________________
तिलकमलरी
यौवनोदयमिव वशीकृतविषमाक्षचित्तम् , अकालविजिगीषुनृपतिसैन्यमिव यथासंख्यं तपोदयक्षपितानेकपापकलिं, दक्षिणार्णवपारमिव त्रिकूटकटकोरःस्थलङ्कमलसमकरं, निष्परिप्रहमपि सकलत्रं, विदितवस्तुसारेतरविभागमपि समतृणप्रवालमुक्तालेष्टुलोष्टकाश्चनं, परपुरुषदर्शनसावधानं सौविदल्लमिन्द्रियवृत्तिवनितानां, भूतापद्रुहमम्बुधरागमं साधुमयूराणां, दुर्विषहतेजसं महामन्त्रमनङ्गविकाराशीविषाणां, काशधवलगुणोद्भासित- 5 मगस्त्योदयं हृदयजलाशयानाम् , आचारमिव चारित्रस्य, प्रतिज्ञानिर्वाहमिव ज्ञानस्य, शुद्धिसंचयमिव शौचस्य, धर्माधिकारमिव धर्मस्य, सर्वस्वदायमिव दयायाः, मार्गदेशकमिवापवर्गस्य, तैजसं मूर्त्या, पावनं चरितैः, आय पुण्यैः, पाथवमतीतकालावस्थया, विद्याधरमुनिमपश्यत् ॥
७) दृष्ट्वा च तमदृष्टपूर्वमुपजातकुतूहलो विस्मयस्तिमितदृष्टिरुपरतनिमेषतया 10 दर्शनप्रीत्युपार्जितेन पुण्यराशिना तस्यामेव मूर्तावाविर्भूतदिव्यभाव इव मुहूर्तमराजत् । अभिमुखीभूतं च तं प्रासादस्य दिवसकरभिव पौरस्त्यभूधराभिलाषिणं सप्रभातसन्ध्यो वासरः सुदूरविकासितमुखः समं मदिरावत्या प्रत्युज्जगाम । धार्मिकजनानुवृत्त्यभिमुखानि हि भवन्ति सर्वदा धर्मतत्त्ववेदिनां हृदयानि, यतः स तं तथाकृताभ्युत्थानमादरातिशयपुनरुक्तोक्तस्वागतमुपारूढप्रौढपुलकप्रकटितान्तःप्रीतिमुत्पक्ष्मलोचनयुगललक्ष्यीकृतमु- 15 खमग्रतः सपरिग्रहमवलोक्य समुपजातपक्षपातो विसृज्य मुनिभावसहभाविनी निरपेक्षतामुपेक्षितनिजप्रयोजनो जन इवेतरस्तरसाभिमुखोऽभवत , अवातरचाम्बरतलात् । उपरितनकुट्टिमन्यस्तचरणं च तमुपसत्य सविनयमवनीपतिः प्रगुणीकृतार्घपात्रो विधाय विधिसम्पादितया सपर्यया सानन्दमानन्दपर्यश्रुलोचनः प्रणम्य स्वयं समुपनीते राश्या सुदूरदर्शितादरया मदिरावत्या निजोत्तरीयपल्लवेन प्रमृष्टरजसि हेमविष्टरे न्यवेशयत् ।। 20
८) कृतगृहागतमहर्षिसमुचितसमस्तोपचारश्च तं गुरुमिवाधिदेवतमिवोपास्य सुचिरमास्यनिहितनिश्चलचक्षुरवनितलोपविष्टः सप्रश्रयमुवाच-' भगवन् ! एष तावदभ्रङ्कषाप्रशिखरस्तुषारगिरिरिव गङ्गास्रोतसा गगनमण्डलादवतीर्य मुनिगणमाननीयेन गुरुतां परामारोपितः प्रासादस्त्वया । तदनु सर्वतः कृतावलोकनेन स्वच्छशिशिरैः शान्त्युदकशीकरैरिव दृष्टिपातदुरीकृतो दुरितराशिरस्य समस्तस्यापि नगरीनिवासिनो मत्परिग्रहस्य । 25 प्रणामसमये च मूर्धानमधिरोपितेन प्रकृतिपूतेन निजपादपांसुना सम्पादितमखिलतीर्थस्नानफलम् । एवं च सामान्येन सर्वतः समुपजातमप्यसंजाततृप्तिरधिकतरकल्याणसम्पल्लाभाय भगवता क्रियमाणमिच्छाम्यात्मनो विशेषेणानुग्रहम् । इदं राज्यम् , एषा मे पृथिवी, एतानि वसूनि, असौ हस्त्यश्वरथपदातिप्रायो बाह्यः परिच्छदः, इदं शरीरम् , एतद् गृहं, गृह्यतां स्वार्थसिद्धये परार्थसम्पादनाय वा यदनोपयोगाईम् । 30 अर्हसि नश्चिरान्निर्वापयितुमेतज्जन्मनः प्रभृत्यघटितानुरूपपात्रविषादविक्लवं हृदयम्' इति व्याहरन्तं च तं समुपजातहर्षी महर्षिरुवाच- महाभाग ! सर्वमनुरूपमस्य ते महिमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org