________________
तिलकमारी
चक्षुषः क्षरता क्षीरधवलेनांशुविसरेण सुधारसेनेवाप्याययन्ती हिमजलेनेव स्नापयन्ती मलयजाङ्गरागेणेव लिम्पन्ती मालतीमुकुलदामभिरिवाच्छादयन्ती मूर्छागमविलुप्तसंज्ञ राज्ञो वपुः पुनरवादीत्-'नरेन्द्र ! बाढमविदितमत्स्वरूपोऽसि, तेनैवं वदसि । सर्वदा सौम्यपरिजनपरिवाराहम् । न मे नक्तश्चराः संनिधावपि चरन्ति, दूरे भृत्यत्वम् । य एष विकृतवेषाकारधारी वेतालबुद्ध्याऽध्यवसितस्त्वया, नायं यातुधानः । प्रधानभूतो 5 मत्प्रतीहाराणां महोदरो नाम यक्ष एषः। परीक्षितुमनेन सत्त्वमप्रतीक्षितमदीयागतिना झगित्यागत्य सत्याभासमिदमनेकप्रकारमात्मीयया दिव्यशक्त्या विनिर्मितं मायाजालमखिलमपि ते प्रदर्शितम् । अतस्त्यज विषादम् । उत्सृज मृषागृहीतमिममात्मविग्रहस्य निग्रहविधावाग्रहम् । ब्रूहि चात्मनोऽभिलाषम् । अनेन तव सर्वातिशायिना सत्त्वेन साहसेन धैर्येण चित्तौदार्येण प्रज्ञाविशेषेण पूजाविशेषेण निःशेषितप्रमादनिर्मलेन च 10 व्रतचरणेन चन्द्रमण्डलमिव शिशिरात्ययेन, मानससरस्तोयमिवागस्त्योदयेन, सुकविकाव्यमिव सज्जनपरिग्रहेण, गगनतलमिव शरत्कालागमेन, सप्रसादमपि किमपि मे प्रसादितं हृदयम् । आचश्व कार्य, विचक्षण ! किमद्य ते संपादयामि ? किं तावन्मदनुभावासादितदिव्यशक्तिः प्रत्यहमितो गत्वा गृहीतविकटप्रसाधनशुद्धान्तवनितावृन्दपरिवृतः कनकगिरिकन्दरप्रभानुलिप्तपादपेषु कल्पतरुतलनिषण्णकिन्नरारब्धगान्धारग्रामगीतिरमणीयेष्वित- 15 स्ततःप्रवृत्तमुखरमन्दाकिनीस्रोतःसरणिसिच्यमानबालपारिजातालवालकेषु सविभ्रमभ्राम्यदभ्रमूकलभकरावभज्यमानसंतानकसरसपल्लवेषु हरिचन्दनलतागृहोदरप्रसुप्तसुरतखिन्नसुरवनिता. भिनन्द्यमानमन्दानिलानीतशीतलसुधाकुण्डशीकरेषु नन्दनवनाभ्यन्तरेषु सविस्मयत्रिदशपालिकावलोकितः क्रीडासुखमनुभवसि ? अथाधुनवाधिगतविद्याधरेन्द्रभावः संकल्पानन्तरोपनतमनल्पवातायनसहस्रालंकृतममलचीनांशुकवितानलम्बमानमुग्धमौक्तिकपालम्बमनिल- 20 दोलायमानद्वारवन्दनमालाप्रवालमुपहारकुसुमसौरभान्धमधुकरझङ्कारमुखरमणिकुट्टिमं विमानमधिरुह्य विदग्धवल्लभाप्तसुहृत्कदम्बकानुयातो विलोकयन् विविधान्याश्चर्याणि सशैलद्वीपकाननामुदधिमर्यादा मेदिनी पर्यटसि । अथ मदीयप्रार्थनामुदितपुरन्दरानुमादितेन भरतमुनिना स्वयमागत्य सूत्रिममनाहतध्वनन्मेघमुरजमनोहरमेकदेशोपविष्टतुम्बुरुताड्यमानवीणारणद्गान्धारग्राममागृही वेणुकिन्नरगणोपगीयमानविबुधसद्मप्रसिद्धमूर्च्छनमुद्विलासरम्भाभिनीयमानरघु- 25 पुरःसरादिभूपालचरितमुन्नतप्रासादशिखरचन्द्रशालारचितरङ्गभूमिरवसरेषु द्रष्टुमागतानामष्टादशद्वीपमेदिनीपतीनां दर्शयसि दिव्यं प्रेक्षाविधिम् । किं बहुना ? अन्यदपि यत् ते मनसि वर्तते तत् सर्वमावेदय, येनाचिरात् संपादयामि ।' इति वादिनीमेव तां नरपतिरुपजात. संमदः सप्रश्रयमवादीत्-'देवि ! सर्वमुपपन्नमेतत् । किं न संभाव्यते ? प्रणतसुरसहस्रमौलिविश्रान्तपादः पुरन्दरोऽपि देवस्त्वत्प्रसादादासादयति सुरलोकराज्यसुखानि, वासुकिरपि 30 त्वयि सानुरागायामुरगकामिनीचामरकलापोपवीज्यमानतनुः पालयति पातालनगराणि । कुबेरोऽपि त्वत्संनिधानान्निधीनां नाथो जातः । सागरोऽपि त्वयि संभूतायां रत्नाकरत्वमुप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org