________________
तिलकमञ्जरी
स्निग्धयोपसर्पणीयो दृष्टया न काययष्टया, सम्भाषयितव्यो मनसा न वचसा, प्रेषयितव्याः शरीरवार्तापलम्भाय सख्यश्चतुरवर्णरेखा नानङ्गलेखाः, बहु मन्तव्यमवस्थान विरलपरिजने देवतायतनवने न रतिभवने, श्रावयितव्यः श्रवणहारीणि देवतास्तुतिगीतानि न निजचरणनूपुररणितानि, त्वरयितव्यः सायन्तनविधये सुघटितसन्धिभिर्मागधीश्लोकैन सुरतदूतीलोकैः, कारयितव्यः कण्टकिनि पत्रच्छेदविरचनं देवतार्चनकेतकदले न कपोलतले'। 5 इत्युक्ते महर्षिणा मदिरावती त्रपातरलतारया दशावलोक्य पत्युर्मुखमधोमुखी बभूव ॥
११) तां च तथावस्थितां निर्वचनामधःस्रस्ताभिरलकवल्लरीभिर्विलक्षस्मितमिवाच्छादयितुमाच्छादितकपोलार्पणां करनखशुक्तिभिरलग्नमपि विलेपनाकं चरणोर्मिकारत्न. शकलेषु पुनः पुनरुल्लिखन्तीमवनतग्रीवतया सम्यगविभाव्यमानामपि तत्कालकन्दलिता. पूर्वशोभाकमनीयस्य मुखचन्द्रस्य चारुतां रत्नकुट्टिमावलम्बिना प्रतिबिम्बन पिशुनयन्तीं 10 पुनः पुनरवलोक्य कृतस्मितो नरपतिर्मुनिमाबभाषे – 'भगवन् ! किमिति वारं वारमेनां नियमयसि ? नन्वेकवचसैव सर्वमवधारितमनया, प्रतिपन्नं च मनसा । करिष्यति चाद्य प्रभृति सर्व भगवादिष्टम् । अतिदक्षिणा ह्यसौ प्रायेणापरस्यापि मान्यजनस्य न करोति वाक्यमन्यथा, किं पुनरशेषभुवनवन्दितशासनस्य महातपोनिधेः करिष्यति ? केवलं, विहाय पामबलम्व्य धैर्यमुन्मुच्य स्त्रीस्वभावसुलभमप्रागल्भ्यम् , अस्या अपि बुध्यते 15 स्वयं वास्मन्मुखेन वा सखीवचनद्वारेण वा विवक्षितं वक्तुम् , अभ्युपगमावेदनेन च भगवतः प्रमोद जनयितुम् , आत्मनो निर्वहणानिर्वहणे च चिन्तयितुम् । अथवा न किश्चिदुपदिष्टेनानेन । सम्प्रति प्रस्थिता वनमियम् । गतायां च तत्रास्यामिह स्थितस्य मे निष्प्रत्यूहमुपजातं देवताराधनम् ।' इत्यभिधानं च पार्थिवमधिकतरमवनतानना रचितभरिभ्रुकुटिभूषणेन साभ्यसूयेव चक्षुषा तिर्यगैक्षत । मुनिरपि मनागुपजातहासः- 20 'राजन् ! अतिमात्रमुत्सुकस्त्वमिदानी व वनमिमां नेतुमिच्छसि । विधेहि तावन्मन्त्रजपविधिम् । आराधितप्रसन्नया राजलक्ष्म्या वितीर्णमाप्नोतु पुत्रवरमियम् । आसादयतु तत्प्रभावेण भुवनत्रयख्यातमहसमात्मजम् । पश्यतु तदीयमानन्दितसकलसंसारं कुमार- . भावम् । अनुभवतु तद्वधूजनोपजनितानि चरणपरिचर्यासुखानि । ततो धृताधिज्यधनुषि .. भुवनभारधारणक्षमे तत्र निक्षिप्य निजराजसम्पद, समय प्रजाः, प्रस्थितेन स्वस्थमनसा 25 त्वयैव सहिता गमिष्यति पश्चिमे वयसि वनम् । अस्माकमप्येतदर्थ एवायमारम्भः । अन्यथा गृहस्थकार्थेषु कर्तव्येषु सर्वारम्भनिवृत्तानां को यतीनामधिकार ?' इत्युक्त्वा पुनरवादीत्-'नरेन्द्र ! पुष्करद्वीपादागतेन मयापि जम्बूद्वीपवर्तिषु प्रधानतीर्थेषु सम्प्रति प्रयातव्यम् । अनुजानीहि माम् ।' इत्यभिधाय संवृतवल्कलांशुको जपशनकैराकाशगमनदायिनी विद्यामासनादुत्तस्थौ, अनूस्थितयोश्च तयोरादरकृतप्रणामयोः क्रमेण निक्षिप्य 30 पक्षपातार्द्रतारकं चक्षुरीपदुत्क्षिप्तदक्षिणकरः स्फुटाक्षरोच्चारया गिरा दत्त्वाशिषमन्तरिक्षमुदपतत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org