________________
१८
धनपाल
नृपमुवाच- 'राजन् ! भुक्तभूयिष्ठमधुना वर्तते तवापत्यसन्ततिप्रतिबन्धकदृष्टम् । त मनसि धृतिमाधेहि । मा विधाः स्वल्पमपि विषादम् । मा समुत्पादय चित्तखेदमस्याः सदासुखोचिताया निजप्रणयिन्याः प्रतिकूलाचरणेन । मुञ्चरण्यगमनस्पृहाम् । गृहावस्थित एव कुरु देवताराधनम् । अर्पय समस्तस्यापि वनवासोचितस्य क्लेशस्याङ्गम् । अङ्गीकुरु 5 मुनित्रतक्रियाम् । किं च ते दूरवर्तिनीभिरपराभिर्दुराराधाभिर्देवताभिः ? इमामेव प्रकृति - सौम्यां सततसन्निहितामुपास्स्व सकलक्षितिपालकुलदेवतां राजलक्ष्मीम् । इयं ही क्ष्वाकु - भरतभगीरथादिभूपालपराक्रमक्रीता त्वदन्वयनिसर्गपक्षपातिनी त्वया सकलभुवनप्रतीक्ष्येण शुचिना धार्मिकेण निगृहीतेन्द्रियवृत्तिना दृढभक्तिनात्युदाराशयेन प्रमादपरिहारिणा कालोचितज्ञेन प्रक्रमप्रकटितक्षात्रतेजसा विधिवदाराध्यमाना नियमात् प्रसादं गमिष्यति, 10 अभिमतार्थविषयं च वरमचिरेण वितरिष्यति । अमुं च भक्तिप्रवणेन चेतसा गृहाण निर्विकल्पमल्पपुण्यजनदुर्लभां त्रिभुवनख्यातयशसमपराजिताभिधानामशेषविद्याधरेन्द्रपूजितां विद्याम् । कुरु दिवसस्य रात्रेश्च भागत्रयमशून्यं देवतार्चनेन । अवसाने च तस्य जप जयचरितसमाहितेन चेतसा भक्तिमज्जनैकचिन्तामणिमिमाम् । अति हि महाप्रभावास प्रयत्नवता पुरुषविशेषेण सततमाराध्यमाना नास्ति तत् फलं यन्न साधयति । फलाभि15 मुखीभूता च त्रिलोकीपतेः पुरन्दरस्यापि चेतो विधेयीकरोति, किमुतापरासां देवतानाम् ? केवलं कर्तव्येषु दृढमप्रमादिना भवितव्यम्, आलोचितव्यं च सम्यक्प्रज्ञया प्रस्तावोचितमनुष्ठानम् । प्रज्ञोद्यमावरणिमन्याविव हविर्भुजः पितरौ कार्यसिद्धेः । तौ हि पुरुषव्यापारानुगृहीतौ नास्ति तद् वस्तु यन्न साधयतः । इत्यभिधाय कृतपार्श्वावलोकनो विहितमन्त्रदेवतानुध्यानविधिर्विधाय नरपतेरात्मनश्च वपुषि रक्षामन्त्राक्षरमयं कवचमुप20 कर्णमूलमनुच्च कैरुच्चरिताक्षरपदस्तां विद्यां न्यवेदयत् ॥
१०) राजाऽपि सविनयाबद्ध करसम्पुट : श्रद्धावता हृदयेन परमनुगृहीतमात्मानं मन्यमानो विधानतस्तां जग्राह । संज्ञादिष्टपरिजनसम्पादितैश्च सामान्यमनुजेश्वरगृह दुर्लभैः पुष्पैः फलैः पत्रैरंशुकै रत्नाभरणैश्च भूरिभिः परमया भक्त्या रोमाञ्चिततनुर्मुनिमर्चयाञ्चकार । विरते च पूजाया राजनि पुनः स्वस्थानोपविष्टे प्रीतहृदयो मुनिः पात्रकृतोपकारतया 25 कृतार्थमात्मानं मन्यमानस्तूष्णीक एव क्षणमात्रं स्थित्वा किञ्चिद्वलितकन्धरो भर्तुः पृष्ठभागे समुपविष्टां विनयनिभृतवपुषं प्रहर्षनिर्भरां मदिरावतीं प्रसादाद्रेया दृष्टया सुचिरमवलोक्य सस्मितमवादीत् - 'राजपुत्रि ! निवर्तितस्तावदरण्यगमनादेप ते प्रणयी जनः । नियोजितश्चातिदुष्करे देवताराधनकर्मणि । मा स्म कुप्यश्चेतसि यदस्माभिरकृत्वा प्रश्रमश्रुत्वा प्रतिवचनमगृहीत्वानुमतिं महाभागायाः, कृतास्य चेतसो नियन्त्रणा, निवारण | 30 च विषयोपभोगसुखानाम् । अत्र च भवत्कल्याणसम्पादनसत्वरा चित्तवृत्तिरेवापराध्यति, न बुद्धिः । कल्पश्चायं यतोऽस्य कतिचिद् दिनानि दूरस्थितयैव कल्याणभागिन्या सर्वापि कर्तव्या भर्तृजनोचिता प्रतिपत्तिः । तथाहि - आत्मा निवारणीयो धृत्या न वृत्त्या, स्वभाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org