SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी न स्वप्नेऽपि समाश्रिता रिपुजनं म्लानिं गता नोन्नती लग्ना साधुगुणद्विषां शुचितया कर्ण न दुष्टात्मनाम् । निदोषाहमनेन दिक्षु गमितेत्यात्मीयवार्तामिव व्याकर्तुं ब्रजति स्म यस्य तरसा कीर्तिः सुरेन्द्राल यम् ।। ४९ ।। निःशेषवाङ्मयविदोऽपि जिनागमोक्ताः श्रोतुं कथाः समुपजातकुतूहलस्य । 5 तस्यावदातचरितस्य विनोदहेतो राज्ञः स्फुटाद्भुतरसा रचिला कथेयम् ।।२०।। आसीद् द्विजन्माऽखिलमध्यदेशप्रकाशशांकास्यनिवेशजन्मा । ___ अलब्ध देवर्षिरिति प्रसिद्धि यो दानवर्षित्यविभूपितोऽपि ॥ ५१ ।। शास्त्रेष्वधीती कुशलः कलासु बन्धे च बोधे च गिरां प्रकृष्टः । तस्यात्मजन्मा समभून्महात्मा देवः स्वयम्भूरिव सर्वदेवः ।। ५२ ।। 10 तज्जन्मा जनकांहिपङ्कजरजःसेवाप्त विद्यालयो विप्रः श्रोधनपाल इत्यविशदामेतामबध्नात् कथाम् । अक्षुण्णोऽपि विविक्तसूक्तिरचने यः सर्वविद्याब्धिना __ श्रीमुञ्जन सरस्वतीति सदसि क्षोणीभृता व्याहृतः ।। '५३ ।। १) अस्ति रम्यतानिरस्त समस्तसुरलोका, स्वपढ़ापहारशङ्कितशतक्रतुप्रार्थितेन 15 शततमक्रतुवाञ्छाविच्छेदार्थमिव पार्थिवानामिक्ष्वाकूणामुत्पादिता प्रजापतिना, वृत्तोज्वलवर्णशालिनी कर्णिकेवाम्भोरुहस्य मध्यभागमलकृत्य स्थिता भारतवर्षस्य, तुषारधवलभित्तिना विशालवप्रेण परिगता प्राकारेण, विपुलसोपानसुगमावतारवापीशतसमाकुला, मनोरथानामपि दुर्विलङ्येन प्लबमानकरिमकरकुम्भीरभीषणोमिणा जलपतिविम्वितप्राकारच्छलेन जलराशिशङ्कया मैनाकमन्वेष्टुमन्तःप्रविष्टहिमवतेव महिमवता 20 खातवलयेन वेष्टिता, पवनपटुचलितधवलध्वजकलापैर्जामदग्न्यमार्गणाहतकौञ्चाद्रिच्छिद्रेरिवोद्भ्रान्तराजहंसैराशानिर्गममार्गायमाणैश्चतुर्भिरत्युच्चैर्गोपुरैरुपेता, प्रांशुशिखराग्रज्वलकनककलशैः सुधापधवलप्राकारवलयितैरमरमन्दिरमण्डलैर्मण्डलितभोगमध्यप्रवेशितोन्मणिफणासहस्रं शेषाहिमुपहसद्भिद्भासितचत्वरा, त्वरापतज्जलविसरसारणीसिक्तसान्द्रबालमैमतलनिपादिना परिश्रान्तपथिकलोकेन दिवसभाकर्ण्यमानमधुरतारघटीयन्त्र- 25 चीत्कारैः परित्यक्तसकलव्यापारेण पौरवनितामुखार्पित हष्टिना सविक्रिय प्रजल्पता पठता गायता च भुजङ्गसमाजेन क्षणमप्यमुच्यमानमनोभवभवभवानीभवनैः प्रतिदिवसमधिकाधिकोन्मीलन्नीलकान्तिभिः स्वसन्ततिप्रभवपार्थिवप्रीतये दिन करेणेवाकृष्य संचार्यमाणसकलशर्वरीतिमिरैरमरकाननानुकारिमिरारामः श्यामायमानपरिसरा, गिरिशिखरतनिनिभशातकुम्भप्रासादमालाध्यासितोभयविभागः स्फुटविभाव्यमानमरकतेन्द्रनीलवन-30 वैडूर्यराशिभिश्चामीकरवलतटीव चण्डांशुरथचक्रमागैः पृथुला यतै विपणिपथैः प्रसाधिता, धृतोद्धरया कारपरिवपैरभ्रङ्कपप्रतो लेभिरुत्तुङ्गमकरतोरणावनद्धहरितवन्धनमालदोलाविभूषिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy