________________
२४
कविधनपालकृता यानां महापुष्करिणीनामुपान्तवर्तिषु विचित्रतरुकाननेषु कान्तासखः क्रीडासुखमनुभवति' ।।
१९) 'अस्ति च द्वीपे तत्र दीपभूता मर्त्यलोकस्य मणिमयमहाप्रासादशतशालिनी विततकाञ्चनशिलाशालवलया जिनायतनयात्रासु त्रिशलोकादुपागतानाममरमिथुनानां निवासस्थानमपरेवामरावती परमरग्या रतिविशाला नाम तस्य नगरी । सा चाद्य प्रातरेव 5 कौतुकादितस्ततो विचरभिरनुचरैर्मदीयैस्तीयसंनिधावप्यनाथेवोद्वसितेव प्रनष्टसकलपूर्व
शोभा, भूतैरिवाधिष्ठिता, कृतान्तदूतैरिव कटाक्षिता, कलिकालेनेव कवलिता, समग्रपापग्रहपीडाभिरिव क्रोडीकृता, सर्वतोविज़म्भिताविच्छिन्नमलिनच्छाया, चिन्ताविसंस्थुलगृहस्थगीर्वाणपरिहृतसर्वनिनिजव्यापारा, गलितगर्वगन्धर्वशिथिलितगीतगोष्ठीस्वरविचारा, विषण्ण
साध्यपरिपदा, विखिन्नसिद्धनिषिध्यमानगानोन्मुखमुखरकिंनरकुला, पानकेलिनिरपेक्षयक्ष10 शून्यीकृतोपवनतरुपण्डलतामण्डपा, नष्टहर्ष किंपुरुपनिर्भय॑मानपरिरम्भणायातवल्लभतरुणी
गणा, रणरणकगृहीतगृहदेवता, धनदेवतासदुःखदृश्यमानतत्क्षणम्लानकल्पपादपा, संतापविधुरविषधरवधूसततप्राय॑मानचन्दनलतागृहावस्थाना, स्थानस्थानपूज्यमानरिवन्नसिद्धायतनदेवताप्रतिमा, प्रतिमन्दिरमाकर्ण्यमानश्रवणदुष्टहाकष्टशब्दा दृष्टा । मन्दिरमपि तदीयमप्रवृत्तो
त्सवं धृतानुचितवेपनिापारनिःशेषकलत्र, चित्रशालास्वसंपाद्यमानहरिचन्दनपङ्कोपलेप, 15 मणिकुट्टिमेष्वक्रियमाणकनकपङ्कजोपहारक्षेप, द्वारतोरणरणरणायमानचण्डपवनेरितशुष्ककति
पयप्रवालवन्दनमालं, मृदङ्गपटहादिवाद्यध्वनिशून्यनिःशेषनाट्यशालम्, अश्रूयमाणचारणमिथुनमङ्गलोच्चारम् , अनाकर्ण्यमानकिंनरकन्यकावलकीझात्कारम् , अप्रमत्तविबुधयोधशतसंरक्ष्यमाणगोपुरप्राकारम् , असुरापहारभीतभव्याप्सरःपरिहतस्वेच्छाविहारम् , उद्यानवापीष्वनारभ्यमाणविभ्रममज्जनम् , उद्विग्नसकलपरिजनं दृष्टम् ।'
२०) ' इदं चारिष्टमतिकष्टमप्रतिविधेयं विधिवशात तत्रोपजात तस्य, तत्कलत्रस्य वा प्रधानस्य, अचिरकालभाविनं विनाशमवश्यतया निवेदयति । न हि येषु केषुचिदनोंपनिपातेषु कदाचिदपि दिव्यानामास्पदेषु संपद्यन्त ईदृशाः पदार्थानां प्रकृतिविपर्ययास्तन्निवासिनां च विबुधलोकानामन्तरत्यन्तशोकातङ्कशंसिनो हृदयायासाः । तेन च मया
तत्र गावा, द्रष्टव्योऽसौ कदाचिदप्यदृष्टदीर्घमद्विरहदुःखः सखा । सुखयितव्यः सर्वकाल25 मभिलषितमदर्शनो निजदर्शनेन । शमयितव्या दिव्यलोकच्यवनसुलभा, सर्वनावानां
विनश्वरस्वभावतावेदनेन हृदयेऽस्य दाहकारिण्यरतिवेदना । देयो दिव्यशक्तयनुरोधेन सुगतिसाधनेषु धर्मकार्येषु सविशेषमुपदेशः । ततस्तेन सह पूर्वानुभूतसुखदुःखवृत्तान्तकथाव्यतिकरण नी वा विभावरीमेतां विभातकाले कथमपि प्रार्थितपुनर्दशनेन पुनरपि
प्रतीप निवर्तितव्यम् । कर्तव्यं च किमपि कालोचितमकृतकालक्षेपेण ख्यातेः सुखस्य 30 चामुष्मिकम्य साधकं कुशलानुष्ठानम् । यतो ममापि निष्ठितप्रायमायुः । अल्पावशेषा
त्रिदशलोकस्थितिः। उपस्थितो दीर्घकालप्ररूढगाढप्रणथैर्नाकिभिः साकमात्यन्तिको विरहः ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org