SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ૪ 5 स्वादिष्ठोक्तिनिषेकमेकविलसल्लावण्यपुण्यं वपुः ॥५८॥ ६) एकदा च राजा, याममात्रे वासरे, समुच्छ्रितानेकभूमिकस्य गगनयात्रायासिताभिः सिद्धाध्वगवधूभिर्विश्रान्तये सततमध्यासितशिखरविटङ्कवेदिकस्य भद्रशालनाम्नो महाप्रासादस्य पृष्ठे समुपविष्टः समीपदेशोपविष्टया दृष्टिपातपथावस्थितेन वदनारविन्दनिहितनिश्चलदृशा विश्रान्त मिथः संकथेन वर्षधरवनिताप्रायेण परिजनेनोपास्यमानया सह तथा प्रस्तुतालापः, सहसैवान्तरिक्षेण दक्षिणापथादापतन्तम्, उद्योतितसमस्तान्त10 रिक्षमार्गम्, आपीत सप्तार्णवजलस्य रत्नोद्गारमिव तीव्रोदानवेगनिरस्तमगस्त्यस्य, स्थूलक र निःश्वास विप्रकीर्णमुत्तमाङ्ग सिन्दूरनिकरमिव दक्षिणाशागजस्य, प्रचण्डपवनेरितं रेणुपटलमिव सुवर्णद्वीपस्य, केरली रक्षितशरणागतानङ्गवैलक्ष्यप्रतिनिवृत्तमीक्षणानलमिव विशालाक्षस्य, दिवापि दीप्यमानमीशानशिरः शशाङ्कप्रीत्या कैलासवासाय प्रचलित मौषधिव्रातमिव विन्ध्यस्य, कनकगिरिपर्यन्तचारिसूर्यतुरगानुसारेण नायनरश्मिनिवहमिव 15] मन्दाकिनीं प्रति प्रधावितमन्तकमहिषस्य, त्रिशकुसम्पर्क जाशौचशोधनाय शिखाजालमिव विजृम्भितमाग्नेयदिनिवासि हुतवहस्य, वैश्रवणरत्नकोशदर्शन कुतूहलादलकापुरीमुञ्चलितमन्तरात्मानमिव रोहणाचलस्य, तप्ततपनीयपिङ्गलेन समन्ततः प्रसर्पता देहप्रभाप्रवाहेण सन्तर्पयन्तमिव बालातपं दिवसम्, अजातशत्रुणा सत्यव्रताधिष्ठितेन कृष्णद्वैपायनमिव युधिष्ठिरेण तपोजन्मना जनितबहुमानं जगति महत्त्वेन त्रयीमिव महामुनिसहस्रोपा 20 सितचरणां विन्ध्यगिरिमेखलामिवाक्षमा लोपशोभितां त्रिभुवनसृष्टिमिव प्रकटोपलक्ष्यमाणब्रह्मसूत्रां सतर्कविद्यामिव विधिनिरूपितानवद्यप्रमाणां सुकविवाचमिव मार्गानुसारिप्रसन्न - दृष्टिपातासितपक्षचतुर्दशीमिव सर्वभूतानन्दकारिणीमचिरपरिणतामङ्गलक्ष्मीं दधानम्, अस्थूलमुक्ताफलश्रियः श्रमस्वेदकणिका गगनगङ्गाजलविप्रुष इत्र जवादनिलानीता विशालोन्नत ललाटदेश सङ्गिनीरुद्वहन्तम्, अञ्जनत्विषा निजशरीरच्छायापुरुषेण दक्षिणा25 शागमन परिचयप्रतिबुद्धेन धर्मराजेनेव सद्यो गृहीत दीक्षेण दक्षिणेतरभागवर्तिना सदृश वेषाकारधारिणानुगम्यमानम्, अभिनवतमालपण्ड हरितान्यप्सरोभिरिव सविभ्रमोन्मेषा - भिरितस्ततो विलसन्तीभिस्तडिद्भिरध्यासितानि तपोभीतशतमखप्रदर्शितानि मायावनानीव सजलमेघमण्डलानि प्रतिमार्गमवलोकयन्तम्, अर्धपयदसिद्धसादरोत्सृष्टाभिरायामिनीभिरर्घकुसुम स्रग्भिः समन्ततो जटिलीकृतेन दुरुत्तरभवकूपनिपतितप्राणिसार्थी30 द्धरणार्थमधः प्रवर्तितपुण्यरज्जुनेव स्वभावमृदुना चरणद्वयेन द्योतमानं, नदीतटतरुमिव स्फुटोपलक्ष्यमाणजट, ग्रीष्मकूपमिव प्रकटतनुशिराजालं, क्षेत्रगणितमिव लम्बभुजकर्णोद्भासितम्, अमरशैलमित्र स्वयंपतित कल्पद्रुमदुकूलवल्कलावृतनितम्बम् अम्बिका Jain Education International विधन पाहत आढयश्रोणि दरिद्रमध्यसरणि स्रस्तांसमुच्चस्तनं नीरन्ध्रालकमच्छगण्डफलकं छेक मुग्वेक्षणम् । शालीन स्मितम स्मिताश्चितपदन्यासं बिभर्ति स्म या For Private & Personal Use Only " www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy