________________
कविधनपालकता
भावयता “दिव्यदर्शनममोघम्” इति घोषणां जनस्य किञ्चिच्चरितार्था चिकीर्षता क्षणमात्रपरिचितमात्मानमीषदनुस्मरणविषयतां नेतुमभिलषता प्रीतिप्रगुणितस्य चात्मनस्तरलतां तिरोधातुमक्षमेणायमुपनीयते, न पुनरुपकाराय पीतये वा । सर्वस्वदानेनापि देहिनामुपकुर्वतः परेण
प्रार्थितां पृथिवीमपि तृणगणनया परित्यजतः किं तद्वस्तु यत्प्रदानेन प्रीतिरुपकारो वा 5 भविष्यति भवतः १ सर्वथा दत्तोऽयं मया। “ विपत्प्रतीकारासमर्थः क्षीणायुषोऽस्य भिषगिव कथमृक्थमाहरामि १ अलङ्कारः क्षत्रियकुलस्य याचकद्विज इव कथ प्रतिग्रहमङ्गीकरोमि ? गृहाभ्यागतेनामुना दीयमानं दुर्गतगृहस्थ इव गृह्णन्नपर लघिमानमासादयिध्यामि । सुरैरपि कृतस्तुतिराभरणखण्डस्य कृते कर प्रसारयन्नस्यैव वैमानिकस्योपहास्यता
यास्यामि ।" इत्यनेकविकल्पविप्रलब्धमनसा त्वया मनस्विनां वरेण त्रिदशनाथेऽपि भगवति 10 कदाचिदकृत पण प्रभङ्गस्य मे न कार्यः प्रथमप्रार्थनाभङ्गः । ग्रहीतव्यो निर्विचारेण, यस्मादु
परोधभीरुत्वादगृह्यमाणोऽपि भवता दूरीभूत एवेष मे स्वर्गच्युतस्य । गृहीतस्तु कदाचिन्मनुष्यलोके लब्धजन्मनः पुनरानन्दयति दृष्टिम् । इष्टतमदर्शनं चैनममरलोकाच्युता कालक्रमेण देव्यपि मे प्रियङ्गुसुन्दरी कदाचिदालोकयति । दर्शनाभ्यासजातपूर्वजातिस्मृतिश्च
स्मरति रतिकराण्यसकृन्मया सहोपभुक्तानि स्वर्गवासक्रीडासुखानि । विरहदुःखदत्तोद्वेगा 15 च प्रवर्तते यथाशक्ति कुशलावाप्तिसाधके कर्मणि । एवं च तस्या अप्युपकृतं भवति ।
सम्भवन्ति च भवार्णवे विविधकर्मवशवर्तिनां जन्तूनामनेकशो जन्मान्तरजातसम्बन्धैर्बन्धुभिः सहदभिरर्थश्च नानाविधैः सार्धमबाधिताः पुनस्ते सम्बन्धाः, स्मरणानि चात्यन्तविरमयकराणि पूर्वजातेः । अतो नायमालापो मोहप्रलाप इति मे समर्थनीयः, कदर्थ नीयश्च पुनरह
प्रार्थना मङ्गन्यसम्पादनेन ।' इत्युदीर्य कण्ठावतार्य, किञ्चि वनतेक्षणो दक्षिणकरेण लग्न26 धवलनख किरणमालम् , उपस्थितनिरवसानसुरलोकविरहव्यथाविदीर्णहृदयोद्गीर्णगर्भामृतच्छ
टासारमिव हारमुपनिन्ये । नरेन्द्रोऽपि तेन चर्मचक्षुषामगोचरेण तस्य साक्षान्निज दिव्यरूपाविष्करणेन, तेन स्मितोद्धेःपूर्वेण वक्षसि रचितकोमलकराञ्जलिना प्रथमाभिभाषणेन, तेन सुरपतिप्रशंसाप्रकाशनपुरःसरेण विस्तरवता स्ववृत्तान्तकथनेन, तेन च दूरपरिहत
दिव्यतावलेपस्पृहणीयेन प्रतिग्राहणाय भूयोभूयः कृतेन प्रणयप्रार्थनेन, दूरमावर्जितमनाः 25 प्रकृतिनिःस्पृहोऽपि परोपचारेष्वतिस्पृहयालुरिव सत्वरमुपसृतः प्रसार्य करयुगलमप्रतस्तं जग्राह । देवोऽप्यसावलक्षितगतिस्तरिमन्नेव क्षणे झगित्यदर्शनमगमत् ॥
२२) तिरोभूते च तस्मिन्नुपजातविस्मयो नरपतिनिरीक्ष्य चक्षुषा निश्चलेन तं हारमुत्तरीयाञ्चलैकदेशे बबन्ध । प्रविश्य च शक्रावतारायतनमध्यमाराध्य भगवन्तमतिचिर
मादिदेवमागन्य निजसनमुपपाद्य भक्त्यतिशयेन श्रियः सायंतनी सपर्यामभिमुखीभूय 20 तन्मुखे निहितनिश्चललोचनो निषसाद । निजगाइ च-'भगवति ! त्वच्चरणारविन्दसेवानु
भावोऽयं, यदस्मादृशामपि मनुष्यमात्राणामशेषत्रिभुवनमाननीया वासवसमानौजसो वैमानिकाः सनिधिमभिलषन्ति, योगिज्ञानगोचर' चात्मनो रूपमध्यक्षविषयीकुर्वन्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org