________________
तिलकमञ्जरी
गाढकृतनिश्चयेन त्वदर्थसिद्धयर्थमध्यवसिते देवतासमाराधनविधौ किमिति निष्कारणमियन्ति वासराणि प्रकृतिकर्कशजनोचितेतकर्मभिः कदर्थितोऽयं सततसुखोचितस्त्वयाऽऽत्मा ? किमर्थमेषा मदङ्कशय्याशयनलालिता, ललिताङ्गि ! शायिता निरावरणासु स्थण्डिलस्थलीषु स्थलारविन्दकेसरसरससुकुमारा काययष्टिः ? किमिति, निर्दये ! निसर्गपेलवं मध्यभाग5 मनुदिवसमुपवासैः कर्शयन्त्या कृतं प्रकृतिकर्कशस्यास्य कुचयुगलस्य साहायकम् ? अहो ते
बालिशत्वम् , अहोऽनालोचकत्वम् , अहो यदृच्छाकारिता।' इत्यभिधाय सत्वराकृष्टसनि.. कृष्टविलासोपकरणपटलकः सविलेपनां सालङ्कागं सतिलकां सावतंसां सशेखरां स्वकरेण तां चकार । दृष्ट्वा च विरतनिमेषया दृष्टया सुचिरमतिचारुणा तेन वेषग्रहणेन तैश्च
तत्कालमाविभूतैः प्रियप्रेमातिशयजन्मभिः स्मरविकारै द्विगुणतररम्यदर्शनां सुदृढमाश्लिष्य 10 शयनीयमन यत् । तत्रैव च तया सह सुष्वाप ।।
४५) स्वल्पावशेषायां च क्षपायामधोमुखविषाणकोटिनोवंचरणेन लाञ्छनमृगेण विधृतमूलाग्रभागव्यत्यये जत्यस्तमस्ताचलचकोरकामिनीमन्दमन्दाचान्तविच्छायविरसचन्द्रिके चन्द्रमसि, प्रतिवेलमुन्नतनतशिखेषु तत्क्षणमुदयमानमरुणमिव वातायनान्तरेणाव
लोकयत्सु निजप्रभापहारभीतेषु वासभवनप्रदीपेषु, प्रभातपरुषमारुताहतासु तनुतमिस्रच्छे15 दपल्लवकृतनिवेशमवश्यायजलबिन्दुजालमिव नक्षत्रनिवहमजनमुज्झतीष्वाशालतासु, पर्या
यविघटमानाष्टदिग्भागदलं विकटायमानकुक्षिकोटरमरविन्दमिव मधुपङ्कदिग्धेष्वलिकुलेषु गगनमपहाय तत इतः प्रयात्सु संध्यारागरञ्जितेषु रजनीतमस्सु, राजा राजतगिरिशिखरमधिरूढायाः श्वेतवसनस्रग्विलेपनालङ्कारकमनीयमूर्तेर्मदिरावत्याः शैलराजदुहितुरिव हेरम्बमम्बरादवतीर्य पुर:स्थितमपारपरिमलान्धैः सर्वतो निपतद्भिरश्रान्तझङ्कारमुखरिताशामुखेरहमहमिकया विलुप्यमानकपोलमदवारिनिर्झरमलिकुलैः कुचकुम्भविन्यस्तविकट पुष्करेण करेणाकृष्याकृष्य स्तन्यमापिबन्तं स्वप्ने सुरेन्द्रवाहनं वारणमपश्यत् । उपशान्तनिद्रश्च मङ्गलतूर्यनिघोंषेण सप्रहर्षमुत्याय प्रथमतरमुत्थितायाः 'देवि! संपन्नास्ते गुरुजनाशिषः, प्रसन्ना समासन्नैव देवी राजलक्ष्मीः, भविष्यत्यशेषभूभृच्चक्रचूडारत्नमचिरेणैव सू नुः'
इत्युदीर्य प्रकटितादरो मदिरावत्याः स्वप्नमाचचक्षे । सापि बद्धावधाना सविस्मयब्रीड25 मवनतेन शिरसा तमोपीत् । आनन्दभरविज़म्भमाणोदामपुलकोपचितसर्वावयवा च
प्रतिपन्नेव सद्यो गर्भण, द्विगुणमुपजातशोभा तत्क्षणमजायत । स्थित्वा च किञ्चित्कालमुत्थिते च राज्ञि निर्गत्य रतिगृहाद्यथाक्रियमाणमुचितव्यापारमन्वतिष्ठत् ।।
४६) अनतिबहुषु च व्यतीतेष्वहस्स्वनन्तरे ऋतौ स्नाता, शरद्दिवसकरमूर्तिरिव भास्वरं तेजो, बभार गर्भमुदरेण । निवृत्तरजःसङ्गापि पाण्डुतामगच्छत् । चलितुमसहापि 30 खेलालसपदन्यासमकरोत् । दधत्यपि तनुतामुपचिता बभूव गात्रयष्टया । कृष्णतारो
चितामपि क्षीरधवलामधत्त दृष्टिम् । तथा च प्रकृतिमन्दापि तस्या गतिरमन्दायत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org