________________
तिलकमञ्जरी
हासेन जनितमतिमहत् कुतूहल में । कथय किमेतदसमस हस्यते' | स जगाद -- ' राजन् ! न किञ्चिदन्यत् । त्वदीयमेव चेष्टितत् । त्वया हि फलमभिलष्य किञ्चिदिय मरमत्स्वामिनी श्रीरनुदिवसमा सेवितुगुपकान्ता । सेवकाञ्च फलप्राप्तिकामाः प्रथममुपचारेण गृहीतवाक्यं परिग्रहलेोकमावर्जयन्ति । गतस्तेन कृतपक्षपरिग्रहेण ग्राहितसम्बन्धाः प्रभूणामसक्तमात्मभक्तिमुपदरीयन्ति । एष तावज्जगति दृश्यते व्यव हारः । त्वया तु विपरीतः प्रस्तुतोऽयं सेवाविधिः । तथाहि - स्नपनवस्त्रमाल्यानुलेपनालङ्कारादिभिः सततमेनां देवतामुपचरसि । यस्तु प्रणयपत्रमस्याः सर्वा सविधवर्ती, कार्यकर्ता जनोऽयं, सर्वपरिजनप्राग्रहरस्तमाहारदानमा त्रयाऽपि नामन्त्रयसे । मित्रीकृते हि मयि साधकानामभीष्टसिद्धिः । किमि यमैश्वर्यमदनिश्चेतना वितन्यमानमतिमहान्तमपि त्वया पूजोपचार पश्यति ? दृष्ट्वा च किं प्रकृतिचञ्चला चेतस्यवधारयति ? 10 कृतावधारणाय किमेकान्ततो वीरपुरुषसाहसाक्षिप्तहृदया पक्षपात गृह्णाति १ गृहीतपक्षपातापि किमवज्ञया विपक्षीकृतेन मया कृतप्रतिबन्धा बध्नाति वरप्रदानाय बुद्धिम् १ तदलमबुद्धिपूर्वकेग बुधजनहासकारिणा निरखविकेश कफलेन फल्गुनानेन सेवाप्रकारेण | यदि स्फुटमेव फलमुत्कृष्टमीप्ससि, लिप्स से वा विघ्नविरहितं जपध्यानादिकर्म, काम्यसे वा मनःप्रसादयितुमचिरेण देव्याः, तस्मादुपचारपूर्वमद्यप्रभृति सर्वमुपकल्पय क्रियाकल्पम्, अन्यथा वृथा क्लेशो भविष्यति तवैष सेवावेश : ' । इति वादिनस्तस्य वचनमनुवर्तमानो मेदिनीपतिर्विहस्य किञ्चित्सोपहासमवदत् - 'सर्वमुपपन्नमभिहितम् । उपदिष्टमक्लिष्टया युक्त्या | प्रबोधिता वयम् । यथा निदर्शितः सूक्ष्मदर्शिना तथैवैप सेवामार्गः । परि ग्रहने संनिधौ सति कोऽविकार: प्रभूणामयपूजायाम् ? महती सूटता । गाढमविवेकविलसितम् । अप्रतिविधेया वैधेयतेयम्, यस्माभिः सर्वसेव्यगुणसंपदुपेतं भवन्तमपहाय 20 प्रमादादिदोषोपहत चित्तवृत्तिभिरियमग्रत एव देवता सेवितुमुपक्रान्ता, कृतश्च पूजाविधेरकरणेन कियानप्यबहुमानः । अथवा जन्मनः प्रभृत्यकृत पर सेवानामत्र लवमात्रोऽपि नास्माक दोषः । तवैव प्रमत्तताऽसौ यज्ज्ञानतापि नीतिमार्गमादित एवं नोपदिष्टास्मभ्यमेष क्रमः । किमिदानीं कुर्मः ? प्रस्तुतमिदं कर्म । कृतश्च निश्चलो मनसि संकल्पः । यावन्नैप १ परिसमाप्तः कल्पस्तावदल्पाप्यनुवृत्तिरुपचारो वा न कस्यचिदैवतस्य विवक्षितफलापेक्षया 25 कर्तव्योऽस्माभिः । अवधार्य चेद' धीमता न कार्यः प्रस्तुतेऽस्मिन्नस्मत्कर्मणि कार्यसिद्धिविषयो विचारः, नापि कतिचिद्दिनानि प्रार्थनीयः पूजोपचारः । यदि चाभ्यवहारेण प्रयोजन पूज्यस्य, ततः सज्जा वयं तदुपपादनाय । गृह्यतामयमुपयुज्यतां च विविक्तमस्यैव देवतागृहस्य स्पृहणीयतममाश्रित्य कोणमेकमखिलोऽप्येष देव्या विशेषपूजार्थमाहृतोऽद्य
२९
Jain Education International
For Private & Personal Use Only
5
फलमूलोपर्दशो दृष्टमात्रः क्षुदुपबृंहणो मोदकादिः प्रभूतभक्ष्यचलि:' । इत्युक्तवति 30 भूपे भूयोऽप्यसौ सहासमवदत् - 'नरेन्द्र ! न वय' पक्षिणो, न पशवो न मनुष्याः । कथ' फलानि मूलान्यन्न चाहरामः ? क्षपाचराः खलु वयम् । व्याघ्राणामिवास्माकमा
15
www.jainelibrary.org