________________
कविधनपाल कृता
४२) तत्र चाविरलविप्रकीर्णपुष्पबलिशवलितातिममृणमणिकुट्टिमे विकटपत्रभङ्गचित्रितचामीकरस्तम्भविरचनाचारुण्युपरिविस्तारिततारनेत्रपटविताने वितानकप्रान्तलम्बमानलोलमुक्तास्रजि ज्वलदकम्प्रयष्टिप्रदीपप्रकटितप्रशस्तभित्तिचित्रे सुकल्पितास्तरणतन्पतलोपशोभिनि शय्याशिरोभागनिहितधौतकलधौतनिद्राकलशे विशालवेश्मनि कृतावस्थानाम् . निवर्तितनिरन्तराहारग्रहणेन निगृहीतवृत्तिना सकलराज्यसुखोपभोगेष्वतिदुष्करेण व्रतचरणेन 5 भर्तु रदर्शनेन च प्रकामकर्शितशरीराम , उज्झितालङ्कारामप्यकृत्रिमेण कान्तिसुकुमारतादिगुणपरिगृहीतेनाङ्गमाधुर्येण सुकविवाचमिव सहृदयानां हृदयमावर्जयन्ती ज्योत्स्नावदातनिर्मलाम्बरधारिणी राकारजनिमिव, वारवारमधिगताधिकविकाशसंपदा मुखेन परिपूर्णमिन्दुमण्डले तुलयन्तीम्, उपनीतविविधवस्त्राभरणमुत्सवागत बन्धुवनितावर्ग' सहस्रगुणमूल्यैरशुकै रत्नालङ्कारैश्च संभावयन्ती, शक्रावतारगमने सबहुमानेन, वैमानिकदर्शने सविस्मयेन, दिव्या- 10 हाराङ्गुलीयकालङ्कारलाभे सपरितोषेण, वैतालरूपव्यावर्णने सत्रासेन, कण्ठच्छेदसमये समासादितमूर्छन, राजलक्ष्मीनर्मभाषितश्रवणे सहासोल्लासेन, भाविखेचरचक्रसाम्राज्यसुतवरप्राप्त्यवसरे समारूढ परमानन्दनिष्पन्देन मनसा पाचवर्तिपरिजननिवेदामान पत्युरतिक्रान्तयामिनीवृत्तान्तमाकर्णयन्तीम् , अनतिदूरवर्तिनीभिः सनिधापितसितकुसुमदामदूर्वाक्षतदधिलवाभिरमलकाञ्चनस्थालविनिहितोच्छिखज्वलपिष्टमयमङ्गलप्रदीपाभिः प्रत्याविरचित- 15 चतुष्कचारुणि मणिवितर्दिकापृष्ठपीठे प्रतिष्ठापितविततहेमपट्टाभिर्मुहुर्मुहुर्झरदेशप्रहितलोचनाभिः प्रतिपालयन्तीभिः क्षोणीपालागमनमतिरुचिरवेषाभिरन्तःपुरविलासिनीभिः परिवृतां मदिरावतीमद्राक्षीत् ॥
४३) दृष्ट्वा च दूरविकसितस्मितादृष्टिस्तां ससंभ्रमकृताभ्युत्थानां करे गृहीत्वा तत्र मणिवेदिकापृष्ठवर्तिनि समीपोपविष्टैर्युगपदुत्थाय विहितप्रणामैः प्रधानान्त- 20 व शिकः सादरमुपदर्शिते स्पर्शवति हेमविष्टरे न्यवेशयत् । उपविष्टश्च दक्षिणं पार्श्वमाश्रित्य तस्याः, क्रमेणैताभिः सकललौकिकाचारकुशलाभिर्वारवनिताभिः प्रयुक्तमवतारणकमङ्गलमन्वभवत् ॥
४४) अथ पुरोहितपुरःसरेषु विहितसायंतनस्वस्त्ययनकर्मस्वपक्रान्तेषु, प्रमोद सलिलप्लुतेक्षणासु दत्त्वाऽक्षतानुदीरिताशीःषुः निर्गतासु बान्धववृद्धासु, प्रस्थितेषु यथास्व- 25 मधिकारसदनानि सौविदल्लेषु, प्रारब्धपरिहासपेशलकथासु स्थित्वा मुहूर्तमपमृतासु सव्याज प्रियासहचरीषु, प्रकटिताङ्गरागशुक्तिषु प्रमृष्टमणिदर्पणासु समुत्सर्पितविलासदीपवर्तिषु संनिधापितकुसुमपटवासताम्बूलरत्नालङ्कारपटलकासु निर्यातासु शुद्धान्तशय्यापालि. कासु, विविक्ततामुपगते द्वारकपाटसंघटनघनविसर्पदगुरुघनसारधूपोद्गारसौरभे वासभवने, भूमिपालस्तिर्यगावलितकण्ठकाण्डेन वदनपुण्डरीकेण प्रत्यवयव विलोक्य स्पृष्ट्वा च 30 करतलेन मन्दमन्दमानन्दनियत्पुलककलिकाकोरकितानि मदिरावतीगात्राणि किञ्चिदाकुञ्चि तेक्षणः सकृप इव खिन्नाक्षरोद्गार' शनैर्व्याजहार-'देवि ! दृढमायासितासि । मयैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org