________________
कविंधनपालकता
तिशयतृणीकृतवारिराशेराशयस्य । केवलमभूमिमुनिजनो विभवानाम् । विषयोपभोगगृध्नवो हि धनान्युपाददते । मद्विधास्तु संन्यस्तसर्वारम्भाः समस्तसङ्गविरता निर्जनारण्यवद्धगृहबुद्धयो भैक्षमात्रभावितसन्तोषाः किं तैः करिष्यन्ति । ये च सर्वप्राणिसाधारणमाहारमपि
शरीरवृत्तये गृह्णन्ति, शरीरमपि धर्मसाधनमिति धारयन्ति, धर्ममपि मुक्तिकारणमिति 5 बहु मन्यन्ते, मुक्तिमपि निरुत्सुकेन चेतसाभिवाच्छन्ति, ते कथमसारसांसारिकसुख प्राप्त्यर्थमनेकानर्थहेतुमर्थं गृह्णन्ति ? परार्थसम्पादनमपि धर्मोपदेशदानद्वारेण शास्त्रेषु तेषां समर्थितं, नान्यथा । तदलमत्र निर्बन्धेन । कथय तावत् केयमुपहसितसुरलोकरामणीयका नगरी १ कश्चास्यां महाभागस्त्वम् ? कतमं च महापुरुषवंशममरोद्यानवेणुमिव मुक्ता
मणिरात्मोत्पत्त्या स्पृहणीयतमतां नीतवानसि ? का चेयं पुण्यभागिनी निरवद्यवावयवा, 10 निवासः सर्वलक्षणानां, सिंहलद्वीपभूमिरिव रत्ननिवहस्य, पात्रमकृत्रिमस्य विनयादि
गुणगणस्य, पार्श्ववर्तिनी भवतः ? किं चाभिधानमस्याः १ किंनिमित्तं च कोटरोदरनिमग्न दावाग्निमुर्मुर इव महाद्रुमो, मूललग्नकीट इव पङ्कजाकरो, देहनष्ट राहुदंष्ट्राशकल इव निशाकरः, सान्तस्ताप इव लक्ष्यते भवान् ? इयमपि च कल्याणी किमिति म्लानदेहा पाणितलसंक्रान्तकजलकलङ्कपिशुनिताश्रुप्रमार्जना सद्योविरतेव रोदनाद् 15 विज्ञायते ? कच्चिन्न सम्पन्नः प्रयत्नसंरक्षितस्यार्थस्य कस्यचिदतर्कितो विनाशः । कचिन्न जातः केनापि प्रेमैकनिवन्धनेन बन्धुना सह प्रवासादिकारणसुलभो विप्रलम्भः । कञ्चिन्न सम्भाविता दुर्लभता चिरं हृदि स्थापितस्य कस्यचिन्मनोरथस्य । कथय यदि नातिरहस्यं श्रवणार्ह वाऽस्मद्विधानाम्' इति कुतूहलाकृष्टेन पृष्टो महर्षिणा क्षोणिपतिरवो वत्-' भगवन् ! सकल दुःखितप्राणिवत्सलानां परमवाङ्मनःकायसंयमवतां सर्वदा 20 परोपकारप्रवणवृत्तीनां भवादृशामपि रहस्यमश्रवणार्हमस्ति ? एष विज्ञापयामि-अमावस्य सकलस्यापि भारतवर्षस्य चूडालङ्कारभूता गोत्र राजधानी रघुदिलीपदशरथप्रभृतीनां नराधिपानामयोध्याभिधाना पुरी प्रधानभूता सर्वनगरीणाम् । अहमपीक्ष्वाकुकुलसम्भवो भोक्ताऽस्य कियतोऽपि भारतक्षेत्रस्य वर्तमानक्षोणीपालापेक्षया भूयसा विभवेन भूयसा
प्रभावेण भूयसा सेनापरिच्छदेन भूयस्या प्रभुशक्त्या भूयस्या च भूमण्डलावाप्त्या 25 समेतो मेदिनीपतिर्मेघवाहनाख्यः । इयमप्युपजातजन्मा महति मूर्धाभिषिक्तक्षत्रियाम्नाये माननीया समग्रस्यापि माप रेग्रहस्य सर्वान्तःपुरप्रधानभूता मदिरावती नाम प्रेमपात्रं मे कलत्रम् । अनयास्माकमविकला त्रिवर्गसम्पत्तिः, अनुवेजको राज्यचिन्ताभारः, आकीर्णा मही, स्पृहणीया भोगाः, सफलं यौवनम्, अजनितव्रीडः क्रीडारसः,
अभिलपणीया विलासाः, प्रीतिदायिनो महोत्सवाः, रमणीयो जीवलोकः, माननीया 30 मन्मथाज्ञा, पालनीया गृहस्थाश्रमस्थितिः । अस्वस्थताकारणं चावयोर्गुरुजनदेवता
भक्त्यनुभावादनुदिनोपचीयमानसकलसंकल्पितार्थयोर्धनविसरकृतार्थीकृतेन ज्ञातिसार्थेन सर्वकालमविरहितपार्श्वयोः प्रायेण नाल्पमप्यपरमस्ति मुक्त्वैकमनपत्यतादुःखम् । तत् तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org