________________
तिलकमबरी
तत्र प्रसन्नधवलायतामायुधार्चिचिषयेव विकवविचकिलस्रग्बन्धुरां बबन्ध दृष्टिम् । आबद्धपरिकरश्च कृत्वा देवतायाः प्रणाममूलधृतनिष्कम्पजङ्घन वामांहिणा तिर्यगाव जितेन च दक्षिणजानुपर्वणा सगर्वमास्फालितमणिकुट्टिमः शिर कपालप्रपलायनशङ्कयेव वामकरपल्लवेन कवलितोवंबद्धमूर्धजकलापस्त कृतान्तकोपानलधूमदण्डानुकारिण कृपाणमुज्झितकृपः स्कन्धपीठे न्यपातयत् ॥
२५) अथ भीमकर्मावलोकनोद्भूतभीतिभिरिव स्थायिभिरपि शोकभयजुगुप्साप्रभृतिभिः परित्यक्तधीः, असाधारणधैर्यदर्शनादाहितबीडैरिव सात्त्विकैरपि स्वेवैवर्ण्यवेपथुस्तम्भादिभिरपारतसंनिधिः, अव्याजसाहसावर्जितमनोवृत्तिभिरिव व्यभिचारिनिरप्यमर्षमदहर्षगर्वाग्रतापुरःसरैरालिङ्गितः सर्वाङ्गेषु भावैः, वागेन विभ्रमदोलायमानविततेन्द्रनीलकुण्डलेन कठिनकण्ठास्थिदलनकुण्ठितकरालधार करवालमिव शाणया निशातु कृतक्षणेन, 10 दक्षिणेन चावतंसितविततदेवतानिर्माल्यपलवेन घनशिर वलिपण्डखण्डनध्वनि श्रोतुम वितृप्त्या सहायी जापरवगेनेव श्रवणेनोद्भासमानः, विसर्पदतिवह लखड्गप्रभानुलेपश्यामलितविग्रहराया प्रत्येकमेकावलीमौक्तिकादर्शदश्यमानप्रतिमागतोत्तमाङ्गतया च प्रणत्यनादर कुपितपार्वतीप्रसादनार्थमुपक्रान्तद्वितीयकण्ठच्छेद इव रावणः, तत्क्षणमधत्त रमणीयभीषण रूपम् । अर्धावकृत्तकन्धरे च शिरसि सहसैवास्य केनापि धृत इव स्तम्भित इव नियन्त्रित 15 इवाक्रान्त इव नाल्पमपि चलितुमक्षमत दक्षिणो बाहुः । अतितीक्ष्णधारोऽपि कुण्ठीभूत इव कठिनास्थिकोटिसंदंशदष्ट इव रत्यानलोहितपङ्कलग्न इव निरायतशिरातन्तुसंयत इव प्रततस्नायुपाशपंदानित इव मन्दमपि पूर्धच्छेदतः परेण प्रसत्तुं न शशाक निस्विशः । किमेतदिति संजातविस्मयश्च नृपतिः स्तम्भनिश्चलाङ्गुलीगाढगृहीतत्सम मत्सरादिवानिच्छतो मोक्तुमाच्छिद्य दक्षिणकरादितरेण पाणिना कृपाण जग्राह । करविमुक्तमौलि- 20 बन्धनिरालम्बकन्धरे च छेदमार्गमिव सुखच्छेदाय विकटावकाश कर्तुमधोमुखमवनते शिरसि निर्दय व्यापारयितुमाहितप्रयत्नस्तत्कालमुल्लसितेन मन्दीकृताखिलेन्द्रियशक्तिना मूर्छागमेन विरलविलुप्तसंज्ञः स्वप्न इवाकालजलधरध्वनिक्षुभितराजहंसीकुलकोलाहलध्वनिकलमविश्रान्तसंततिना रत्नवल यावलीशिञ्जितेन व्यञ्जितोत्तालकरतलावधूननमतिश्रव्यतया सुधारसेनेव श्रवणविवरमाध्मापयन्तमश्रुतपूर्वममरसुन्दरीजनस्य हाहारवमशृणोत् ॥ 25
२६) तदनुसारप्रहितदृष्टिश्चाग्रतो नातिनिकटे झगिति दत्तदर्शनाम् ; आक्रान्तदशदिशा शङ्खधवलेन देहप्रभाप्रवाहेण क्षीरसागरगतामिव विभाव्यमानां; विततदलसहस्रफणावलयशोभिनि पृथुलदीर्घनालभोगे शेषभुजग इव मेदिनीमिन्दुकरपाण्डुरत्विषि पुण्डरीके कृतावस्थानाम् ; अब्जिनीषण्डसंचरणसंक्रान्तकमलधर्ममिव सुकुमारारुणं चरणद्वितयमुद्रहन्तीम् ; अस्थूललघुनापि पीवरोरुणा जमानां जङ्घाद्वितयेन ; विततमेखलागुणपिनद्धमच्छ- 30 धवलं दिव्यदुकूलमम्बुजवनप्रीत्या पद्मिनीनालसूत्रेणेव कारितमलधुना जघनमण्डलेनोद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org