________________
कविधनपालकता फलानि प्रहिण्वतीमिर्लक्षणाभिज्ञतया गृहीतवामकरतलाङ्गुष्ठमूलस्थूलरेखासंख्यानां सखीनां मुहुर्मुहुः श्रुतेन श्रुतिसुखेन वचसा स्मयमानमुखमृगाङ्काभिः प्रथमालापजिघृक्षया च देव्याः पुत्रो भविष्यति न वेति संनिधावेव परिचारिकाभिरनुयुज्यमानाप्रगल्भशिशूनां भीतभीतेन
मनसा वचनमाकर्णयन्तीभिरुज्झितान्यकर्तव्येन वृद्धसंप्रदायागतानि विविधौषधानि प्रयुञ्जानेन • 5 महानरेन्द्रलिखितानि मन्त्रकण्डकानि बध्नता दृष्टप्रत्ययप्रतीतपरिव्राजकोपदिष्टनीत्या स्वपन
मङ्गलानि प्रवर्तयता शुद्धान्तजरतीजनेन शश्वक्रियमाणगर्भग्रहणोपचाराभिः पुत्रकाम्यन्तीभिरन्तःपुरकामिनीभिर्विधीयमानविविधव्रतविशेष; पञ्जरशुकैरपि प्रस्तुतवादिभिर्बन्दिभिरिवोच्चार्यमाणमङ्गलम् ; अन्तःपुरसारिकाभिरपि परिमितव्याहारिणिभिराराध्यजरतीभिरिव वितीर्य
माणराजवनिताशीर्वादम् ; अर्भकैरपि विनयनिभृतैः प्रवीणपुरुषैरिव निवार्यमाणक्षुद्रदासी. 10 परस्परकलहं; सर्वतश्च प्रशान्तेन शुचिना शुद्धवेषधारिणा परिजनेनाधिष्ठितम् ;
उत्साहमयमिव, प्रयत्नमयमिव, श्रद्धामयमिव, विनयमयमिवाचारमयमिव; राजकुलम
व्रजत् ॥
20
३३) तत्र च समाहृतसमस्तोपकरणेन परिजनेन यथाविधिविहितमज्जनोपचारः सकललोकाचारकुशलाभिः ससंभ्रममितस्ततो विचरन्तीभिर्वारवनिताभिः कृतावतारणकमङ्गलः .. 15 क्षणमात्रं विलम्ब्य ताम्बूलक'रातिसर्जनविसर्जितपुरोधःप्रमुखमुख्यद्विजाति 'उत्तिष्ठत,
व्रजामो देवतायतनेषु' इत्यभिधानः संनिधानभाजं प्रणयिजनमासनादुत्तस्थौ । अनूत्थितासन्नराजलोकपरिवृतश्च तत्कालमेकहेलयोच्छलितेन संमूर्च्छता दिगन्तरेषु मुहुर्मुखन्यस्तकरतलप्रतिस्फल नविरफारितनिनादानां बन्दिनां जयशद,कलकलेन कथितनिर्गमो द्विजावसरमण्डपानिर्जगाम ॥
३४) सत्वरनिषादिढौकितकरेणुकारूढश्च पश्चादधिरूढेन ताम्बूलकरङ्कवाहिना विधूयमानचामरः, पुरःप्रधावितो/कृतकनकवेत्रप्रतीहारनिर्दिश्यमानमागेण गृहीतविविध
हेतिना पदातिनिवहेन विराजमानः, पृष्ठतः प्रचलितेन च संभ्रमोत्तालगतिना गन्धोदकक्षीरा• ज्यदधिभृतः शातकुम्भकुम्भानुद्वहता जलाईकर्पटावगुण्ठितविचित्रकुसुमदामगर्भान् वेत्रकरण्डका न्
कलयता मलयजकाश्मीरकृष्णागुरुकर्पूरपूर्णानि रत्नभाजनानि बिभ्रता स्कन्धदेशारोपितांश्च 25. विचित्ररूपान् महावस्त्रभारकान् धारयता गृहीतशस्त्राप्तपुरुषाधिष्ठितेन प्रेष्यलोकेनानुगम्य
मानो राजकुलान्निरगच्छत् । गत्वा च शक्रावतारे प्रथममेव विहितपूजासत्कारो नगरदेवतायतनेषु सर्वेष्वानुपूर्व्या विचचार । चिरदर्शनादभिनवीभूतकौतुकस्य चास्य यदृच्छया पुरप्रासादसुरसदनकूपोद्यानवापीसहस्रसंकुलामकाल एव प्रकटितोत्सवैः पौरलोकः प्रतिभवन
मुत्तम्भितानेकरागवस्त्रध्वजप्रभाविस्तारितापूर्वसंध्यामयोध्यां पुरी पश्यतः, क्वचिददर्शनादु3 30 मनीभूतमानसं मान्यमृषिजनं गत्वा तदाश्रयेषु दर्शनेनानन्दयतः, क्वचिदुत्थाय सादरमग्रतः
कृतनमस्काराञ्जलिबन्धान्नगरवृद्धान् सगौरवमालपतः, क्वचित् सितकुसुमदामदर्शनपुरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org