दिक्षु लोकपालपरिषदमा - दिशन्निव रङ्गावलीयोग्यरत्नानयनाय पृथ्वीतलोपान्तेषु पाथोनिधीन् बभ्राम मथनभ्रान्तमन्दरविघूर्णितमहार्णवध्यानघर्घशे जगति नान्दीघोषः । प्रसर्पन्नितस्ततः प्रस्तुत परीहास इव 25 तत्कालमधिगतविकाशासु प्रमुदितास्विव दिक्षु चिक्षेप पिष्टातकरजः पिञ्जरं सरोज किञ्जल्कजलमुद्यानानिलः । कृताध्ययनभङ्गविद्वज्जनविसर्जितानि प्रष्टीकृतैकैकबठ रच्छात्रहस्तार्पितविशालपूर्ण कलशानि युगपदुच्चारिताशीःपरम्परावचनवाचालानि चेलुरन्तःपुराभिमुखमखिलानि विद्यासत्रशालान्तेवासिमण्डलानि । प्रचलितारुणपाणिमणिपल्लवमान्दोलितालिनीललीलालकभङ्गमाभगुरमुरोजस्तबकभारेण रणरणितताररत्नाभरणमालमनिलाहतकल्पलता- 30 वनमिव ननर्त सान्तःपुर नगरनारीवृन्दम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org