________________
तिलकमञ्जरी
मुहुः सत्यादिगुणगणं गृणभिः, मुहुर्महिमानमुत्कीर्तयद्भिः, मुहुः साहसिकतामुद्धट्टयद्भिः, मुहुः पुण्यपरिणतिं प्रपञ्च यद्भिः, विस्मयस्मेरदृष्टिभिरनेकप्रकारमभिनन्द्यमानः परं मुदमधत्त ।
३१) प्रस्तुत कथाविच्छेदे च तैः प्रवर्तितो गृहगमनाय किमपि ध्यात्वा तिर्यग्वलितदृष्टिरनतिदूरोपविष्टमनुल्बणोदारवेषाकारधारिणं महोदधिनामानं प्रधान रत्नाध्यक्ष - मैक्षत | ससंभ्रमोपसृतं च तं विनयवामनीकृतदेहायामं वामपाणिस्पृष्टवसुधातलमितर कर- 5 धृतोत्तरीयपल्लवप्रान्तमुद्रितमुखमुन्मुखेक्षणं सादरमवदत् - 'भद्र ! चन्द्रातपाभिधानोऽयं हारः प्रतिदिवसमर्चनीयानां चिन्तामणिप्रभृतिनां प्रधानरत्नानां मध्यवर्ती कर्तव्यः । अयमपि बालारुणाख्यो दिव्याङ्गुलीयकालङ्कारः स्वमर्यादातिवर्तिनां दुष्टसामन्तानां दमनाय दक्षिणापथमधितिष्ठतो वज्रायुधस्य प्रस्थापनीयः । वक्तव्यश्च तत्प्रधानप्रणयी विजयवेगः - " एष यामिनीयुद्धेषु विषमशत्रु सैन्य संनिरुद्धस्य वज्रायुधस्य पाणिप्रणयितां त्वया नेतव्यः" || 10
"
३२) ' तथा ' इति तेनाङ्गीकृतादेशश्चोत्थाय तैः प्रधानराजलोकैः परिवृतः प्रवर्त्यमानकुलदेवताविशेषपूजम्, अभ्यर्च्यमानमुनिजनम् आरभ्यमाणगुरुभक्तिगौरवम्, आराध्यमानचिन्तामणिगणम्, आरभ्यमाणदिग्देवताबलिकर्मक्रमं क्रियमाणदीनानाथ - लोकशोकोच्छेदम् आरब्धनि विच्छेद सान्तानिककर्मकाम्यक्रतुशालम्, आगृहीतकनकभृङ्गारेण हरितकृशगर्भपाणिना पुरोहितेन तत इतः प्रकीर्यमाणशान्त्युदकशीकरम्, उप- 15 कल्प्यमानपश्ञ्चमीश्राद्धम्, अधिगत विविध पूजाप्रीतमानसैर्द्विजन्मभिः सत्रमण्डपाजिरमण्डलकसंनिधावाबद्धमण्डलैर्मन्त्रोच्चारविरतौ युगपद् घुष्यमाणनृपतिसंतानोदयम्, अहरहः श्रोत्रियविश्राणनार्थमाहियमाणानां कुण्डपरिमण्डलोध्नीनां गवामुत्कर्णतर्णकानुसृताभिः परम्पराभिरापूर्यमाणबाह्यकक्षान्तरम् ; आघातधूपपरिमलाविष्टाभिरनेकभङ्गिभिः कृताङ्गभङ्गाभिराभरभ्रुकुटिभीपणमुखीभिरयतो विनयविरचिताञ्जलिना राजकुलवृद्धाजनेन किं किमित्या - 20 कुलाकुलमाच्छचमानाभिः क्षुद्रप्रव्रजिताभिरभिलपितवस्त्वनुगुणैर्वचोभिराश्वास्यमानपरिजनम् ; उपनीतकुसुमफलता म्यूलेन पुरोवर्तिना नृपतिज्ञातिलोकेन होराकृष्टिषु नियुञ्जानेनाङ्गुष्ठकादिप्रश्नं प्रति प्रवर्तयता कर्णपिशाचिकाविधानेष्ववधापयता दृष्टशुभ स्वप्नफलानि पृच्छता दिवानिशमुपास्यमाननैमित्तिकम् ; अवितथादेश सामुद्रविदा ख्यातप्रसव लक्षणानां क्षोणिपालकन्यानामुद्वाहनाय राज्ञः प्रणयिलोकैः प्रवर्त्यमानामात्यम् ; अवधीरितापरकथेन 25 स्थानस्थानेषूपविष्टेन देशकालान्तरितनरेन्द्रपरिज्ञानानि प्रशंसता विवक्षितपुरुषफलावाप्तिदृष्टान्तैरभीष्टदेवता सेवाप्रभावमुद्भावयता निरपत्यपूर्व नृपतिपुत्रलाभोपायप्रधानाः पौराणिक - कथाः प्रस्तावयता देवद्विजप्रसादादिहापि सर्व शुभं भविष्यतीति प्रकृते प्रयोजयता राज.. लोकेनातिवाह्यमानदिवसम्; आप्तोपदिष्टदृष्टप्रत्ययौषधपानप्रसकाभिः स्निग्धमधुराभ्यवहा रिणीभिरनल्पगुणोपेतमपेतदोषैरपि वज्रमणिभिर्वर्जितं जात्यरत्नजातमाभरणकलापार्पितं कल - 30 • यन्तीभिर्वक्रतादिदोषवन्ध्यानि श्रद्धाप्रवणेन चेतसा ज्ञातीनां द्विजातीनां च गृहेषु प्रशस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org