SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ कविधनपालकृता ङ्गणवेदिभिरश्रान्तकालागरुधूपधूमान् लेषस्यपलायमानदन्तवलभिकाभित्तिचित्रानिव विचित्रमयूखजालकमुचो माणिक्यजालकान् कलयद्भिरद्भुताकारैरनेक भूमिका भ्राजिष्णुभिः सौधैः प्रवर्तिताविरतचन्द्रोदया, प्रतिगृहं स्वच्छधवलायताभिर्दृष्टिभिरिव दिदृशारसेन वसुधया व्यापारिताभिः क्रीडासरसीभिः संवलिता, मृदुपवनचलितमृद्वीका लतावलयेषु 5 वियति विलपतामसितागुरुधूपधूम योनीनामासार वारिणेवोप सिच्यमानेष्वतिनीलसुरभिपु गृहोपवनेषु वनितासखैर्विलासिभिरनुभूयमानमधुपानोत्सवा, मज्जत्कोशल विलासिनीनितम्बास्फालनस्फारिततरङ्गया गृहीतसरलमृणालयष्टिभिः पूर्वार्णववितीर्णैर्वृद्धकञ्चुकिभिवि राजहंसः क्षणमध्यमुक्तपार्श्वया कपिलकोपानलेन्धनीकृत सगरतनयस्वर्गवार्तामिव प्रष्टुं भागीरथीमुपस्थितया सरिता सरय्वाख्यया कृत पर्यन्त सख्या, सततगृहव्यापार10 निषण्णमानसाभिर्निसर्गतो गुरुवचनानुरागिणीभिरनुल्बणोज्ज्वलवेषाभिः स्वकुलाचार कौशलशालिनीभिः शालीनतया सुकुमारतया च कुचकुम्भयोरपि कदर्थ्यमानाभिरुद्धत्या मणिभूषणानामपि विद्यमानाभिर्मुखरतया रतेष्वपि ताम्यन्तीभिर्वैयात्यपरिग्रहेण स्वप्नेऽप्य लङ्घयन्तीभिर्द्वारतोरणमङ्गीकृत सतीव्रता भिरप्यसतीव्रता भिरलसाभिर्नितम्बभरवहने तुच्छाभिरुदरे तरलाभिचक्षुषि कुटिला भिमोरतृप्ताभिरङ्गशोभायामुद्धताभिस्तारुण्ये कृतकुसङ्गा15 मिश्चरणयोर्न स्वभावे कोपेऽप्यदृष्टमुखत्रिकाराभिर्व्यलीकेऽप्यनुज्झितविनयाभिः खेदेऽप्यखण्डितोचितप्रतिपत्तिभिः कलहेऽप्यनिष्ठुरभाषिर्णाभिः सकलपुरुषार्थसिद्धिभिरिव शरीरबद्धाभिः कुलप्रसूताभिरलङ्कृता वधूभिः, इतराभिरपि त्रिभुवनपताकाचमानाभिः कुबेरपुरपुण्याङ्गनाभिरिव कृतपुण्यजनोचिताभिः पादशोभयाऽपि न्यक्कृतपद्माभिरूरुश्रियाऽपि लबूकृतरम्भास्तम्भाभिगौर्याऽपि छायया सौनाग्यहेतोरुपासिता मिरिन्दुनाऽपि प्रतिदिनं 20 प्रतिपन्नकलान्तरेण प्रार्थ्यमान मुखकमलकान्तिभिर्मकरध्वजेनापि दर्शिताधिना लव्धहृदयप्रवेशमहोत्सवाभिरप्रयुक्त योगाभिरे कावयव प्रकटानन मरुतामपि गतिं स्तम्भयन्तीभिरव्यापारितमन्त्राभिः सकृदाह्वानेन नरेन्द्राणामपि सर्वस्वमाकर्षयन्तीभिरसदोषवीपरिग्रहाभिरीपत्कटाक्षपातेनाचलानपि द्रावयन्तीभिः सुरतशिल्पप्रगल्भतावष्टम्भेन रूपमपि निरुपयोगमवगच्छन्तीभिस्तारुण्यपि तृणलघु गणयन्तीभिर्विलासानपि हास्यकोढौ कलयन्तीभिरा25 भरणसम्भारमपि भारमवधारयन्तीभिः प्रसाधनादम्बरमपि विडम्बनापक्षे स्थापयन्तीभिरुपचारमध्याचारबुद्धया प्रपञ्चपन्तीभिः कैश्चिदधरैरिव शतशः खण्डितैरप्यखाण्डतरागैरनिशमुपयुज्यमानवननिःश्वास परिमलाभिरपरैस्तु चषकैरिव कदाचिदाननप्रणयितामानीय प्रणुन्नैरप्रसन्नै रणन्मधुकरध्वनिना भन्ने म रुगुरुणायमानैः कामिभिरशून्यद्वाराभिर्नसुरतेषु बद्धरागाभिरपि नीचरतेष्वस क्तानिलक्ष्मीमनोवृत्तिभिरिव पुरुषोत्तमगुण30 हार्याभिर्त पुनरेकान्ततोऽर्थानुरागिणीभिः संसारेऽपि सारताबुद्धिनिबन्धनभूताभिः कुलकनायातदेशिककलाकलापवैचक्षण्याभिः साक्षादिव कामसूत्रविद्याभिर्विलासिनी भिविता त्रिभुवन जिगीषुकुसुम सायक साहायका, अकलिताच्यानाव्यविवेकैरगृहीतपण्डिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy