________________
तिलकमअरी
चिन्नीलपटावगुण्ठिताङ्गो लाङ्गलीव कालिन्दीजल वेणिकाः प्रत्यग्रमृगमदाङ्गरागमलिनवपुषो बहुल प्रदोषाभिसारिकाः सुदूरमाचकर्ष । कदाचिदुल्लसितकनकशृङ्गसुन्दरो मन्दराद्रिखि क्षीरोदज लवीचिभिरागृहीतविविधशङ्खशुक्तिपुटाभिरवरोध पुरन्ध्रीभिरुपसृत्योपसृत्य सिच्यमानो जलक्रीडामकरोत् । कदाचिन्मुदितसुहृद्गणोपदिश्यमानमार्गो मृगाङ्कमौलिखि कैलासशिखरे मुखरशिखण्डिनि क्रीडागिरौ देवीसमेतः सविभ्रमं बभ्राम । कदाचिन्मन्युगौरवादतिलङ्घितपाद - 5 पतनविभ्रमाणां प्रेयसीनां प्रसादनं प्रति निष्प्रत्याशः प्रान्तनिपतदम्बुधारान्धकारितोदरकुहरेषु धारागृहेषु बिसिनीपल | शस्त्रस्तरशायी मनसिशयसंतापमत्यवाहयत् । कदाचिद् देव्या सार्धमारब्धस्पर्धः स्वपरिगृहीतानां गृहोद्यानवीरुधाम कालकुसुमोद्गतिकारिणस्तांस्तान् दोहृदयोगानदात् | कदाचिद् धौतमृगमदाङ्गरागमनुरागजं स्वेदजलमजस्रमुज्झिहानं बहुमन्यमानः प्रतिकर्मा समाप्तिकाम्यया कामिनी कुचकुम्भभित्तिष्वनेकभङ्गकुटिला: पत्राङ्गु- 10 रकल्पयत् । कदाचित् क्रीडाद्यूतपराजितः पणितमप्रयच्छन् 'क्व गच्छसि' इति बद्धालीकटिभिर्विदग्धवनिताभिराकृष्य कृतविषमपादपातो बलादिव दत्तकपाटसंपुटेषु वासवेश्मसु सपत्नीसमक्षमेवाक्षिप्यत । कदाचिदीर्ष्यारुणप्रतिप्रमदाकटाक्ष कर्बुरमुपरिक्षिप्तरक्तोत्पलपलाशमिव कापिशायनं स्वयमुत्क्षिप्तमाणिक्यचषकश्चन्द्रिकाप्रहासिषु प्रासादतलेषु प्रेमपरवशः प्रणयकुपिताः प्रेयसीः सानुनयमपाययत् । कदाचिद् वदनमण्डनादिभिर्विडम्बनाप्रकारैरुप- 15 हसन् विदूषकानन्तःपुरिकाजनमहासयत् । कदाचिदङ्गनालोल इति मत्वा निपुणचित्रकारैश्वित्रपटेष्वारोप्य सादरमुपायनीकृतानि रूपातिशयशालिनीनामवनिपालकन्यकानां प्रतिबिम्बानि परित्यक्तान्यकर्मा दिवसमालोकयत् । कदाचित् स्वयमेव रागविशेषेषु संस्थाप्य समर्थितानि शृङ्गारप्रायरसानि स्वरचितसुभाषितानि स्वभावरक्तकण्ठया गाथकगोष्ठया पुनरुक्तमुपगीयमानान्यनुरागभावितमनाः शुश्राव । कदाचिदावेदितनिखिल माट्यवेदोपनिषद्भिर्नर्तकोपाध्यायै- 20 रुपदर्शितानां नर्तकीनामक्षुण्णेन शास्त्रवर्त्मना कृतसूक्ष्मगुणदोषोपन्यासः पश्यँल्लास्यविधिमानवर्तिनो विदग्धराजलोकस्य मनांसि जहार । कदाचिद् भवनदीर्घिकाम्भसि प्रवृत्तनिर्भर क्रीडारसानामन्तःपुरविलासिनीनां पतिताङ्गुलीयकमुद्रान्वेषणादिना तेन तेन व्याजेन निमज्ज्य गृहीतजघनांशुको विभ्रमभ्रूभङ्गसुभगललाट लेखानि व्याजवैलक्ष्यहासविकसितकपोलदर्पणान्यलीकाक्रोशपदहृद्यवाचि समासन्नप्रतिप्रमदा मुखप्रतिकृत्रिमत्रपातरलतरतारकान्य- 25 विरतदिदृक्षारसो वीक्षामास मुखानि । किं बहुना, यदुचितं यौवनस्य रुचितं चित्तवृत्तेराराधकं विदग्धानामबाधकं लोकद्वयस्य, तदपरमप्यविकलतया विवेकस्य, स्थिरतया कुलाभिमानस्य, स्वभ्यस्ततया विनयस्य, भूयिष्ठतया च सत्त्ववृत्तेः, यथा न धर्मः सोदति यथा नार्थः क्षयं व्रजति यथा न राजलक्ष्मीरुन्मनायते यथा न कीर्तिर्मन्दायते यथा न प्रतापो निर्वाति यथा न गुणाः श्यामायन्ते यथा न श्रुतमुपहस्यते यथा न परिजनो विरज्यते 30 यथा न मित्रवर्गो म्लायति यथा न शत्रवस्तरलायन्ते तथा सर्वमन्वतिष्ठत् । सेवकानुरागसंरक्षणाय च वितीर्णसर्वावसरमन्तरान्तरा सभामण्डपमध्यास्त । धर्मपक्षपातितया च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org