________________
कविधनपालकता देवद्विजातितपस्विजनकार्येषु महत्सु कार्यासनं भेजे । पौरलोकपरितोषहेतोश्च वसन्तादिषु सविशेषप्रवृत्तोत्सवां निर्गत्य नगरीमपश्यत् । निसर्गत एवास्य पूर्वपार्थिवातिशायिनी प्रजासु पक्षपातपरवशा धृत्तिरासीत् । यतः - स तथाप्रसक्तोऽपि विषयोपभोगसुखेषु,
जानन्नपि जागरूकताममात्यानां, विद्वानप्युपादेयतां निजाज्ञायाः, प्रत्यहमावेद्यमान5 प्रजानुरागोऽपि प्रणिधिपुरुषैरादेशसम्पादनपटीयसि श्रद्धेयवचसि नेदीयस्यपि मौलभृत्यवर्गे,
तासां सुस्थासुस्थोपलम्भाय केनाप्यनुपलक्ष्यमाणविग्रहः कुसुमायुध इवायुधद्वितीयः स्वयमेव निर्गत्य निशामुखेषु प्रतिगृहं नगर्या बभ्राम । किंवदन्तीशुश्रूषया च तत्र स्थाने सन्निविष्ठा विशिष्टजनगोष्ठीगाहे । प्रतिश्रयकुटीषु च दिगन्तरागतपथिकसततसंबाधास्वढौकत । राज्य
व्यापारकथाप्रक्रमे च पौसणामाशयपरीक्षार्थमवनीपतेरमात्यस्य तदधिकृतानां च यथासम्भवं 10 परिकल्प्य दोषानुदकीर्तयत् । तैश्च प्रशान्तनिखिलोपद्रवतया सर्वदा सुखितैः स्वामिसचिवाध्यक्षमिथ्यापरिवादश्रवणबद्धामरप्रत्यभिज्ञानदोषेण परुषाक्षरमधिक्षिप्यमाणः परां मुदमुवाह । सचिवलोकोऽपि श्रुतत्वाद्धर्मशास्त्राणामपेक्षितत्वादतीत पुरुषव्यवहाराणामकर्कशत्वादाशयस्य परिज्ञातत्वाच्च प्रभुचित्तवृत्तेः परिहरन् प्रजाखेदमखिलान्यपि राज
कार्याणि चक्रे ॥ 15 ४) एवं च राज्ञः परित्यक्तसकलभुवनचिन्ताभारस्य निर्यत्नसमुपस्थितानन्तभोग
लालितमूर्ते रतिमहासागरमध्यगतस्य सुखनिद्रापरवशात्मनस्तत्कालमनवेक्षितयापि लक्ष्म्या सुचिरप्ररूढप्रणयानुरोधादमुक्तसन्निधेदेवस्य दानवारेरिवातर्कित एव भूयाञ्जगाम कालः । भूयसा च कालेन यत् किल लोके प्रसिद्ध विषयाणामपि प्रतिबद्धं पुण्यैरपि निष्पाद्यमिन्द्रियैरप्यास्वाद्यमैश्वर्येणापि भोग्यं महीभुजामपि योग्यमखिलमपि तत् प्रायेण जीव20 लोकसुखमनुबभूव । केवलमात्मजाङ्गपरिष्वङ्गनिर्वृतिं नाध्यगच्छत् । समग्राण्यपि हि
कारणानि न प्राग्जन्मजनितकर्मोदयक्षणनिरपेक्षाणि फलमुपनयन्ति, यतोऽस्य नूतनेऽपि वयसि महत्यप्यन्तःपूरे बहुनापि कालेन नैकोऽप्युदपादि तनयः । क्रमादतिक्रामति च यौवने जरठतालिह्यमानवपुषस्तरोरिव त्रुटति कुसुमेषुरसे
पल्लवस्येवाविर्भवति वैराग्ये विवेकबलपीडितासु मकरध्वजध्वजिनीष्विव वितीर्णधर्मद्वारासु *25 निर्गच्छन्तीषु मनसः कामिनीसमागमवाञ्छास्वपत्यमुखदर्शनं प्रति निराशस्य, 'राजन् !
अध्वरस्वाध्यायविधानादानृण्यं गतोऽसि नः पितणामपि गच्छ' इति याचितप्रसूतेरिख प्रादुर्भूतधर्मवासनासन्निहितैर्देवर्षिभिः, 'वत्स ! निवापदानैरिदानीमायुष्मता सम्भाविताः स्म प्रभूतकालमग्रतस्तु का गतिरस्माकम्' इति मुहुर्मुहुरुच्यमानस्येव स्वप्नेषु पितृभिः,
'तात ! पूवपुरुषैरपि तावकैरियन्तं मार्गमानीताहं त्वयाप्यतिवृद्धाया मार्गदर्शको मे 130 निरूपणीयः' इति प्रार्थितस्येव पश्चाल्लग्नयेक्ष्वाकुपार्थिवसन्तत्या, 'शठ! सर्वः कृतार्थी
कृतस्त्वया, मम पुनराश्रयमात्रमपि न सूत्रितं भवता क्व भूत्वा भविष्यप्रतिपक्षप्रतापातपकरालिता कालमतिवाहयिष्यामि मन्दभाग्या' इति सोद्वेगमुपालब्धस्येव लब्धप्रसरया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org