________________
तिलकमअरी
शरीरस्य कुशतल्पशायिनो मुनिसमुपदिष्टेन विधिना व्रतमपत्यसन्ततिनिबन्धनमनतिचार पालयतो गृहीतब्रह्मचर्यस्य दिवसाः कतिचिदतिजग्मुः ।।
१५) एकदा तु विहितमन्त्रदेवतापूर्वसेवः स राजा पर्व दिवसे निर्वर्त्य विशेषण देव्याः श्रियः सायन्तनीमायतनपूजामनुपलक्षितः परिचारकगणेन नगरबाह्याराममण्डनमादितीर्थतया पृथिव्यां प्रथितमतितुङ्गशिखरतोरणप्राकार शक्रावतार नाम सिद्धायतनमगमत् । 5 प्रविशन्नेव च तस्य द्वारदेशे झगिति दत्तदर्शनम् , अखिलविष्टपत्रयाधिपतिना ज्वलितज्वलनच्छटाजटालकुलिशकोटिकुट्टितकुलाचलेन भुजबलविनिर्जितबलप्रमुखदर्पितासुरचक्रेण भगवता स्वय शक्रेण साकेतपुरनिवेशकाल एव कृतप्रतिष्ठस्य भगवतो युगादिजिनस्य कृत्वा प्रणाममभिमुखमापतन्तम् ; अल्पावशेषदेवायुषम् , आसन्नसमुपस्थितविनाशतया समुपजातद्वादशारुणोदयमिव ब्रह्मस्तम्बम् , अस्तशिखरपर्थस्तसूर्यमिव दिवसम् ; उपरिसन्न- 10 द्धसजलमेघदुर्दिनमिव ग्रीष्मदावानलम् , इन्दुमण्डलाभिमुखीभूतसैहिकेयमिव पार्वणचन्द्रिकापटलम् , उल्लिखितशातकुम्भस्तम्भावदातदेहम् ; उचितप्रमाणशालिनामतिभास्वरतया तडिदण्डैरिव निर्मितानों पुष्परागपरमाणुमृत्तिकाभिरिव दत्तोपचयानामातपेनेव कल्पित. त्वचामङ्गानामनलम्फुलिङ्गपिङ्गलेन गलता समन्ततः प्रभाजालेन ज्वलदनेकदीपिकाचक्र वालमिव मण्डपान्तराल कुर्वाणम् । अन्तरिक्षगतमप्यतिबहलतया चरणतलप्रभायाः स्पृष्ट. 15 भूतलमिवोपलक्ष्यमाणम् ; अकठोरविद्रुमकन्दलीसरलाभिरम्भोजदलभ्रमापतद्धमरसम्भ्रमादिवान्योन्यलग्नाभिरग्रतः स्फुरदुन्मयूखलेखाभिरन्धकारदुरुपलक्ष्याध्वपरिस्खलनशङ्कया पुरस्कृतशशिकलाभिरिवाङ्गुलीभिरुपेतेन गत्युत्कम्पगलितवैकक्षम्रग्दामरेणुनिश्चलनिलीनैरलिभिः पुनरागमनप्रार्थनापुरःसरमानतायात्रिशलोकश्रियो वियोगाश्रुभिरिव सकज्जलैः कल्माषितेन कल्पतमपल्लवचारुणा चरणद्वयेन द्योतमानम् ; अग्रतोऽग्रतः श्लक्ष्णपरिमण्डलजङ्घाकाण्डेनैरा- 20 वतकरमिवान्तिके विधाय वेधसा निर्मितेन मूले मूले स्थूलेन भ्राजमानम् , ऊरुस्तम्भयुगलेन निवसितातिसूक्ष्मदेवाङ्गवसनम् , आनील पाटलेन पद्मरागेन्द्रनीलखण्डखचितस्य मेखलादाम्नः प्रेङ्खताऽधोमुखेन मयूखमालामण्डलेन समन्तादाच्छादितनितम्बभागम् ; अभिनवकल्पपादपप्रवालविरचित परिधानम् , साक्षातकिरातवेषमिव विषमलोचनम् , उन्निद्रकाञ्चनारविन्द चारुणा विमलकान्तिसलिलपरिपूरितेन मानसेनेव मज्जनक्रीडापरम्परोपजातपरिचयागते. 25 नावतिना नाभिमण्डलेनालङ्कृतप्रतनुमध्यभागम् , प्रियापयोधर परिरम्भशंसिभिः पृथुलपरिमण्डलैर्दिव्यचन्दनरसस्तबकः स्वर्गच्यवनकालसुलभो हृदयदवथुरितरसुरमिवैनमपि मा पीडयेदिति बुद्ध-या समागतेरखिलपौर्णिमासीशशिमण्डलैरिवाधिष्ठितवक्षस्थलाभोगम् ; अतिबहलकेयूरपद्मरागप्रभाभारभरितोदरेण गम्भीरेणापि मांसपरिपूतेनेव चिरप्रारूढेनाप्याद्रेणेव महासुरशस्त्रप्रहारनिवहेन स्थपुटितस्थूलबाहुशिखरम् , वामेन सविलासभुजगतागतद्राघितया 30 तत्क्षणोदितेन्दुलेखाकारया नखमणिप्रभया विराजितेन दक्षिणेन चादिदेवप्रणामसमयस्रस्त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org