________________
तिलकमञ्जरी
२७
प्रकटितसंभ्रमाश्च दृष्टिदानसंभषणादिना बहुमानेन महिमानमारोपयन्ति, एतच्च यद्ययनिमित्तबन्धुना परोपकारपराधीनमानसेन महात्मना तेन दिव्यपुरुषेण स्वाङ्गभूषणीकृतमाभरणमेक दत्त, तथापि त्वदीयमेतद्, अतो न मे शरीरस्पर्शमर्हति । दिव्या हि मूर्तयो भाजनं दिव्याभरणानाम् । तेन तावक एव परिवारलोके भवतु कस्यचित् । अनुभवतु वाऽदृष्टोदयान्मनुष्यलोकमागतमपि पुनस्त्रिदशलोकस्थितिसमुचित शोभातिशयम्' इत्यभि- 5 धाय त हाररत्न देवतायाश्चरणयोः पुरस्तादमुश्चत् ॥
२३) अत्रान्तरे नितान्तभीषणो विशेषजनितस्फातिरास्फालिताशातटै; प्रतिफलद्भिरतिपरिस्फुटैः प्रतिशब्दकैः शब्दमयमिवादधानस्त्रिभुवनमुभ्रान्तनयनतारकाकान्ति'कचुरीकृतदिम्भिराकर्णितः सभयमुभयकर्णदत्तहस्ताभिरायतनदेवताभिः कुलिशताडितकुलाचलशिखरसमकालनिपतद्गण्डशैलनिवहनादो रो हासध्वनिरुदलसत् । उपश्रुत्य च तमश्रुत- 10 पूर्वमुर्वीपतिरुपजातविस्मयः पस्पर्श चेतसा कियन्तमपि हास', न तु स्वल्पमात्रमपि संत्रासम् । अनुज्झितस्वभावावस्थितिश्च स्थित्वा मुहूर्तमुद्भूतकौतुकस्तदनुसारेण संचारयामास तिर्यग्वलिततारक चक्षुः । अद्राक्षीच्च दक्षिणेतरविभागे संनिहितमेव देवतायाः झगिति दत्तदर्शनम् ; निदर्शनमिवाशेषत्रिभुवनभीषणानाम्; अतिकृशप्रांशुविकरालकर्कशकायम्; अलिकुलकोमलेन प्रसस्ता समन्ततः कान्तिकालिम्ना कज्जलमयीमिव सशैलद्वीपकाननामुर्वी 15 कुर्वाणम् ; अनतिपुराणशुक्तिकाश्रेणिसितभामा हासदूरप्रकटिताया दन्तपङ्क्तेः प्रतिमयेव पुरः स्फुरन्त्या स्थूलपृथुलया नखपरम्परया प्रकाशितनिजप्रभातिमिरतिरोहितचरणयुगलाङ्गलिविभागम् ; आबद्धास्थिनूपुरेण स्थवीयसा चरणयुगलेन रासभप्रोथधूसर नखप्रभाविसरमनेकवातिकमण्डलभ्रमणलग्नं रक्षाभूतिरज इव दिक्षु विक्षिपन्तम् ; अक्षुद्रसरलशिरादण्डनिचितेन निश्चेतुमुच्छायमूर्ध्वलोकस्य संगृहीतानेकमानरज्जुनेवोपलक्ष्यमाणेन गगनसीमो- 20 ल्लङ्घिना जङ्घाद्वितयेन निरन्तरारूढविततत्रततिजालयमलतालशिखरनिषण्णमिव दृश्यमानम् ; उल्बणास्थिप्रन्थिना जानुयुगलेन क्षीणमांसेन च निकाममूरुकाण्डद्वयेन विश्राणितपरस्परगुणप्रकर्षम् ; अघृणाञ्चनादाननोद्वान्तगरेण जरदजगरेण गाढीकृतक्षतजक्वाथरक्ताशार्दूलचर्मसिचयम् ; अमृक्प्रवाहपाटलया वैतरणीसरित्सलिलवेणिकयेव पृथुलदीर्घया रोमलतया सीमन्तितकरालकुक्षिकुहरपातालम् ; आर्द्रपङ्कपटलश्याममतिकृशतया कायस्य दूरदर्शितोन्न- 25 तीनां पशुकानामन्तरालद्रोणीषु निद्रायमाणशिशुसरीसृपं सीरगतिमार्गनिर्गताविरलविषकन्दलं साक्षादिवाधर्मक्षेत्रमुरःप्रदेश दर्शयन्तम् ; अचिरखण्डित मन्त्रसाधकमुण्डमिन्दु. खण्डश्रद्धया धवलकुटिलान् दंष्ट्रानिर्गमानपहरन्तमासादित विधुन्तुदमिव गलावलम्बित बिभ्राणम्; अतिभारविघटिताङ्गुलीसंनिवेशगलिामुच्छलितरुधिरच्छटाच्छोटितायतनस्तम्भकुम्भिकमाशाकरिकुम्भस्थलास्थिस्थूलमतिदूरलुठितमपि रक्तासवकपालमनुभावदर्शितात्यद्भु- 30 तभुजायामेन पाणिना वामेन तथैवोर्ध्वस्थितमाददानं ; दक्षिणेन च प्रतिक्षणव्यापारितनिशित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org