________________
तिलकमलरी
२५
समासन्नीभूतमुर्वशीप्रमुखसुरवधूमुखारविन्दादर्शनम् । अदृश्यतां गतास्त्रिदशपतिसदसि हृदय दस्यवो रम्भालारयकरणप्रयोगाः। विप्रयोगोन्मुखं तुम्बुरुमुखेन श्रवण-न्ध्रमधुरगान्धारग्राममूर्छनाश्रवणम् । उच्छन्नकल्पा कल्पतरुलताछन्नेषु नाकमन्दाकिनीकच्छेषु स्वेच्छाविहारक्रीडा । क्रोडीकृतं मनुष्यलोकावतारस्मरणपीडया निबिडमन्तःकरणम् । आकारितदुःखसंहतिरभिमुर्खाभूता सपरिजनेव गर्भवासनरकगतिः' ।
२१) · ईदृशे च सर्वतःसमुपस्थितातिदुनिवारव्यसनजाते सर्वतोमुखप्रसृतदुर्विषहशोकसंततौ संतापकारिणि कातराणां, वैक्लव्यदायिनि क्लीवानाम् , उपजनितसंसारसुखवैमुख्ये विवेकनाम् , उदीरितपरोपकारबुद्धावुदारचेतसाम्, अतिदारुणदशापाके, कथश्चिदुपजातसंगमस्थ सुरपतिप्रशंसाश्रवणदिवसादारभ्य प्रतिदिवसममिलपितदर्शनप्राप्तेराकारदर्शनेनैव प्रशमितसकलह दयोद्धगतमसो महात्मनः सर्वात्मना प्रियं कर्तुमन्तःकरणमुत्सहते 10 मीयम् । मन्दायते च, त्रिभुवनातिशायिसत्त्वमलुब्धतां च तावकी प्रागुपश्नुतां विचिन्त्य, प्रत्याख्यानलाघवमुत्प्रेक्षमाणम् । अतो न शक्नोमि सर्वथैवोपचारक्रियापराङ्मुखो भक्तुिं, नापि यथाभिमतवस्तुप्रार्थनाविषयेणाभ्यर्थनेन कादशितुम् । केवलमवलम्व्य मध्यगं पन्थानमुपरचयामितेऽञ्जलिम् । अनुगृहाण माम् । गृहाणेमं मनःपरितोषाय मे, नृपचन्द्र ! चन्द्रातपाभिधानं प्रधानमखिलानामपि स्वर्गभूषणानामासत्तिमात्रेणापि कृतसकलदुरितापहार हारम् । एष 15 किल पीयूषदानकृतार्थीकृतसकलार्थिसुरसार्थेन मथनविरतावब्धिना क्षीरोदेन प्रयत्नरक्षितात् प्रधानरत्नकोशादमृतसंभवशुक्तिगर्भप्रभवाण्यतिप्रभावन्ति परिणतामलकीफलस्थूलनिःतलानि मुक्ताफलान्यादाय कौतुकेन स्वयं प्रश्रितः । कृतश्च स्वयंवरोत्सवानन्तरमसुरारिमन्दिरमाश्रयन्याः श्रियो मन्युगद्गदकण्ठेन कण्ठकाण्डमण्डनम् । देव्यापि कमलया कामकेलिक्लान्तिहारी हरेरिति धृतो धृतिमत्या महान्तं कालम् । उपनीतश्च जन्मनि कुमारजयन्तस्य ज्येष्ठ- 20 जायेति जातपुलकया पुलोम दुहितुः । तथापि परिरम्भविभ्रमेषु निबिडपीडिताखण्टलोरसः सुरगजकुम्नपीठपृथुनो निजस्तनमण्डनस्य कृत्वातिदीर्घकालं मण्डनमर्पितः सीप्रेमहतहृदयया मत्प्रियायाः प्रियगुसुन्दाः । कण्ठदेशे तयाऽर तिशयितसिताश्मिशोचिपमस्य शुचितागुणं शचीप्रसाद च बहु मन्यमानया मुक्त्वाऽन्यानि कन्धराभरणानि धारितः सुचिरम् । अद्य तु क्वापि धर्ये कर्मणि नियुज्य तामागच्छता मया विरहविनोदार्थमारोप्य कण्ठे 25 सुहृदर्शनोत्कण्ठितेनानीतः। तदेप संप्रति स्वभावधवलरुचिः कालच्छायाकवलितमरुच्येव मोक्तुकामो माम् अवाप्य कथमपि पुण्यपरिण-या प्राज्यया संयोजितं त्वां मुक्तामयवपुषमशेपतो मुक्तामयः त्रासविरहितमपेतत्रासः, स्वच्छाशयमतिस्वच्छो,गुणवन्तमतिशयोज्ज्वल. गुणः,प्राप्नोतु सःशवस्तुसंयोगजां प्रीतिम् । अस्य हि परित्यक्तसुरलोकवासस्य दूरीभूतदुग्धसागरोदरस्थितेस्त्वद्वसतिरेय स्थानम् । न हि त्र्यम्बकजटाकलापमन्तरिक्ष वा विहाय 30 क्षीणोऽपि हरिणलक्ष्मा क्षितौ पद बध्नाति । मयाऽप्यनन्ययोग्योपभोगां भव्यतामस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org