________________
विधनपालकृता
१३) अन्तरितदर्शने च तस्मिन् रणरणकदूयमानः शून्य इव पार्थिवः स्थित्वा मुहूर्त हम्र्म्यशिखरादवततार । निर्वर्तितमाध्याहूनिक विधिश्च तत्कालकृतसन्निधीनां गुरुणां बान्धवानां बुद्धिसचिवानां च यथावृत्तं सर्वमेव मुनिवृत्तान्तमाख्यत्, देवताराधनविषये चाछन् । उच्छिद्यमानभरतवंशदर्शननित्योद्वियैश्च तैरालोच्य कार्यगौरवमभ्यनुज्ञातः 5 प्रमदवनमध्य एव सन्निधावाक्रीडपर्वतस्य नातिखर्व नातिविस्तीर्णमल्पस्तम्भपरिकरमप्रांशुप्राकारकृत परिक्षेपमनुपलक्षितान्योन्यसन्धिभागैराभोगशालिभिः प्रकामम सृणमणिशिलातलेवनविस्तीर्णाङ्गणमतिमनोहरतया सुरलोकवासिनामप्युत्पादितनिवासस्पृहं देवतागृहम
२०
कारयत् ॥
१४ ) तत्र चातिप्रशस्तेऽहनि यथायोग्यम चितसमस्तपूज्यवर्गः परिपूर्णसर्वावयवां 10 सर्वप्रतिमालक्षणोपेतां सर्वालङ्कारभूषितवपुलतां सर्वलोकलोचनानन्दजननीं सर्वदोषनिर्मुक्तामत्युदारमुक्ताशैलदारुसम्भवां भगवत्याः श्रियः प्रतिकृतिं यथाविधि प्रतिष्ठाप्य प्रतिपन्न - नैष्ठिकोचितक्रियो मुनिप्रदर्शितेन क्रमेण प्रतिदिनमुपासाञ्चक्रे । तथाहि - प्रातरेवोत्थाय प्रस्थितः प्रथमतरमुत्थितैरितस्ततो निपतितावश्यायजलदलित केसराणि प्रत्ययविकसितानामुद्यानवीरुधां कुसुमान्यवचिन्वानैः प्रयत्नवद्भिः परिचारकैरनुगम्यमानः, गत्वा कृत्रिमाद्रिपरिसरसरिति 15 गृहीतदन्तधावनो निर्वर्तितस्नानजपविधिः परिधाय तत्कालधौते कालधौते इवातिधवलतया विभाव्यमाने दुकूलवाससी, विधाय सन्ध्योपासनकृत्यम् आगत्यायतनमुत्तमाङ्गघटितप्रन्थिनोत्तरी पलवेन मुद्रितमुखो मुखोद्गीर्णमुखरवारिस्रोतोभिः कनककुम्भैः सुचिरमेनामभ्य षिचत् । एणनाभिकर्पूरकणसन्तर्पितामोदेन च स्पर्शेन्द्रियहारिणा चन्दनद्रवेण विरचिताङ्गरागामङ्गलेखारोपितरुचिर मौक्तिकाभरणामुदारमालतीदामप्रथितशेखरां श्रवणशिखरावतंस - 20 तैककेतक गर्भपत्रामवदातवेषतया साक्षादमृतमथनोगतामिवोपलक्ष्यमाणां निरीक्ष्य सादरमुत्क्षिप्त कृष्णा गुरुक्षोदधूपः प्रणम्य परमया भक्त्या पुरस्तान्नातिदूरे समुपविष्टो मुखनिविष्टनिश्चलदृष्टिरानर्तितशिखण्डिना दत्तमार्जनमृदङ्गस्तनितगम्भीरेण स्वरेण संगीतकमित्र प्रस्तावयन् पुष्टार्थाभिः स्तुतिभिरतिचिर' तुष्टाव | समापितमन्त्रजपविधिश्वातिक्रान्ते कियत्यपि समये विनिर्गत्य देवतागृहाद् दर्शनार्थमागतमुचितस्थानस्थित गत्वा गुरुजन' 25 ववन्दे । विहितमध्यन्दिनावश्यक विधिश्वापराह्नसमयानुज्ञातदर्शनेन सर्वदर्शनयन्थार्थवे दिना विद्वज्जनेन सार्धं तैस्तैः कथालापैस्तस्थौ । उपस्थिते च प्रदोषसमये तेनैव विधिना श्रियः पूजोपचार चक्रे । अन्यदिवसेष्वप्येतदेवान्वतिष्ठत् । देवताकृत्यशून्ये च क्षणे समुपजात चित्तोत्कलिकः कदाचिदारुह्य क्रीडा शैलशिखर समन्ततो दत्तदृष्टिरुद्यानवापीवन षण्डसरित्तडागदेवतायतनमण्डितान् साकेतपुर परिसरोद्देशान् ददर्श । कदाचिच्च परिमितपरि 30 चारकानुगम्यमानः प्रमदवनमध्ये मन्द मन्द विजहार एव च तस्योपरतराज्यचिन्ताभारस्य विरचिताभ्यर्णपर्णशालाकृत स्थितेस्त्रिकालास्नायिनः परिमितफलाहार परिपालित
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org