________________
तिलकमञ्जरी
१७
दैवादतिशयेनासह्यतां गतम् । तथाहि - अशक्यप्रतीकारेण प्रतिक्षणमनेन जनिततीव्र - हृदयव्यथा वेगयोरेकशयनवर्तिनोरपि प्रवासगतयोरिवानपेक्षितपरस्परयोरधिकदुःसहैः श्वासदहनोष्मभिरर्धपथदग्धदीपानुसारिविलासवलभी शलभसङ्घाः प्रलघवोsपि शतयामा इव प्रयान्ति नौ विभावर्यः । एवं च यत् समादिष्टं तदुदितम् । रुदितनिमित्त मध्यमुष्याः कथयामि अय क्षपाचरमयामे क्षणमात्रलब्धक्षीणनिद्रोऽहमासादितावसरेण यामाङ्गरक्षेणेव समुपेत्य सत्वरमपत्यचिन्ता संज्वरेण विहितसान्निध्यो बौद्ध इव सर्वतः शून्यदर्शी सन्तानसिद्धयर्थमात्मनस्तांस्तानुपायानितस्ततोऽन्वेषयन्नुषः कालकृत्या वेदनाय प्रविष्टेन बन्दिना मसृणमुपगीयमानमिदमपर वक्त्रम गुणवम्—
विपदिव विरता विभावरी नृप ! निरपायमुपास्स्व देवताः । "" ॥५९॥ उदयति भुवनोदयाय ते कुलमित्र मण्डलमुष्णदीधितेः
Jain Education International
5
९) 'श्रुत्वा चोपजातहर्षश्चिन्तितवान् - "अहो महात्मनाऽनेन मागधपुत्रेण यदृच्छयापि गायतेदमपरवक्त्रमा वेदितः करणीयमूढस्य मे कार्यसिद्धयुपायः । तदिदमेवाङ्गीकरो सारस्वतमस्योपदेशवचनम्, आराधयामि गत्वारण्यमुपनतशरण्यां कामपि प्रख्यातां देवताम् ” इति उत्थाय च यथाक्रियामाणं पौर्वाह्निकानुष्ठानमनुष्ठायाधिरुह्यान्तःपुरप्रासादमिममस्याश्चित्रशालिकायाः प्राङ्गणवित दिकोपविष्टां समाश्लिष्य देवीमिदं दुःख- 15 मदम् - " देवि ! त्वदपत्यसन्ततिनिमित्तमितो मया गत्वारण्यमा वरप्रदानाद् देवताराधनं कर्तुमध्यवसितम् । यावच्च सिद्धप्रयोजनोऽहमागच्छामि तावत् त्वया शुश्रूषमाणया गुरुजनमिह स्थातव्यम्” इति । निशम्य चेदम श्रुतपूर्वमतिदुःसहं वचनमस्माकमकस्मादेव मूर्चिछतेयम् । उच्छन्नसंज्ञा च तिर्यक् पतन्ती सत्वरेणोपसृत्य धारिता परिजनेन । स्थित्वा च क्षणं समाश्वस्ता । निःश्वस्य चातिदीर्घमिदमपारदुःखभार भज्यमानगलसरण्या 20 गदितमनया स्वरेण गद्गदेन स्वैरम् - " आर्यपुत्र ! सन्तानकार्यसिद्धये तव प्रस्थितस्य नाह प्रतिपन्थिनी । किं पुनरिदं विज्ञापयामि । यथा तव तथा ममाप्याराधनीया देवता | एवं च कस्मात् परित्यज्य मामेक एवं व्रजसि वनम् ? अथ मन्यसे मदीयाराधनेनैव सिद्धं तवाराधनमिति कस्यात्र सन्देहः ? किन्त्विदानीं त्वमुज्झितापरान्तः पुरिकासमीहितो मत्कृते व्रतं चरिष्यसीति वचनशतैरपि न प्रत्येमि । न च त्वया विरहिता स्थातुमिह 25 मुहूर्तमपि शक्रोमि । तदवश्यं मयापि गन्तव्यमरण्यम् । अवमन्य चेद्गच्छसि मां गच्छ । सिध्यतु तवाभीष्टम् । दृष्टस्त्वमधुनैव ।” - इत्यभिदधाना ललाटविलुलितविशुस्य लालकपद्धतिरधोमुखीभूता । भूयोऽप्यनुबध्यमानया च निःशब्दमवजिताब्दजलधारेर शुधारे रुदितमनया, न पुनः किञ्चिदुदितम् । तदियमस्थान एवात्मानुगमनेन कुर्बती मे गमनभङ्गं, भगवतोऽपि युज्यते वक्तुं यथायुक्तम् ।' इत्युक्तवति पार्थिवे चित्तपरिभावित 30 तदीयोपात्तोगो मुनिस्तत्क्षणमेव योगनिद्रामगात् । उन्मुद्रितेक्षणश्चानतिचिरेण सप्रहर्षो
For Private & Personal Use Only
10
www.jainelibrary.org