________________
कविधनपालकृता कारिताष्टदिग्विभागेषु घनस्तनितघर्घरघूर्णमानरथनिर्घोषेषु दर्पोत्पतत्पदातिकरतलतुलिततरवारितडिल्ताप्रतानदन्तुरितान्तरिक्षकुक्षिषु प्रचण्डानिलप्रणुनकरकोपलप्रकरपातमुखरसप्तिखुरपुटध्वानजनितजगज्ज्वरेषु प्रसर्पन्नपश्रेणिचूडामणिमरीचिचक्रविरचितेन्द्रचापकलापेषु
प्रत्यावृत्तप्रथमजलधरसमयशङ्काविधायिषु लोकस्य यदीयसैन्येषु सकलप्रतिपक्षलक्ष्मी*5 जिघृक्षया शरत्समये प्रचलितेषु विषमजलनिधिमध्यवासिनोऽपि कंसद्विष इव द्वीपावनीपालनिवहस्य निद्रा क्षयमगच्छत् ।
अन्यच्चयस्य दोष्णि रफुद्धेतौ प्रतीये विबुधैर्धवः ।
बोद्धतर्क इवार्थानां नाशो राज्ञां निरन्वयः ।।५४॥ लतावनपरिक्षिप्ते निन्ये यदरिभिनिशा ।
विन्ध्यातस्तल्परुचिरे न वेश्मनि नवेऽश्मनि ॥५५।। अन्तर्दग्धागुरुशुचावाप यस्य जगत्पतेः ।
नारीणां संहतिश्चारुवेषाकारागृहे रतिम् ॥५६।। दृष्ट्वा वैरस्य वैरस्यमुज्झितास्रो रिपुव्रजः ।। ___ यस्मिन् विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥५७॥
३) स राजा बाल एवाधिगतराज्याभिषेकः सकलभुवनाभिभाविना भुजबलेन निर्जित्य सप्ताम्बुराशिरशनाकलापां काश्यपी, कृत्वा सततसंचरणशीलस्य यशसः
सुखप्रचारर्थमिव निष्कण्टकाः ककुभः, दिक्कम्भिनामालानस्तम्भानुकारिणः समारोपित* स्वनामवर्णश्रेणीकानारोग्य दिशामष्टानामपि पर्यन्तेषु जयस्तम्भान् , उपार्जिनप्रभूतकोश 20 वशीकृतसमस्तसामन्तमायत्तमन्त्रिमण्डलमुपगृहीतमित्रवर्गमाप्तपुरुषाधिष्ठितदुर्ग समग्रमपि
राज्यमाजन्मनः प्ररूढपरमसौहृदस्य हृदयस्येवातिविश्वसनीयस्य बाहोरिव वसुन्धराभारवहनक्षमस्कन्धस्य प्रगल्भमत्युपहसितधिषणस्यापि प्रज्ञावतां धौरेयस्य विदितनिःशेषनीतिशास्त्रसंहतेरमात्यवर्गस्यायत्तमकरोत् । आत्मनापि निःशेषितारिवंशतया विगतशङ्कः, स्वधर्मव्यवस्थापितवर्णाश्रमतया जातनिर्वृतिः, पर्यवसिताखिलप्रारब्धकार्य25 तया निराकुलमनास्तत्कालं मनःपुरीमनुप्रवेष्टुकामं कार्मुकधारणापराधविलक्षमनसं
मकरलक्ष्माणमनुग्राहयितुमागतेन विस्तारचतुरोक्तिना दूतेनेव नवयौवनेनोपदर्शितेष्विन्द्रिय- ग्रामहारिषु विषयेषु परिभोगलालसं मानसमासञ्जयामास । तथाहि, कदाचित् सकुतूहल
गृहदेवतादरविलोकितः, कामिनीजनाभरणझात्कारतूर्यरवसंवर्धितैस्तारतरविलापिनां वैतालि. कानामिव केलिशकुन्तानां ध्वनिभिराधीयमानरभसः, सरभसदशनामदंशदलितदन्तच्छदम.30 दयकचग्रहोल्लसद्भृकुटिभूषितललाटदेशमावेशपरवशप्रवृत्तकरप्रहारव्याहर-मणिवलयमविरलो
द्गतश्रमस्वेदतिम्यद्रोमाञ्चकवचमनवरतमुक्तकौसुमशरासारव्यपदेशादुपजाततुष्टिनेव मानसभुवा देवेन पात्यमानपुष्पवृष्टिरुस्कृष्टकरणप्रयोगरमणीयमत्यद्भुतं रतसमरमाततान । कदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org