SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी पण्डितविभक्तिभिरनवबुद्धसाध्य साधुविशेषैरनवधारितधार्मिका धार्मिक परिच्छित्तिभिः सर्वैरप्युदारवेपैः सर्वैरपि छेकोक्तिकोविदैः सर्वैरपि परोपकारप्रवणैः सर्वैरपि सन्मार्गवर्तिभिः ज्ञातनिःशेषपुराणेतिहामस (रैईटसकलकाव्यनाटकाचन्यैः परिचितनिखिलाख्यायिकाख्यानव्याख्यानैः प्रमाणविद्भिश्यप्रमाणविद्यैरवीत नीतिभिराय कुटिलैरभ्यस्त नाट्यशास्त्रैरप्यदर्शितनेत्रविकारैः कामसूत्रपारगैरत्यविदित वैशिकः सर्वभाषाविचक्षणैरप्यशिक्षित लाटोक्तिभि: 5 सात्त्विकैरपि राजसभावाप्तख्यातिभिरोज स्विभिरपि प्रसन्नैः पूर्वाभिभाषिभिरुत्तरालापनिपुणैः सकलरसभावाभिजेरविपादिभिन्यायदर्शनानुरानिभिरपि न रौद्रैः परानुपहासिभिर्मशीलैः सर्वस्य गुणग्राहिभिः सन्तुष्ठैर्व्यसनेष्यपरित्यागिभिः सर्वदा संविभाग परैः परोपकारिभिरात्मलाभोद्यतैः कतिपयकलाकलापपरिग्रह ग्रहपतिमप्युपहसभिर्मित्रमण्डलपरामुखमनूरुमपि निरस्यनिलक्ष्मीप्राप्तये गाढवृतभूभृत्पाद वासुदेवमपि विप्लावयद्भिः 10 स्नेहशून्यमानसं जिनमप्यवजानद्भिर्निया सिलोकैः संकुला, विरचितालकेय मखानलधूमकोटिभिः, स्पष्टिताञ्जनतिलक विन्दुरिव बालोद्यानैः, आविष्कृतविलासहासेव दन्तवलमीभिः, आगृहीतदर्पणेव सरोभिः सकृतयुगेव सत्पुरुषव्यवहारैः समकरध्वजराज्येव पुरन्ध्रिबिचकैः, सब्रह्मलोके द्विजसमाजैः, सममुद्रमथनेव जनसंघातकलकलेन, विततप्रभावर्षिभिराभरणपाषाणखण्डैरिव पाखण्डिभिर्मुषितकल्मषा, जपानुरागिभिरुपवनैरिव श्रोत्रियजनैः 15 सच्छाया, विचित्राकारवेदिभिरङ्गणैरिव नागरिकगणैरलंकृतगृहा, सवनराजिभिः सामस्वरैखि क्रीडापर्वतकपरिसरैरानन्दितद्विजा, विश्वकर्मसहस्रैरिव निर्मितमासादा, लक्ष्मी सहस्रैरिव परिगृहीतगृहा, देवता सहस्रैरिवाधिष्ठितप्रदेशा, महापार्थिव वरूथिनीवाने करण्यासंकुला, राज्यनीतिरिव सत्त्रिप्रतिपाद्यमानं वार्ताधिगतार्था, अर्हद्दर्शनस्थितिरिव नैगमव्यवहाराक्षिप्तलोका, रसातलविविक्षुरविरषचक्रभ्रान्तिरिव चीत्कार मुखरितमहाकूपारघट्टा, सर्वाश्चर्यनिधान- 20 मुत्तरकोशलेष्वयोध्येति यथार्थाभिधाना नगरी; का सितांशुकर संपर्कादपरिस्फुटस्फटिकदोलासु बद्धासनैर्विलासिमिथुनैरवगाह्यमानगगनान्तरा समन्तादन्तरिक्षसंचरत्खेचर मिथुनस्य शुचिप्रदोषे शोभामवरीचकार विद्याधरलोकस्य यस्याश्च गगनशिखोल्लेखिना प्राकारशिखरेण स्खलितवर्मा प्रस्तुतचाटुखि प्रत्ययवन्दनमालाश्यामलामधिगोपुरं विलम्बयामास वासरमुखेषु रविरथाश्वपङ्क्तिमरुणः यस्यां च प्रियतमाभिसारप्रचलितानां पण्याङ्गनानामङ्गलावण्यसंवर्धिताभिराभरणरत्नांशुसंततिभिः स्तम्भिततिमिरोठ्या भवनदीर्घिकासरोजवन- 25 निद्राभिरन्त्रमीयन्त रजनीसमारम्भाः, या च दक्षिणानिलतरङ्गितानां प्रतिभवनमुच्छ्रितानामनङ्गध्वजानामङ्गुलीविभ्रमाभिरालोहितांशुक वैजयन्तीभिः कृतमकरध्वज लोपमहापातकस्य शूलपाणे त्तावकाशामलकापुरीमिव तर्जयन्ती मधुसमये समलक्ष्यत, यस्यां च मुदितगृहशिखण्डिकेकारवमुखरिताभिस्तरुणजल पङ्क्तिभिः परिवारितान्तासु प्रासादशिखरमालासु 30 प्रावृषि कृतस्थितयो ग्रीष्मकालपरिभुक्तानामुपवनोपरुद्धपर्यन्तभुवामधस्तनभूमिकानां नोदकण्ठन्त सुकृतिनः, यस्यां च जलधरसमयनिर्धोतरेणुपदलनिर्मलानामुदप्रसौधाम पद्मराग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy