________________
तिलकमारी
सरमावेदितनिजप्रयोजनद्विजातिजनमवधानदानेनानुगृह्णतः, क्वचिद्दर्शनपथावतीर्णेषु शीर्णदेवतायतनेषु कर्मारम्भाय सपदि संपादितपूजासत्कारान् सूत्रधारान् व्यापारयतः, क्वचिदासन्नसेवकनिवेदितदानविच्छेदासु दानशालासु दीनानाथपथिकसार्थस्य सविशेषमन्नपानशयनौषधादिदानमधिकृतैः प्रवर्तयतः, क्वचित् स्वस्खानितेषु सरःसु तटरोपितानां वटाश्वत्थादिविटपिनां पालनार्थमुद्यानपालानुद्यमयतः, मार्गघटितं च सूक्तवादिनं दरिद्रयाचक- 5 सार्थमर्थसंभारेण भूरिणा कुतार्थीकुर्वतः, तीव्रतिग्मांशुकरनिपातोपतापितः स्वदुःखमाचिख्यासुरिव प्रत्याससाद मध्याह्नसमयः । स यत्नमुद्धतहरित्कुशेन प्रातरेव धवलितोदयाचलमशिखरमवचित्य तारकाकुसुमविसरमुल्लसितेन मन्दमन्दमरुणेन प्रेर्यमाणस्यन्दनो नाकमन्दा. किनीस्नानमिव संप्रधार्य मनसि विहायसो मध्यमव्यारुरोहाम्बुरुहिणीनाथः ।।
३५) क्षितिपालशिविलितकरग्रहाः खेदनिःश्वासानिव समुत्स्रष्टुमुष्णान्नभस्वतः 10 स्वैरस्वैरमारेभिरे ककुभः । तरुमूलदृश्यमानश्यामपरिमण्डलच्छायावलया बलवदातपदाहविच्छेदाय देहनिहितार्द्रपद्मिनीदला इवालक्ष्यन्त नगरोपान्तवनभुवः । पर्याकुलितपर्यन्तगृहनिवासिगणिकाजनाः सवेदना इव सुरगृहागणेषु रेसुरश्रान्तदेवलकवदनवातनिर्भराध्मातकुक्षयो विशृङ्खलं धूपवेलाशङ्खाः । प्रभिन्नशङ्खक्षरन्मदासारसिक्तराजपथाः प्रतस्थिरे जलावगाहाय सलयमग्रतः प्रहतपदुमृदङ्गपटहाः पट्टहस्तिनः । कपाटदारुपाशकनिर्दयास्फा- 15 लनवाचालानि गृहोन्मुखापणिकसंवृतपण्यासु विपणिवीथीषु प्रत्यापणद्वारमघटन्त कालायसतालकानि ।।
३६) क्रमेण च कठोरतां प्रपन्ने दिवसतारुण्ये किश्चिदुपरतपौरकोलाहलायां नगर्या विनिर्गतग्रामलोकस्तोकसुगमेषु शृङ्गाटकेषु, प्रहृष्टबठरच्छात्रसत्वरोच्चार्यमाणग्रन्थादिप्रथितदेवतास्तुतिश्लोकासु वन्दिताचार्यचरणशिष्यगणसंब्रियमाणनिजनिजपुस्तकासु क्षणमात्र. 20 प्रवृत्तयदृच्छालापरमणीयासूत्तिष्ठन्तीषु विद्यामठव्याख्यानमण्डलीषु, अनुचरगृहीततेलामलककङ्कतेषु प्रस्थितेषु स्नानाय सरयूतटानि तिलदर्भपत्रिकापूर्णपत्रपुटपवित्रपाणिषु श्रोत्रियेषु, न्यञ्चच चुशकुनिपीयमाननिम्नविश्रान्तसारणिजलासु विरतारघट्टक्रमसमुच्छसत्सलिलमज्जसोपानासु गृहकर्मविरताभिर्गे हिनीभिरवगाह्यमानासु भवनवापीषु, तृषितकलविङ्कचक्रवालाकुलितपर्यन्तेषु पूर्यमाणेषु द्विजकुमारिकाभिः कुटजलेन निष्कुटलतामण्डपावलम्बिषु प्रपिका- 25 कर्परेषु, करार्पितोन्मृष्टतारताम्रभाजनासु दिवसलक्ष्मीष्विव सभास्वन्मण्डलासु हिण्डन्तीषु देवतायतनमण्डलेषु विमलाम्बरधरासु वृद्धासु, भर्तृ सन्ध्योपासनोत्सुकासु गृह्णन्तीष्वभ्युक्षणमनुक्षणावलोकितगलन्तिकामूलसंगलज्जलकणासु द्विजातिगृहिणीषु, गृहाभिमुखतरुशाखासीनवायसकुलावलोकितबलिसु हूयमानेषु वैश्वदेवानलेषु, अध्ययनमुखरेष्वितरततो भ्रमत्सु गृहपतिभवनवनषण्डभ्रमरेषु भिक्षाचरेषु, प्रवातपट्टशालावलम्बितपञ्जरे पाकपिञ्जराणि 30 कलयति तरुफलानि संघृतालापे शुकसारिकाकलापे, निवृत्तरसवतीधूमेषु समुपलिप्यमाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org