________________
कविधनपालकता जिरभूमिषु प्रक्षाल्यमानासनेषु माय॑मानकांस्यरजतादिभाजनेषु भोजनशालासंचार्यमाणविविधाहारपाकेषु प्रतोलीशिखराधिरूढपुरोहितपरीक्ष्यमाणाध्ययनमुखरोन्मुखद्विजेषु सर्वतः संवृतेषु सत्रिणां भवनेषु, भूमिपतिरवलोकिताभिमतनगरीप्रदेशः समासादितावसरैः
श्रवणमूलमागत्य मध्याहूनकृत्याय प्रवर्तितो मागध'लोकैरधिकृतैश्च राजलोकैः प्रववृते शनैः 5 शनैः स्वनिवासमागन्तुम् ॥
३७) अवहिताधोरणचालितवारणश्चो कृत्य विधृतेन तत्कालमाक्रान्तचूडामणि दिवसमणिमष्टपूर्वमादराद् द्रष्टुमागतेन पौर्णमासीहिमगभस्तिनेव निवारितललाटतपातपः सितातपत्रेण हयखुरोद्धृतरथ्यारेणुधूसरितनेपथ्यरातपम्लानमौलिदामभिः सर्वतोऽनुगम्यमानो
नृपतिभिरुपर्युपरि संझनितानेकवन्दनमालमूर्ध्वविधृतवेत्रयष्टिभिः प्रथममेव सत्वरप्रविष्टैरि10 तस्ततः प्रहितदृष्टिभिर्द्वारपालनिरीक्षिताशेषकक्षान्तरमन्तरिक्षोल्लेखिभिरनेकशतसंख्यैः सित. प्रासादैः सर्वतः समाकुलं राजकुलमाससाद ॥
३८) द्वारदेशे च तस्य विधृतवाहनस्तिमितमावासगमनाय तिर्यगुन्नमितमुखसंज्ञया प्रस्थाप्योभयतः पार्थिवसमूहमन्तः प्रविश्य द्वितीये द्वारे वारणादवततार ।
निवारितपरिवारलोकश्च द्वारपालैः परिमिताप्तराजपुत्रपरिवृतश्चरणाभ्यामेव गत्वा मध्यमां 15 मण्डपिकां तन्मध्यभागे तत्क्षणोपलिप्ताया निरन्तरक्षिप्तसरसपुष्पप्रकरसुरभेरास्थानवेदिकायाः
पृष्ठभागे प्रतिष्ठापितमुभयतः संयोजितमृगाङ्कमणिदारनिर्मितोदारमत्तवारणकमनुपृष्ठमाहितोच्चकाञ्चनपीठमीषज्जरठकुमुदगर्भदलावदातमच्छधवलधौतपट्टांशुकपटाच्छादित दन्तपट्टमध्यास्त । व्यपास्तसकलविहारकालकल्पितवेषः प्रक्षालितचरणपल्लवश्व परिचारकगणेन सत्वरो
पसृतधृतकरककिङ्कराव जितेन शिशिरवारिणा प्रक्षाल्य बलसंक्षोभधूलिधूसरश्रमस्वेदलवलेखं 20 मुखेन्दुमग्रतः स्थापिते मणिपतद्ग्रहके प्रक्षिप्य कतिपयानुदकगण्डूषानुपस्पृश्य परिमृज्य
चाभ्यग्रहस्तशाटकग्राहिसत्वरोपढौकितेन वस्त्रपल्लवेन सहस्तपल्लवं वदनमादरगृहीतजलाईतालवृन्तेनान्यतमपरिचारकेण मन्दमन्दमुपवीज्यमानो मुहूर्तमिव स्थित्वा द्वारदेशस्थकटुककटुरवाकृष्टधावमानसंभ्रान्तवारिकम् , उत्सारितक्लान्तपुष्पबलितलिनायमानकुट्टिमोत्सङ्गम् ,
अङ्गणोपान्तपुञ्जीभूतभूरिभुञ्जानकलोकम् , , औत्सुक्यतरलारालिकश्रेणिसंचार्यमाणानेकका. 25 वनस्थालीसहस्रम् , आदरव्यापृताक्षपौरोगवनिरीक्ष्यमाणक्षुद्रपरिजनप्रवेशनिर्गमावस्थानम् , अनिलताडितोदण्डकाण्डपटकप्रस्तुताकाण्डताण्डवम् , आहारमण्डपमयासीत् ।।
३९) तत्र च विविधवितीर्णविततरत्नस्थालशतशबलितक्षितितले नृपासनासन्ननिषण्णभिषजि संनिधापितशुकसारिकाचकोरक्रौञ्चकोकिलप्रमुखपत्रिणि तत इतः प्रेङ्खद
रुणसुकुमारपाणिपल्लवाभिः कल्पलताभिरिव संचारिणीमिश्चित्ररत्नाभरणदिव्यांशुकधराभिर्वार30 रमणीभिरुपनीयमानमनोभिलषितानेकभक्ष्यपेयप्रकरो यथास्थानमुपविष्टेन प्रधानपार्थिव
गणेनान्येन च प्रणयिना राजलोकेन परिवृतः कुर्वन्नन्तरान्तरा सह सुहृद्भिर्नर्म भोजनकर्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org