________________
तिलकमञ्जरी
२३
१७) सोऽपि तथा समुपसृत्य तं पुरस्तादवस्थितमतिस्तिमितप्रगल्भस्निग्धदृष्टिः प्रकटितान्तःप्रीतिमाबद्धकरसंपुटमतिशयस्पृहणीयदेहावयवदर्शनानन्दनिःस्यन्दविकसितेन पुनरपि प्राक्तनी प्रकृतिमापन्नेनेव चक्षुपा सुचिरमुपजातप्रत्यभिज्ञानलव इव सत्वरोपसंहृतगतिराचरणयुगलादुत्तमानं यावदोलोकितवान् । आनीतकरसंपुटश्च हेमाद्रितट इव पृथुश्रीवृक्षलाञ्छिते वक्षसि स्तोकमुपदर्शितस्मितः प्रस्तुतपरीहास इव सलिलनिर्भराम्भोधरनिनादगम्भीरेण 5 स्वरेण मधुरमब्रवीत्-'नरेन्द्र ! सर्वदा शरीरसंनिहितैः प्रधानपुरुषैरिव प्रस्तावावेदिभिरपृष्टैरपि निवेदितोऽसि चक्रवर्तिलक्षणैः, स खलु भवान् मध्यमलोकपालो राजा मेघवाहनो, योऽस्माभिः पुरा देवासुरसमूहसंबाधे दिव्यसदसि विष्टपत्रयपतेः पुरो देवस्य पाकशासनस्य मर्त्यलोकवार्ता निवेदनाधिकारनियुक्तैः प्रधाननाकिभिरेवं जिगीषुः, एवं शूरः, एवं प्रजापालः, एवं त्यागशीलः, एवं धार्मिक इति बहुप्रकारमकुरितपुलकपक्ष्मलकपोलै- 10 रवनिपालकथाप्रक्रमे सुचिरमुपवर्ण्यमानः श्रुतोऽसि । सर्वथा नः कृतार्थ चक्षुरुपजातम् । फलितं च सद्यो देवतादर्शनसमुत्थ पुण्यजातमतर्कितोपनतेनामुना स्वावलोकनेन । गच्छामि सांप्रतम् । अनुजानीहि माम् । जानीहि च मदीयमपि लेशतो वृत्तान्तम् । अहं हि सौधर्मसुरलोकसद्मा ज्वलनप्रभाभिधानो वैमानिकः, संप्रत्येव नाकतः प्रस्थितो, गच्छन् पुरस्थितेन कियताऽपि परिजनेनानुगम्यमानो गगनपथेन, पथि विलोक्य लोकोत्तरं 15 देवतायतनमिदमि: मनस्यकरवम्-"हन्त ! स एष भगवानशेषजगन्नाभिर्नाभिकुलकरकुलालङ्कारः कारणं सकललोकव्यवहारसृष्टेः, द्रष्टा कालत्रितयवर्तिनां भावानाम् , उपदेष्टा चिरप्रनष्टस्य धर्मतत्त्वस्य, सर्वसत्त्वनिनिमित्तबन्धुः, सेतुबन्धः संसारसिन्धोः, आद्यो धर्मचक्रवर्तिनाम् , आराध्यश्चतुर्विधस्यापि सुरनिकायस्थ, नायकः समग्राणां गणधरकेवलिप्रमुखाणां महर्षीणामृषभनामा जिनवृषो, यस्य पुरा स्वामिना शक्रेण खयमनुष्ठितः 20 प्रतिष्ठाविधिः ।” अवधार्य चैतदधिकोपजातभक्तिः "आसतामिहेव मुहूर्तमेकं भवन्तः" इति निवर्त्य पृष्टानुपातिनः सुरपदातीनतिमात्रमुत्सुको गन्तुमङ्गमात्र एवागतः । दृष्टश्चषभगवानशेपकल्मषक्षयहेतुरादिदेवः ॥'
१८) ' इदानी गन्ताऽहमधिगतनि तिर्विलक्षण रामणीयकेन सकलद्वीपानामपारजलपरितान्तरिक्षेण सर्वतः कृतपरिक्षेपं नन्दीश्वरोदनाम्ना नदीनाथेन नन्दीश्वराभिधान 25 प्रधानद्वीपम् । तत्र मे परममित्रमेकान्ततः स्नेहमयो मयैव सदृशप्रभावर्धिरतिशयेन प्रसादपात्र वृत्रशत्रोरत्युदाररूपबलविभवशाली सुमाली नाम देवो देवलोकतः कौतुकाकृष्टमनसा स्वयम्प्रभाभिधानया देव्या दिव्य वनिताजनादुपश्रुतरम्यतातिशयां जिनायतन विंशतेः श्रियं द्रष्टुमानीतः, सांप्रतमतिशयितनन्दन द्रुमवनेषु नन्दीश्वरोदसागरोपान्तगिरिकटककाननेषु दधिमुखाभिधानमहाधराधरेन्द्रपोडशकपरिक्षेपणीनां जम्बूद्वीपप्रमाणपरिमण्डलाकृतीनां पुण्डेनु- 30 रसशिशिरसुरभिस्वच्छस्वादुसलिलकल्लोलास्फालितविशालमणिशिलासोपानपङ्क्तित्रितयरमणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org