________________
worrowo.wwwdaansoon....
तिलो
कृतः स्वीकारः । पुरंदरादप्यहं न बिभेमि, किं पुनमहोदरात् ? किं विलम्बते ? यात्वयमिदानीमेव गुह्यकः । शक्नोति यदि न रक्षितुं गुह्यम् , आवेदयतु शतगुणीकृत्य ताभ्यो मद्भाषितमिदम् । ता अपि सपत्नीबहुमाननिशमनोत्पन्नमत्सराः कुप्यन्तु काम पुत्रकाम्यन्त्यः । किं में करिप्यन्ति कुपिता अपि ? मया नैव ताः प्रसादनीयाः । त्वयि कृतप्रसादायामिदानीमपगता मे तदीयचिन्ता । यथा मदिरावत्यास्तथा तासासपि त्वया 5 पुत्रो जनयितव्यः । एवं च तत्कृता कर्थनापि मे नास्ति । वृथैव मां भगवती भीषयते'। इत्युक्तवति राजनि विहस्य जातहर्षा लक्ष्मीः पुनरवोचत-' राजन् ! कृतमतः पर नर्मकर्मणा । जिता त्वयाहम् । किन्त्वतिमात्रचतुरोऽपि वञ्चितस्त्वमेतेन दर्शितालीकोन्नतिना महापुरुषताभिमानग्रहेण, येनैवमुपदर्शितप्रसादायामपि मयि न किश्चित् त्वया प्रार्थितम् । सर्वथा यदस्ति तदस्तु । कस्ते मनोरथानां प्रतिपन्थी ? भविष्यति तवाशेषभुवनत्रयख्यात- 10 कीर्तिरार्तजनपरित्राणक्षमः क्षमापतिवृन्दवन्दितचरणारविन्दो बन्दीकृताष्टादशद्वीपभूपालसुन्दरीसादरविधीयमानशुद्धान्तवधूचरणपरिचर्यश्चतुरुदधिवेलाशिलोच्चयशिखानिखातमणिशि - लादारुमयजयस्तम्भो मत्प्रभावादचिरेण भोक्ता भूमिगोचरखेचराधिपतिराज्ययोः प्रतापवान् पुत्रो, यस्योत्पत्रभङ्गचित्राष्टापदपादपीठप्रान्तसततनिषण्णः सविभ्रमोक्षिप्तैदक्षिणकरैः प्रचलयन्नवसरेषु वालव्यजनकानि विलासयन्त्रपुत्रिकाविदग्धतां धास्यति प्रकटिताष्टबाहुदेहद्वयो 15 जनोऽयम्' । इत्युीर्य भूयो जगाद-'नृपचन्द्र ! योऽयमसदृशभक्तिहतहदयेन महापुरुषचितवृत्तिसहचरीमौचित्यमुद्रामाद्रियमाणेन चन्द्रातपाभिधानो दिव्यमुक्ताकलापः पूजार्थमुपकल्पितत्त्वया मे, सोऽनल्पमभ्युदयमभिलष्यन्त्या भवत एव मया प्रदत्तः, सर्वथा प्रयत्नेन रक्षणीयः । यदा च नवयौवनश्रिया प्रतिपन्नसर्वाङ्गस्तवाङ्गजो भविष्यति तदा तस्य भूषणार्थमुपनेतव्यः। यद्यपि सुचिरकालसंचितेन सततानुगामिना सभृत्येनेव शुभ- 20 कर्मणा कृतरक्षाणां महापुरुषाणां सर्वदापि दूरवर्तीन्येव दुरितानि, तथापि नीतिरनुसर्तव्या, यतोऽस्य संग्रामभूमिमवतरतोऽपि, विपक्षदुर्गाणि गाहमानस्य, विषमाटवीषु कार्यवशेन विशतोऽन्येषु च संभाव्यमानापत्तिषु स्थानकेषु व्यवहरतोऽसौ विशेषतः संनिधापयितव्यः । सर्वदा निर्विघ्नमस्तु ते प्रयोजनम् । अनुजानीहि मां गमनाय । मयाऽपि प्रसङ्गेनैव निर्गतया निजनिवासात् कतिचिदप्यहानि दक्षिणाशाविभूषणेषु त्रिकूटमलयादिषु वेलापर्वतेषु 25 क्षीरोदप्रभृतिषु महार्णवेषु नन्दीश्वरप्रमुखेषु द्वीपेष्वन्येषु चातिरमणीयेषु प्रदेशेषु विहृत्य भूयस्तत्रैव तुहिनाचलशिखरवनराजिराजतदर्पणे स्वसद्मनि पद्मनाम्नि महाहदे गन्तव्यम् । त्वमपि मदनुज्ञया गच्छाधुना स्वमावासम् । अध्यास्स्व राज्यधुराम् । आधेहि विषयोपभोगसुखेषु प्रणयम् । आत्मदर्शनामृतेन विरहाकुलीकृतपाणाः प्रीणीहि सर्वाः प्रणयिनीः । प्रवर्तय यदृच्छया सुदृज्जनेन सार्धमग्राम्यनर्मालापरम्या रहस्यगोष्ठीः । अनुभव तुरगरथ- 30 सिन्धुराधिरोहगपुखानि । विहे कृत्रिमनहीतरङ्गमारुतावतारशीत लेषु प्रमदवनसहकारपादासता गुज-पुरज (वनोहरमन्तःपुरपुरन्धिजनेन सार्धमनिवारितमनःप्रसरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org