________________
३४
कावधनपालकता
गतः । तिष्ठन्तु चैते । नीचप्रकृतयोऽपि त्वया परिगृहीता जगति गुरुतां परामागता दृश्यन्ते । तथाहि-प्राणिविशेषास्थिशकलमपि मुख्यः पावनानां शङ्खः । भुजङ्गकुलसङ्गदूषितमपि वन्द्य चन्दनम् । प्राकृतजनगृहीतदण्डमपि छायार्थिभिरुत्तमाङ्गोपरिस्थं धार्यते छत्रम् ।
असकृदासादितकलङ्कोऽपि हरिणाङ्कधवलस्य यशसो भाजनं करवालः । तिर्यमलोऽपि 5 गोमयो हरितः श्लाध्यः । किं च वर्ण्यते ? क्षीरजलधिगर्भसंभवा द्वितीया कामधेनुस्त्वं,
सुरद्रुमसहवासिनी जङ्गमा कल्पलता, चक्रवर्तिचक्रकृतार्चना चेतनश्चिन्तामणिः । किं न प्रयच्छसि प्रसन्ना प्रणयिनां, किं वा न विदधासि कल्याणमाराध्यमानाऽनुजीविनाम् ? यद्यपि त्वया कथञ्चिदुपजातकृपया मनोरथानामप्यपथभूताः सकललोकहृदयहारिणः सु
प्रसादसदृशाः पृथक्पृथग्दर्शिताः समृद्धिविशेषाः, तथाप्येतेषु नास्ति मेऽभिलाषः । अमुनैव 10 पूर्वपुरुषप्रभावोपार्जितेन विभवलेशेन कृतार्थोऽहम् । न मे प्रयोजनं दिव्यजनोचितैरुप
भोगैः । अथ येन केनचित् प्रकारेणानुग्राह्योऽयं जनो, ग्राहयितव्यश्च कमप्यभिप्रेतमर्थ, तदलमन्येन । इदमेव प्रार्थिताऽसि-यथाहमेषामशेषभुवनवन्दितावदातचरितानां चतुरुदधिवेलावधिवसुन्धराभुजामखिलदिङमुखविसर्पितोदग्रप्रतापतया तुलितनिजवंशादिपुरुषादित्य
यशसामिक्ष्वाकुवंश्यानामवनीभृतां पश्चिमो न भवाभि, यथा च देवी मदिरावती जगदे. 15 कवीरात्मजप्रसविनीनामस्मत्पूर्वपुरुषमहिषीणां महिमानमनुविधत्ते, तथा विधेहि' । इत्य
भिधाय लज्जया किश्चिदवनतमुखोऽभवत् । देव्यपि श्रीरीषवनमितवदनतामरसाऽस्य वचसो विचिन्वती तात्पर्यमुज्झितापाङ्गनिस्तरङ्गतारकेण चक्षुषा क्षणमात्रमतिष्ठत् । मुहूर्ताच्च किश्चिदुन्नमितवदना शरज्ज्योत्स्नाविशदेन दशनांशुजालकेन स्वमनसः प्रसाद
मिव दर्शयन्ती मन्दं मन्दं विजहास । व्याजहार च,-'नरेन्द्र ! निजगोत्रसंततेरवि20 च्छेदाय मदिरावत्याः पुत्रमिच्छसीति निश्चितं मया । केवलमिदं पृच्छामि-किमेष
वक्रया वचनभङ्ग था युक्तिगम्यः कृतोऽर्थः १ "पुत्रं देहि मदिरावत्या” इति व्यक्तमेव किं नोक्तम् ? “ अन्यथोक्ते कुतोऽपि वृत्तान्तमुपलभ्य समुपजातेाः कदर्थयिष्यत्ति मामन्या अपि प्रणयिन्यः” इति कच्चिदाशङ्का ? न कश्चिदत्रास्ति दुर्जनः प्रतिपक्षो वा तवास्मत्प. रिजने, यस्तासां निवेदयिष्यति । एको महोदरः प्रयत्नेन रक्षणीयः । तेन त्वीदृशेष्वति25 निपुणदृष्टिना गोपितोऽपि गाढमवगाढस्त्वदीयालापस्य तात्पर्यार्थः । कथयिष्यति च केनापि
प्रकारेण निष्कारणापकारी नियतमेष जाल्मः । प्रकृतिकेलिप्रियतया कोपयिष्यति च ताः। काममेवं च बुद्धिकौशलेन रक्षितमपि बलात् तवागतं व्यसनमप्रतिविधेयम् ।' इत्युक्त्वा विरराम ॥
२८) क्षितीशोऽपि तेन प्रसादातिशयशंसिना श्रियः परिहासवादेन द्विगुणतरो30 पजातसंमदः स्मित्वाऽमन्दमवदत्-' देवि ! प्राञ्जलोक्त्या कृतं प्रार्थनमतिव्रीडाकरमिति
मन्यमानेन मया प्रयुक्तेयमीहशी वचनयुक्तिर्न तु भयेन । त्वया हि प्रसादपरया संप्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org