SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ कविधनपालकता त्मभुजविक्रमोपक्रीतमामिषमाहारः, तस्य चिन्तय प्राप्त्युपायम् । किमनेन कर्णोद्वेगजनकेन द्विजस्येव मदिरास्थादसौन्दर्यकथनेन भक्ष्येतरवस्तुतत्त्वप्रकाशनेन । यदि वान्ये ऽपि बहवः क्षुद्रसाधकाः संप्रति खलीकर्तुमुद्यताः स्वामिनी, तड़ीयदेहावयवेष्वेव सिद्धा तत्प्राप्तिः । आस्स्व तावन्निराकुलः । केवल' याचे किञ्चन । त्वया हि बहवः कृताः संग्रामा, हताश्च 5 संख्यातीताः क्षत्रियक्षोणीपतयः । तत्र येन कदाचिदपि नानुभूतो भङ्गः संगरेषु, न दर्शित वैमुख्यमर्थिजनप्रार्थनासु, न कृतः प्रणामः प्राणसंशयेऽपि शत्रोः, तस्य भुवनत्रयश्लाधनीयचरितस्य नरपतेः प्रकृत्यैव पावनमतिप्रशस्तललितललाटलेखाक्षरमरूक्षच्छविच्छत्रसहशाकारमर्पय मे कपालकपर प्रत्यग्रमेकम् , यदपवर्जितैरसृग्भिः पुण्यासु कृष्ण चतुर्दशीषु दुर्विनीत क्षत्रियनरेन्द्रनिहतस्य जनयितुर्जामदग्न्यमुनिश्वि मुहुर्मुहुः करोमि तर्पणम् ।' इति ब्रुवाण 10 च किञ्चिद् विहस्य पुनरुवाच नक्तञ्चर नृपतिः-'प्रेतनाथ ! नान्यथोदित भवता । तथ्यमेवेदम् । कृताः शतकृत्वो मया संग्रामाः । हताश्च संख्यातीताः क्षत्रियक्षोणीपतयः । किं त्वनेकराजकार्यव्यापृततया कदाचिदकुर्वता दिव्यकार्यपर्यालोचनम् , अतीन्द्रियज्ञानविकलतया स्वयमनावेदितमजानता परेषां हृदयगतमर्थन , अशृण्वता च युष्मद्विधानामत्र विषये कुतश्चिदप्यर्थित्वमुद्यम च धर्मक्रियाकल्पविषयम् , अल्पमपि न कृतस्तत्कपालानां 15 संग्रहः । तद्यदि नातिमात्रमवसीदति पितृप्रयोजनम् , अनभ्यर्णवर्ती वा पूर्वसूचितः पुण्यदिवसः, तत् प्रतीक्षस्य कतिचिदिनानि, यावत् क्वचित् तदवाप्तिर्भवति । अथ न सह्यः कालातिपातः, तदिदमेव मे स्वीकुरु शिरः । केवल विलोकय, चिर विचारय च चेतसा । यदि संभवन्ति कतिचिदिह पूर्वसूनिता गुणाः, प्रीयते वा चक्षुरुत्तमाङ्गलक्षणविधिविचक्षणस्व, तन्न किश्चिन्यान्वेषणेन ।' स पुनरब्रवीत्-'नृपवरिष्ठ ! सुप्लु 20 शुभलक्षणम् । किं विलोक्यते ? किं वा विचार्यतेऽस्य जात्यस्येव जातरूपस्य रूपशोभा सौभाग्यम् ? भाग्यवानह यस्य प्रार्थनामन्तरेण समुपस्थितमिदम् ।' इति व्याहृत्य वामकरतलवर्तिनः कपालस्य कर्णवतौं निर्दयावृत्तिकषणप्रकीर्णवनिस्फारविस्फुरस्फुलिङ्गवातामुत्पातमेघलेखामिव विमुक्तधनरुधिरबिन्दुवर्षाममर्षवक्रीकृतकृतान्तभ्रकोटिविकराला कालायस कर्तिकां निजघर्ष, हर्षोत्तालकृततुमु लकिलिकिलारवश्व साटोपमेत्य विकट पातिभिः पदैरनति25 निकटमवनमितपूर्वकायः प्रकोष्ठचलितपन्नगप्रतिसरेण समुपनिन्ये सव्येतरकरेण । क्षोणीपति रप्यजातसंक्षोभः स्तिमित बद्धलक्षेण चक्षुषा चिरमवेक्ष्य तां सधीरमुवाच-'क्षपाचरेन्द्र ! दिव्यमायुधमिदं नार्हति करस्पर्शमस्मद्विधानाम् । विधानेन महता धार्यमेतन्न यथाकथ. श्चित् । अतस्तिष्ठतु तवैव हस्ते । त्वत्प्रयोजनमसावेव मे सर्वदा सविधवर्ती निवर्तयिष्यति निसर्गनिष्कृपः कृपाणः ।' इति वदन्नेव सविधवर्तिनः कुशस्रस्तरस्य शिरसि तत्क्षणमेव 30 निक्षिप्तमाक्षेपदूरविक्षिप्ताक्षवलयेन दक्षिणपाणिना जग्राह कृपाणम् । आमेचकांशुमिषविमुक्त पटुविषच्छटाभीषण' च विचकर्ष संकर्षणानुज इव कलिन्दतनयातरङ्गात् कालियमिन्द्रनीलखण्डखचिताच्चमकोशात् । निष्ठुरकरागुष्ठतर्जनीकोटिमार्जितातितीक्ष्णलक्षणधारे च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy